________________
१२]
प्रथमः प्रत्यक्ष प्रस्तावः
अंशून्यवेदनं तेन नीयते निर्मलां दशाम् ।
चित्राच्छ्रन्यज्ञानं कथं भवेत् ? ॥ १६४॥
शून्यज्ञानं भवत्तच्च स्वसत्तां प्रत्यनाकुलम् । " भावसंवित्तिनैर्मल्यं "स्वतोऽवद्योतयत्यलम् ॥ १६५॥ अद्वैत वेदनेनैवं निर्मलेन मलीमसम् । विधूतमलसम्बद्धं भवेद् द्वैतप्रवेदनम् ॥ १६६ ॥ अबाधितोपलम्भश्चेदद्वैतमवकल्पयेत् ।
द्वैतं किन्न स एवायमत्र कल्पयितुं क्षमः ॥ १६७॥ अस्ति चं द्वैतसंवित्तिरस्ति चास्यामबाधनम् । इति निर्णेष्यते 'पंश्चादलमत्राग्रहेण ते ॥ १६८ ॥ स्वरूपवेदनं यस्य संविदां परिशुद्धिमत् । तस्य तेन बहिर्वस्तुबुद्धिः शुद्धिपथं व्रजेत् ॥ १६९॥ बहिर्वस्तुपरिच्छेदि न किश्विद्यदि वेदनम् । " संवेदनबहुत्वं तु प्रसि ति कुतस्तव ॥ १७० ॥ अनासादित बाधत्वान्निर्मलं चेत्स्ववेदनम् । अर्थवेदनमप्यस्तु ततोऽर्थोस्तु निराकुलः ॥ १७१ ॥ स्वसंवेदननैर्मल्यमर्थनिर्मलवेदनात् ।
सिद्धमेतेन बोद्धव्यमन्यथा' तदसम्भवात् ॥ १७२॥ एकान्तवेदनं यच्च परिशुद्धं परैर्मतम् । बुद्धिस्तेनाप्यनेकान्तगोचर।” परिशुद्ध्यति ॥१७३॥ एवमादि यथान्यायं सूरिर्विस्तारयिष्यति । तत्प्रयासैः किमस्माकं " ग्रन्थविस्तरकारिभिः ॥ १७४॥
४१
१०
१ 'सर्व शून्यम्' इति वेदनं यदि सकल्मषं तदा सर्वस्य अशून्यत्वमेव स्यादिति भावः । २ यदि सर्वशुन्यताग्राहकं प्रमाणमपि अशून्यं न स्यात् तदा कथं सर्वशून्यताप्रतिपत्तिः ? ३ अशून्यमथ चाविसंवादि । ४ यथा शून्यशानमशून्यं तथा बाह्यार्थज्ञानमप्यशून्यं स्यादिति भावः । ५ स्वतो येद्यो ता०, ब० । खतो विद्यो - प० । ६ शुन्याद्वैतज्ञानेन । ७ बाह्यार्थज्ञानम् । ८ द्वैतविषयकाऽबाधितोपलम्भः । ९ चेद्वैत -आ०, ब०, प०, स० । १०. पश्चादमंलात्र प्रहेण - आ०, ब०, प०, स० । ११ घटपटादिविषयभेदात् संवेदनबहुत्वम् । १२ अर्थसंवेदननैर्मल्याभावे संवेदननैर्मल्यमपि न स्यादिति भावः । अन्यदा आ०, ब०, प०, स० । १३ सर्वथा क्षणिकत्वादिप्राहकम् । १४ स्वयमिष्टेन रूपेण सदात्मकम् तदन्यरूपेण असदात्मकमिति सदसदात्मक वस्तु माहिणी बुद्धिः स्यात् । १५ प्रन्थविस्तार - ब० । १६ परिशोधनाभावात् । १७ प्रसिद्धपरिशुद्धिकस्य ज्ञानस्य ।
१५
२०
तस्मादाम्नायपरिशोधनोपायत्वादुपपन्नमध्यक्षादिपरिशोधनम् । तत्परिशोधनोपायस्यापि परिशोधनादनवस्थानमिति चेत्; न; अपरिशुद्धस्यैव परिशोधनात्, प्रसिद्धपरिशुद्धिकस्य " तदभावात्, तेनैवापर परिशोधनात्, "तत्सद्भावस्य चानन्तरमेव निवेदनादिति न किञ्चिदवद्यम् । ततः सूक्तम् - २५