________________
न्यायविनिश्चयविवरणे
[१२ हानादपुनरागमः" [प्र. वा० १।१४३ ] इति । प्रागप्यात्मदर्शनं न सुगतस्येति चेत; न तर्हि तस्य कदाचिदपि संसारः कारणाभावात् । आत्मदर्शनं हि संसारस्य मूलकारणं तृष्णाया अपि संसारहेतोस्तत्प्रभवत्वात् । तेदभावे चानादिरेव संसारविरहः प्रसज्येत
कारणाभावे कार्याभावस्य नियमात् । न चैवम् , उपायाभियोगनिबन्धनस्य तद्विरहस्याभ्युपगमात् । ५ न चासतो विरहः संसारस्य खरशृङ्गवत् । सतोऽपि न विनात्मदर्शनेन सम्भवः, तदन्यहेतुकत्वस्य नाहेतुकत्वस्य च स्वयमनभ्युपर्गमादित्यस्त्येव तस्यापक्रान्तमात्मदर्शनम्, ततश्च मिथ्याज्ञानात्तकार्यमिव कथमिदानी न पुनरावृत्तिर्भवत्विति चेत् ? न; "अपुनरावृत्त्या गतः सुगतः" [ ] इत्यस्य विरोधात् । किञ्च,
आत्मदर्शनमुच्छिन्नमपि कार्य करोति चेत् । व्यर्थमेव मुमुक्षूणां तदुच्छेदाय चेष्टितम् ॥१४३॥ मिथ्याज्ञानादपक्रान्तान्मिथ्याज्ञानं न तस्य किम् । उपदेशस्ततो भावी न तदित्येष विस्मयः ।।१४४॥ मिध्याज्ञानमलेनैवं परितः परिवेष्टिता ।
विधूतकल्पनाजाला मूर्तिस्ताथागती कथम् ? ।।१४५॥ १५ यत्पुनरत्र परस्य समाधानम्
"निरुपद्रवभूतार्थस्वभावस्य विपर्ययैः ।।
न बाधा यत्नवत्त्वेपि बुद्धेस्तत्पक्षपाततः ॥ न हि स्वभावो यत्नरहितेन निवर्तयितुं शक्यः । यत्नश्च दोषदर्शिनो गुणेषु प्रवर्त्तते
दोषेषु च गुणदर्शिनः । न च सात्मीभूतनैरात्म्यदर्शनस्य दोषेषु गुणदर्शनं न गुणेषु २० दोषदर्शनमदर्शनं वा गुणेषु, नैरात्म्यदर्शनस्य निरुपद्रवत्वात् ।
ततः स्वभावो भूतात्मा निरुपद्रव एव च । कथमस्य परित्यागः शक्यः कर्तुं सचेतसा ॥ पक्षपातश्च चित्तस्य न दोषेषु प्रवत्तते ।
ततस्तस्य न दोषाय यत्नः कश्चित्प्रवर्त्तते ॥" [प्र० वार्तिकाल० १।२१२]इति; २५ तन्न समीचीनम्; मिथ्याज्ञानवत् मिथ्योपदेशस्याप्यभावप्रसङ्गात् , तस्याप्यभूतार्थविषयस्य सोपद्र
, “यः पश्यत्यात्मानं तत्रास्याहमिति शाश्वतः स्नेहः । स्नेहात् सुखेषु तृष्यति तृष्णा दोषांस्तिरस्कुरुते । गुणदर्शी परितृष्यन् ममेति तत्साधनान्युपादत्ते। तेनात्माभिनिवेशो यावत् तावत् स संसारे॥"-प्र०वा० १२१९-२२१॥ २ प्रागप्यात्मदर्शनाभावे । ३ नैरात्म्यदर्शनाभ्याससाधनस्य । ४ द्रष्टव्यम्-प्र. वा. स्ववृ. ३॥३६-३७ । ५ सुगतस्य । ६ "अपुनरावृत्त्या गमनं सुगतत्वम्"""-प्र०वा०म० १.१४२ । ७ सुगतस्य । ८ मिथ्याज्ञानयुक्तसुगतात् । ९ "विधूतकल्पनाजालगम्भीरोदारमूर्तये" (प्र. वा० ११) इत्यादिना स्तूयमाना। १० "दोषराशेरुद्वेजकस्य प्रहाणेन निरुपद्रवस्य प्रमाणसंवादित्वेन भूतार्थस्य सत्यार्थस्यानारोपितत्वेन स्वभावस्य प्रकृतेनैरात्म्यस्याभिरुचितविषयस्य विपर्ययेष्वात्माद्याकारेष्वभ्यासे सोपद्रवत्वादिना प्रयत्न एव तावन्न सम्भवति प्रेक्षस्य । सम्भवेपि वा विपर्ययैः न बाधा नैरात्म्यस्य सात्मीभूतस्य स्वभावस्यास्ति बुद्धस्तत्र दोषप्रतिपक्षे गुणवति मार्गे पक्षपातात् ।"-प्र. वा. म. १२१२।