________________
न्यायविनिश्चयविवरणे
[ १२
'वचोभिः' इति । अनेन न्यायनैर्मल्यनयनस्यानन्योपायत्वं दर्शयति, अन्योपायत्वे तद्वचनासम्भ वात् । वचसामप्रमाणत्वात् कथं 'तैः स तन्नेनीयत इति चेत् ? न ; तत्प्रामाण्यस्य वक्ष्यमाणत्वात् । यस्यै तु तेषामवस्तुविषयत्वात् प्रामाण्यमनभिमतम्, तस्य निष्प्रयोजनमेव शास्त्रं तेन कस्यचिदप्यर्थस्यानिवेदनात्, तन्मतोपजीविनो वादिनश्च निग्रहावाप्तिः असाधनाङ्गवचनात् । ५ तथा च "देवस्य वचनम् " समस्तो वा वाक्यराशिरनर्थकः " [ ] इति । न वचनमात्रस्यानर्थकत्वं प्रमाणानुपपन्नवस्तुवादिनो वेदादिवचनस्यैवानर्थकत्वात् निरवद्यप्रमाणपयः परिषेकपरिशुद्धस्य तु त्रिरूपस्य लिङ्गस्य तत्साध्यसम्बन्धस्य च प्रतिपादकं वचनं प्रमाणमेव तस्य परार्थानुमानत्वेन सौगतैरङ्गीकरणात् । न च शास्त्रस्य निष्प्रयोजनत्वम्; लिङ्गतत्साध्यसम्बन्धाभिधायित्वेन तस्य प्रयोजनवत्त्वात्तस्यापि परार्थानुमानत्वात् । न च तन्मतोपजीविवादि १० वचनेस्याऽसाधनाङ्गवचनत्वम्, लिङ्गादेः साधनाङ्गस्यैव तेनाभिधानादिति चेत्; न; वचसामवस्तुविषयत्वाभावप्रसङ्गात् । तथा हि- तेषामवस्तुविषयत्वं प्रसज्यप्रतिषेधेन त्रा स्यात् " " वस्तुविषयत्वं वचसां नास्ति' इति," पर्युदासेन वा स्यात् 'वस्तुनोऽन्यदवस्तु तद्विषयत्वं वचसाम्' इति ? न तावदाद्यो विकल्पः; लिङ्गस्य तत्साध्यसम्बन्धस्य च वस्तुनः तद्विषयत्वात् । तद्व्यतिरिक्तं वस्तु न तद्विषय इति चेत्; कुत एतत् ? व्यभिचारात्, व्यभिचरन्ति हि शब्दा घटादिकं वस्तु १५ तदभावेऽपि तत्प्रवृत्तेरिति चेत्; अत एव लिङ्गादिविषयत्वमपि न स्यात्, शब्दादौ चाक्षुषत्वाद्यभावेऽपि तद्वचसां प्रवृत्तिदर्शनात्, अन्यथा तदसिद्धत्वाद्युद्भावनाभावप्रसङ्गात् । नानभिहितस्य दोषोद्भावनमुपपन्नम् ; अतिप्रसङ्गात् । शब्दान्यत्वमन्यत्रापि समानम् ।
स्यान्मतम् - अन्य एव स शब्दो यश्चाक्षुषत्वादौ सत्येव भवति, सोऽप्यन्य एव यस्तदभावे । न चान्यस्य दोषेणान्यस्य दोपवत्त्वं चौरदोषेण साधोरपि तद्वत्त्वप्रसङ्गादिति; तन्न; अन्यत्रापि समानत्वात् । "अन्येषामपि हि शब्दानां स्वविषयभावभाविनां तद्विपरीतानाश्च परस्परतो विशेषात् । विशेषानवभासनस्य च "लिङ्गशब्देष्वपि समानत्वात् " ।
२०
२५
४२
एतेन पर्युदासोऽपि प्रत्युक्तः; लिङ्गशब्दवदितरेषामपि वस्तुगोचरत्वेन अवस्तु"विषयत्वानुपपत्तेः । लिङ्गशब्दानामप्यवस्तुविषयत्वमेव लिङ्गस्यावस्तुरूपत्वात् स्वलक्षणं हि वस्तूच्यते तस्यैवार्थक्रियासामर्थ्यात् न च तस्य लिङ्गत्वमनन्वयात्, साध्येनान्वितं चलिङ्गम्, स्वलक्षणस्य च न धर्मिणि तदन्वयः शक्यनिर्णयः साध्यस्याद्याऽप्यनध्य - सायात् । न चानध्यवसिते साध्ये "तदन्वयः सुकराऽध्यवसायः ; अतिप्रसङ्गात् । सपक्षे
"
"
१ वचनैः न्यायः अमलत्वं प्राप्यते । २ बौद्धस्य । " वक्तृव्यापारविषयो योऽर्थो बुद्धौ प्रकाशते । प्रामाण्यं तत्र शब्दस्य नार्थतत्त्वनिबन्धनम् ॥ " - प्र०वा० १|४ | ३ शास्त्रेण । ४ पचसिद्ध्यनङ्गभूत । ५ वेदस्य आ०, ब०, प०, स० । ६ इति वच-आ०, ब०, प०, स० । ७ - ध्यसम्बद्धस्य स० । ८ " त्रिरूपलिङ्गाख्यानं परार्थानुमानम् । श्रीणि रूपाण्यन्वयव्यतिरेक पक्षधर्मत्वसंज्ञकानि यस्य तत् त्रिरूपम् । त्रिरूपं च तल्लिङ्गं च तस्याख्यानम् ।" - म्यायवि० पृ० ६१ । ९- नस्य सा-आ०, ब०, प०, स० । १०-दवस्तु-आ०, ब०, प०, स० । ११ - ति विपर्यु - आ०, ब०, प०, स० । १२ त्रिरूपलिङ्गवचन । १३ लिङ्गतत्साध्यसम्बन्धव्यतिरिक्तम् । १४ अनित्यः शब्दः चाक्षुषत्वादित्यादीनाम् । १५ घटपटादिशब्दानाम् । १६ घटपटादिशब्देषु इमे शब्दाः स्वविषयसद्भावे प्रयुक्ता इमे च तदभावे इति भेदानवभासनम् । १७ लिङ्गवाचकशब्देष्वपि । १८ - त्वादिति न आ०, ब०, प० । १९- विषयत्वेनानुप-आ०, ब०, प०, स० । २० -यशक्य आ०, ब०, प० । २१ स्वलक्षणलिङ्गान्वयः ।