________________
१२२]
प्रथमः प्रत्यक्षप्रस्तावः ___ कीदृशो न्यायः ? इत्याह-मलिनीकृतः विप्रतिपत्तिमलीमसः कृतः इति, निर्मलस्य निर्मलतानयने प्रयोजनाभावात् । किं कृत्वा ? इत्यत्राह-प्रक्षाल्य मलिनीकृतन्यायं परिशोध्य । कैः ? सम्यग्ज्ञानजलैः निर्मलत्वान्मलशोधनत्वाच्च जलसाधात् सम्यरज्ञानानि जलत्वेन निरूपितानि । ज्ञानग्रहणम् अज्ञातोपदेशनिषेधार्थम् । तथाहि-यापदेष्टव्यं' न स्वयं जानाति कथमुपदिशेत्, उपदिशन्वा कथं प्रमाणमुन्मत्तवत् ? नन्वेवं सुगतस्याप्रमाण- ५ त्वमेव स्यात् अज्ञातस्यैव बैहि वहेतुफलभावादेस्तेनोपदेशात् । परिज्ञात एव लोकबुद्ध्या बहिर्भावहेतुफलभावादिरिति चेत्; का पुनरियं लोकवुद्धिः ? ग्राह्यग्राहकभावोपप्लवाधिष्ठिता वितथाकोरा विज्ञप्तिरिति चेत् ; सा यदि विनेयसम्बन्धिनी; कथं तया बुद्धस्य बहिर्भावादिपरिज्ञानं तस्यास्तेनापरिज्ञानात् ? तामपि लोकबुद्ध्यन्तराज्जानीत इति चेत् ; न ; अनवस्थानात् । आत्मसम्बन्धिन्येव लोकबुद्धिरिति चेत्, न; अतत्त्वदर्शित्वप्रसङ्गात् । तथा हि
वितथार्था हि विज्ञप्तिर्लोकबुद्धिनिगद्यते । तद्वतस्तत्त्ववित्त्वं चेत्; अतत्त्वज्ञः क उच्यताम् ? ॥१३९॥ अविद्यापरिहाणिश्च कथं तस्यैवमुच्यताम् ? अविद्याप्रभवा ह्येषा विज्ञप्तिर्वितथाकृतिः ॥ १४०॥ 'यथास्वं प्रत्ययापेक्षादविद्योपप्लुतात्मनाम् । विज्ञप्तिर्वितथाकारा जायते तिमिरादिवत् ॥' [प्र० वा० २।२१७] इति कीर्त्तिवचोभावात् , अविद्या चेत्परीक्षिता ।
नास्त्येव तर्हि बुद्धस्य लोकबुद्धिर्यथोदिता ॥१४२॥ "असत्यपि सुगतस्याविद्योपप्लवविकलतया तद्दशायां मिथ्याज्ञाने प्राच्यतज्ज्ञानजनितात् संस्कारादुपपद्यत एव बहिर्भावाद्युपदेशः । तदुक्तम्-"पूर्वावेधेन देशनासम्भवाच्चक्रभ्रमणवत्" [प्र० २० वार्तिकाल० २।२१९ ] इति चेत् ; तन्न ; यस्मात्तदावेधस्याज्ञानत्वं चेत्, सिद्धमज्ञातोपदेशित्वम् । तस्य ज्ञानत्वेऽपि मिथ्याज्ञानत्वं चेत् ; न ; 'तद्दशायां तदभावात् । पूर्वमासीदिति चेत् ; न ; तस्येदानी क्वचिदनुपयोगादात्मदर्शनवत् । यदि पुनरपक्रान्तस्यापि मिथ्याज्ञानस्येदानीमुपदेशहेतुत्वम् ; आत्मदर्शनस्यापि "चिरापक्रान्तस्य पुनरावृत्तिनिबन्धनत्वं भवेदिति सुगतस्य पुनर्जननमात्मस्तेहादयश्च दोषा भवेयुः पुनरावृत्तेस्तद्रूपत्वात्, “पुनरावृत्तिरित्युक्तौ जन्मदोषसमुद्भवौ” २५ [प्र० वा० १।१४२] इति वचनात् । तथा च दुर्व्याहृतमेतत्-"आत्मदर्शनबीजस्य
वस्तु । २-णतत्त्व- आ०, ब०, १०, स.। ३ बाह्यपदार्थनिष्ठकार्यकारणभावादेः । ४ "केवलं लोकबुये। बाह्यचिन्ता प्रतन्यते" -प्र. वा. २१२१९ । ५-कार वि- आ०, ब०, ५०।६ विनेयसम्बन्धिन्या विज्ञप्तः । . सुगतस्य । ८ "अनाद्यविद्योपप्लुतात्मनामप्रहीणक्लिष्टज्ञानानां पुसा यथास्वं यस्य भ्रमस्य य आत्मीयः यथास्वं प्रत्ययस्तस्यापेक्ष गमपेक्षः । तस्माद्वितथौ ग्राह्यग्राहकाकारौ यस्याः सा तादृशी विज्ञप्तिर्जायते । तिमिरादिवत् तिमिरादाविव, वितथाकारचन्द्रद्वयादिविज्ञप्तिः।" -प्र. वा. म. २१२१७। ९धर्मकीर्ति । १० असत्यस्यापि आ०,०,१०,स० । ११ पूर्वावेदेन आ०,ब०,१०,स०। पूर्वसंस्कारेण । १२ यस्मात्तदावेदस्य आ०,ब०,१०,स। १३ पूर्वसंस्कारस्य ।१४ सुगतावस्थायाम् । १५ चिरोपका-आ०, ब०, ५०, स०।