________________
१२]
३९
प्रथमः प्रत्यक्ष प्रस्तावः
"
नाऽपि तत्वज्ञानात्तत्प्रतननम्'; बहिरर्थादेरवस्तुत्वेन तत्वज्ञानस्य तदविषयत्वाद् अन्यथा मिथ्याज्ञानत्वप्रसङ्गात् । 'विधिपरत्वेनैव तद्विषयत्वे मिथ्याज्ञानत्वं न निषेधपरत्वेन, ततो निषेधविषयोपदर्शनार्थं तत्त्वज्ञानेनैव बहिरर्थाद्यनुवादेऽपि न दोष इति चेत् ; न ; तद्वन्नित्येश्वरादेरप्यनुवादप्रसङ्गात् तस्यापि निषेधविषयत्वाभ्यनुज्ञानात् । तथा च बहिरर्थादिवत्स्यापि संवृति सत्यत्वोपपत्तेर्न किञ्चिदसौगत मतं भवेत् । पूर्वपक्षत्वेनानूदितस्य कथं सत्यत्वमिति चेत् ? ५ कथं बहिरर्थादेरिति समानम् ? मा भूत्तस्यापि तदिति चेत्; उत्सन्नस्तर्हि संवृति सत्यव्यवहारो बहिरर्थादिव्यतिरेकेण तदसम्भवात् । तन्न तत्त्वज्ञानादपि तत्प्रतननमिति सिद्धमज्ञातोपदेशित्वं बुद्धस्य, ततश्चानाप्तत्वम् अनवधेयवचनत्वात् । न ह्यज्ञस्य वचनं प्रेक्षावतामवधेयमिति चेत्; साधुचोदक, साधीयस्तव चोद्यम्, अनुमतमेवैतदस्माकम् । न हि चोद्यमित्येव समाधातव्यम्, न्यायोपपन्नस्यानुमतिविषयत्वात् ।
सम्यग्रहणं तु संशयितस्य विपर्यस्तस्य चोपदेशनिवृत्त्यर्थम्, तदुपदेशेऽप्युपदेष्टुरनवधेयवचनत्वेनानाप्तत्वप्रसङ्गात् । तत्र
"
सन्दिग्धं संविदद्वैतम् तद्धि नः ( न ) प्रतिभासतः । सिद्ध्यति, प्रतिभासस्य बहिर्भावे " विभावनात् ॥ १५०॥ न तस्यै प्रतिभासश्चेद्; अद्वैतस्य कथं भवेत् ? अपह्नवे हि दृष्टस्यादृष्टस्यै निरामयम् ॥ १५१ ॥ बहिरर्थोऽपि यद्यस्ति तदद्वैतं कथं भवेत् ? न हि ज्ञानार्थयोर्भावे द्वयोरद्वैतसङ्गतिः ।। १५२।। बाध्यत्वात्प्रतिभातोऽपि " नास्त्य सावित्यसङ्गतम् । बाध्यबाधकभावस्य स्वयं बौद्धैर्निराकृतेः ॥ १५३॥ संवृत्या बाधनेऽर्थस्य वस्तुतस्तदनिह्नवात् । अद्वैतं "सांवृतं प्राप्तं प्राप्तं बाह्यं तु वस्तुसत् ॥ १५४ ॥ तस्मान्निर्भासतो वस्तुसदसत्तानुधाविनः ।
૧૯
सन्दिग्धं संविदद्वैतं तन्न वाच्यं मनीषिणाम् ॥ १५५ ।। एवं यत्कल्पितं सर्वैः सर्वथैकान्तवादिभिः । तत्प्रमाणविपर्यस्तमनाप्तोपज्ञमुच्यते ॥ १५६ ॥
'सम्यग्ज्ञानजलैः' इति बहुवचनं तद्बहुत्वस्य वक्ष्यमाणत्वात् । एवमपि बहुभिरेव प्रक्षालनं नैकेन नापि द्वाभ्यामिति प्राप्तमिति चेत्; आह- 'कथमपि' इति । एकादीनां मध्ये
१ बाह्यचिन्ताविस्तारः । २ बाह्यार्थाः सन्तीति विधिरूपतया । ३ बाह्यार्थाभाव इति निषेधरूपतया । ४ मित्येश्वरादेरपि । ५-गतं भ-आ०, ब०, प०, स० । ६ बहिरर्थादेरपि । ७ सत्यत्वम् । ८ अन्यः कश्चिदुपहसति । ९ चेन सा-आ०, ब०, प०, स० । १० जैनानाम् । ११ - वेऽपि भाव - ता० । अस्मिन् पाठे अपिशब्दः एवार्थको ज्ञेयः । १२ बहिर्भावस्य । १३ संवेदनाद्वैतस्य । १४ अपह्नवः स्यात् । १५ नास्ति बहिरर्थः । १६ द्रष्टव्यम् - प्र० वार्तिकाल० ३।३३० पृ० ४२ । १७ साम्प्रतम् आ०, ब०, प०, स० ।
१०
१५
२०
२५