________________
म्यायविनिश्चयविवरणे
[१२२ भवेत् । अप्रयत्नेऽपि च 'पूर्वावधात् भवति तदुपदेशः। न हि प्रयत्नादेव सर्व कार्यम् अप्रयत्नानान्तरीयकस्य विद्यु दादेरभावप्रसङ्गादिति चेत् ; उक्तमत्र-'सुगतस्य मिथ्याज्ञानमपि भवेत् तत्कारणस्यापि तैदावेधस्य भावात्' इति । तेन चाप्रयत्नसिद्धेनैवे तत्त्वज्ञानबाधेन सम्भवादसम्बद्धमेतत्'निरुपद्रव' इत्यादि । सतोऽपि मिथ्याज्ञानस्य तत्त्वज्ञानाबाधकत्वे प्रागपि न स्यात् । सत्य५ मेतत् , मिथ्याज्ञानस्यैव वस्तुतः कस्यचिदभावात् , असतो हि विषयस्य ग्रहणे मिथ्यात्वम् , स च बहिर्भावादिरेव, न चास्य कचित्प्रागपि प्रत्यवभासनं स्वरूपमात्रवस्तुविषयत्वात् सर्वसंवे. दनानाम् , केवलं भौतमुद्रामात्रकमेवैतत् यत्तदैवभासकल्पनम् । ततो न प्रागपि श्रुतचिन्ताकाले सम्यग्ज्ञानं बा(नवा)धनसामर्थ्य मिथ्याज्ञानमलानां किं पुनर्विधूतसकलविप्लवे सुगतभावे
प्रभास्वरवित्तमयत्वात् तदा भगवतः १ तदुक्तम्- . १० "प्रभास्वरमिदं चित्तं प्रकृत्याऽगन्तवो मलाः ।
तत्प्रागप्यसमर्थानां पश्चाच्छक्तिः क्व तन्मयें ॥" [प्र. वा० १।२१० ] इति चेत् ; न; उक्तोत्तरत्वात् । असति वस्तुवृत्त्या मिथ्याज्ञाने न तन्निबन्धनो रागादिरित्यनादिशुद्धिः सुगतस्य स्यात् । अविद्यापरिकल्पितमस्त्येव तदिति चेत् ; न ; सतोऽपि तस्य रागादावन्यत्र "चासामर्थ्यात् । अपि च,
मिथ्याज्ञानमशक्तं चेत्तत्त्वसंवित्तिबाधने । मिथ्योपदेशसामर्थ्य कथं "तस्यावकल्प्यताम् ? ॥१४९॥
यदि सन्निहितमपि मिथ्याज्ञानं तत्त्वज्ञानबाधनाय न समर्थम् अविद्यानिर्मितस्य तस्यैव विचारासहत्वादिति; हन्तैवं कथं "तादृशस्यैव तस्य चिरापक्रान्तस्य मिथ्योपदेशसामर्थ्य
यतो बहिरादिदेशना बुद्धस्य भवेत् ? ततो नासामर्थ्यात्तस्य तदबाधनम् अपि त्वसत्त्वात् , २० तदपि चिरातीतस्याहेतुत्वादेव, तद्वन्मिथ्योपदेशोऽपि चिरापक्रान्तान्मिध्याज्ञानान्न सम्भवति ।
नापि तात्कालिकात् ; सुगतावस्थायां तदभावात् । तन्न लोकबुद्ध्या मिथ्याविकल्परूपया" बहिरादिचिन्ताप्रतननं बुद्धानाम् । यत इदं सूक्तम्
"तपेक्षिततत्त्वाथैः कृत्वा गजनिमीलनम् ।
केवलं लोकबुद्धथैव बाह्यचिन्ता प्रतन्यते ॥" [प्र० वा० २।२१९] इति । . पूर्वावेदात् आ०, ५०, ५०, स० । पूर्वसंस्कारात् । २ तदावेदकस्य भा०, २०, ५०, स० । पूर्वमिथ्याशानसंस्कारस्य । । मिथ्याज्ञानेन । ४ प्रयत्नं विना केवलं संस्कारसमुद्भतेनैव । ५ संसार्यवस्थायामपि । पहिर. विभास । . "तत्र श्रुतमयी श्रूयमाणेभ्यः परोर्थानुमानवाक्येभ्यः समुत्पद्यमानेन श्रुतशब्दवाच्यतामास्कन्दता निर्वत्ता पर प्रकर्ष प्रतिपद्यमाना स्वार्थानुमानलक्षणया चिन्तया निर्वृत्तां चिन्तामयीं भावनामारभते ।"-मासप. का.८३ । ८ "प्रभास्वरमिदं चित्तं नित्यत्वविरहितस्यैव तेन प्रहणादागन्तवो मलाः, असद्भूतसमारोपस्यामलकत्वेन भौतमुद्रामात्रकत्वात् न परमार्थतो नित्यत्वं कचित्प्रतिभाति ।"-प्र. वार्तिकाल. २१०।९ दत्तोत्त-मा०, ब,०, स०।१० मिथ्या रानम् । ११ वासामर्थ्या-आ०, २०, ५०, स०। १२ चिरापक्रान्तमिथ्याज्ञानस्य । १३ अविद्याकल्पितस्यैव । १४ मिथ्याज्ञानस्य । १५ तत्वज्ञानबाधनाभावः । १६-वान लो-आ०,०,०,स.। १७-रूपतया आ०, २०, ५०, स० ।