________________
१२]
प्रथमः प्रत्यक्ष प्रस्तावः
३७
वस्वेन दोषत्वात्, दोषतया च निश्चिते तस्य प्रयत्नासम्भवात् । प्रयोजनवशाद्दोषेऽपि प्रयत्न इति चेत्; न; पक्षपाताभावे तदसम्भवात् । ने च दोषे पक्षपात: "पक्षपातश्च चित्तस्य " इत्यादि विरोधात् । दोष एवायं नै भवति प्रयोजनवत्त्वेन गुणत्वादिति चेत्; न; गुण एवायं न भवति अभूतार्थत्वेन दोषत्वात् । प्रयोजनवत्त्वं गुणो दृश्यत इति चेत्; न; अभूतार्थत्वस्य दोषस्यापि दर्शनात् । तथा च,
गुणत्वात् पक्षपातोऽस्मिन् दोषत्वात्तद्विपर्ययः । युगपत्प्राप्नुयातां ते धर्मावन्योन्य बाधितौ ॥ १४६॥ पक्षपाताद्विधेयत्वमविधेयत्वमन्यतः ।
उपदेशस्य तच्चैतद्दौःस्थ्यं ते महदागतम् ॥ १४७ ॥ तदस्मात्सङ्कटावेशान्निर्मुच्येत तथागतः ।
कथन्नामेति चेतो नः कृपया परिपीड्यते ॥ १४८ ॥
५
१५
वस्तुभूतेप्यभूतार्थतया दोषत्वे गजनिमीलनं कृत्वा गुणत्वस्यैव प्रयोजनवत्त्वलक्षणस्याकिं तत्प्रयोजनं यत्पक्षपातनिबन्धनं भिसन्धानात् पक्षपात एवै न तत्र विपर्यय इति चेत् ; भवेत् ? मार्गावतारो विनेयानामिति चेत्; कः पुनरसौ मार्ग : ? बहिरर्थादिज्ञानमेवेति चेत्; स्वयं कस्यासौ मार्गः ? पुरुषार्थस्य प्रवृत्तिनिवृत्त्यादिलक्षणस्येति चेत्; न; वस्तुतस्तदभावात्, तथैवाभ्युपगमात् । अवस्तुसतश्च दोषत्वेनापक्षपातविषयत्वात् कथं तदर्थोऽयं कारणान्वेषणप्रयत्नस्तथागतस्य ? दोषे दोषतया निर्णीते तदसम्भवाच्च, अन्यथा “यत्नश्च दोषेषु गुणदर्शिनः" इत्यस्य विरोधात् । प्रवृत्त्यादेरपि प्रयोजनवत्त्वेन गुणत्वात् पक्षपातविषयत्वमेव, अभूतार्थत्वेन दोसत्यपि गनिमीलनविधानादिति चेत्; न; "तत्प्रयोजनस्याप्यपरप्रवृत्त्यादिरूपत्वेन 'वस्तुतस्तदभावात्' इत्यादेरावृत्त्या चक्रकानवस्थयोः प्रसङ्गात् । तदन्यरूपत्वे च समाधानस्याभिधास्यमानत्वात् । तन्न प्रवृत्यादिः पुरुषार्थः । निःश्रेयसमेव स्वाभिमतं पुरुषार्थ इति चेत् ; न; तत्र बहिरर्थादिज्ञानस्यामार्गत्वात् सकलधर्मनैरात्म्यदर्शनस्यैव' तन्मार्गत्वेनोपगमात् । " मुक्तिस्तु शून्यतादृष्टेः” [प्र०वा० १ । २५५ ] इति वचनात् । तन्न बहिरर्थादिज्ञानं मार्गः । सम्यग्ज्ञानमेव तर्हि नैरात्म्यदर्शनं मार्ग इति चेत्; न; तत्र तत्त्वोपदेशस्यैव हेतुत्वात् । न हि तत्त्वोपदेशकार्यमतत्त्वोपदेशाद् अनग्नेर्धूमवत् । अतत्त्वोपदेशश्चायमुपदेशो बहिरर्थादेस्तद्विषयस्य वस्तु- २५ वृत्तेनाभावात् । मिथ्योपदेशादपि तत्त्वज्ञानं चेत्; न; मिथ्याज्ञानादपि प्रसङ्गात् । तत्त्वसिद्धिनिबन्धनत्वे मिथ्याज्ञानत्वमेव तस्य न स्यादिति चेत्; न; उपदेशस्याप्यते एवामिध्यात्वप्रसङ्गात् । तन्न बहिरर्थादिज्ञानं नैरात्म्यज्ञानं वा तदुपदेशस्य प्रयोजनं यतस्तत्र पक्षपातात्प्रयत्नो
२०
१ न तद्दोषे आ०, ब०, प०, स० । २ मिथ्योपदेशः । ३ न च भ-आ०, ब०, प०, स० । ४ मिथ्यो७ - र्गावतारतो आ०, ब०, प० । ८ प्रवृत्तिलक्षपदेशे । ५ एव तत्र ता० । ६ उपदेशे पक्षपाताभावः । आ०, ब०, प०, स० । ९ बौद्धैः । १० तस्यप्रयो-आ०, ब०, प० । १२ तत्त्वसिद्धिनिबन्धनत्वादेव ।
११ - रात्म्यस्यैव आ०, ब०, प० ।