________________
न्यायविनिश्वयविवरणे
[ १२
I
;
केनापि प्रकारेणेति । एकेन तत्प्रक्षालने किं तत्र द्वाभ्यां बहुभिर्वा वैयर्थ्यादिति चेत् ? न; ततोऽपि तदतिशयस्य सम्भवात्, सम्यग्ज्ञानानां सापत्न्यस्याभावाच्चेति निवेदनात् । कथं तर्हि बहुवचने द्वद्यादिप्रतिपत्तिरिति चेत् ? न; बहुषु द्वधादेरन्तर्भावेन ततस्तत्प्रतिपत्तेरविरोधात् । कैनेंनीयते ? इत्याह वचोभिः । न्यायविनिश्चयवचनैरिति । 'प्रत्यक्षलक्षणम्' इत्येवमादीनि हि तद्व५ चनानि, तैश्च प्रत्यक्षादिकमेव निर्मलत्वं नीयते नाम्नायस्तत्कथं तैः स तन्नेनीयत इत्युच्यत इति चेत्; न; तृतीये तैरेवाम्नायस्यापि तन्नयनात् । प्रत्यक्षादेस्तर्हि तन्नयनं किमर्थम् अप्रस्तुताभिधानदोषादिति चेत् ? न तस्याप्याम्नायपरिशोधनार्थत्वात् । प्रत्यक्षादौ हि निर्मलतां नीते निर्मलतत्प्रमाणपरिशुद्धद्रव्यपर्यायसामान्यविशेषात्मकजीवादिपदार्थगोचरतया सुपरिशुद्ध माम्नायज्ञानप्रामाण्यं भवति । अत एव प्रत्यक्षादिकं परिशोध्य पश्चादाम्नायः परिशोधितः, निश्चित१० प्रामाण्यप्रत्यक्षाद्यविरोधेन निष्प्रतिपक्षस्याम्नायप्रामाण्यस्य व्यवस्थापनार्थम् । यद्वक्ष्यति - "सकलागमार्थविषयज्ञानाविरोधं बुधाः प्रेक्षन्ते” [ न्यायवि० श्लो० ३८५ ] इति । लोकप्रसिद्ध्यैव परिशुद्धं प्रत्यक्षादिकं किं तत्परिशोधनेन ? परिशुद्धशोधने अतिप्रसङ्गदिति चेत्; न; तस्याप्याम्नायवन्मलिनीकृतत्वात् । न तर्हि कस्यचिदपि परिशोधनम् उपायाभावात्, सर्वप्रमाणमलिनीभावे हि क इवोपायः परिशोधनस्य स्यात्, प्रमाणस्यैव परिशोधनोपायत्वात्, १५ तस्य च मलिनीभावात्, अप्रमाणस्य तदुपायत्वे प्रमाणकल्पनावैयर्थ्यम्, प्रमाण वत्प्रमेयस्यापि अप्रमाण देव परिशोधनोपपत्तेः ।
२०
२५
३०
४०
यदि सर्वप्रमाणानामुच्यते मलिनीकृतिः । उपायाभावतस्तेषां परिशुद्धिक्रिया कथम् ? || १५७ ॥ प्रमाणस्यैव वक्तव्या परिशुद्धावुपायता । न च तन्मलिनीभूतमुपायत्वाय कल्पते ॥ १५८ ॥ मलीमसमुपायश्चेत्; मलप्रक्षालनं वृथा । अप्रमाणमुपायश्चेत्; प्रमाणान्वेषणं वृथा ॥ १५९ ॥ प्रमेयपरिशुद्धिश्च प्रमाणपरिशुद्धिवत् । अप्रमाणादुपायात् यत्प्रसिद्धिपदमृच्छति ॥ १६०॥ इति चेत्; असदेतत् ; यन्न हि सर्व मलीमसम् । प्रमाणम्, परिशुद्धस्य सम्भवात्तस्य कस्यचित् ॥ १६१॥ तेन चापरिशुद्धस्य परिशोधनसम्भवात् । उपायाभावतो नास्ति शुद्धिरित्यसमञ्जसम् ॥ १६२॥ सर्वशून्यप्रवादे हि शून्यज्ञानमकल्मषम् । सकल्मषान्न तज्ज्ञानाच्छ्रन्यत्वं यत्प्रसिद्धयति ॥ १६३॥
१ बहुवचनात् । २ वक्ष्यमाणकारि कारूपाणि । ३ तैः वचोभिः स आम्नायः तत् अमलत्वं नैनीयते । ४ प्रवचनप्रस्तावे । ५ अनलप्राणत् । ६ - कं किं तत्परिशुद्ध शोधनेन आ०, ब०, प०, स० । ७ परिशुद्धप्रमाणेन । ८ अविसंवादि प्रमाणं स्वीकर्त्तव्यम् ।