________________
प्रथमः प्रत्यक्षप्रस्ताव:
४३
१२२] तदन्वयाध्यवसाय इति चेत् ; न ; धर्मिगतस्य हेतुस्वलक्षणस्यान्यत्रासम्भवात् , तत्रैवो. पलम्भात् । तथाविधस्याप्यन्यत्र भावे न किञ्चित्तौदेशिकं स्यात् । सामान्यरूपेण तदेवान्यत्रेति चेत् ; न; तपस्य व्यतिरिक्तस्याव्यतिरिक्तस्य वा स्पष्टप्रतिभासेनापरिच्छेदात् । प्रत्यभि. ज्ञानेन तत्परिच्छेद इति चेत् ; न ; तदर्शनाभावे तँदनुत्पत्तेः । वासनाबलात्तदुत्पत्तौ कामिन्यादिज्ञानवदवस्तुविषयं प्रत्यभिज्ञानं भवेत् । अवस्तुविषयमेव तेदस्तु सामान्यस्य तद्विषयस्या- ५ वस्तुत्वादिति चेत् ; सिद्धं तर्हि लिङ्गस्यावस्तुत्वं तस्य सामान्यरूपत्वात् । तदनेनं तत्साध्यसम्बन्धस्याप्यवस्तुत्वं निवेदितम् । न हि सम्बन्धिनः सामान्यस्यावस्तुत्वे तत्सम्बन्धस्य वस्तुत्वमुपपन्नम् ; वन्ध्यास्तनन्धयावस्तुत्वे तत्सौन्दर्यवस्तुत्वप्रसङ्गात् । तन्न लिङ्गादिशब्दानामपि वस्तुगोचरत्वं यतस्तद्वदन्येषामपि तद्गोचरत्वं सम्भाव्येत इति चेत् ; उच्यते
अवस्तु यदि लिङ्ग स्यात्सर्वशक्तिविवर्जितम् । कथं तद्विषयो वित्तेविषयः कारणं हि वः ॥१७५।।
यद्यवस्तुरूपमेव लिङ्गं ते तर्हि सकलशक्तिवैकल्यस्वभावं कथं तत् कस्यचिद्विज्ञानस्य विषयः स्यात् ? विज्ञानं प्रति कारणस्यैव तद्विषयत्वात्, "नाकारणं विषयः" [ ] इति वचनात् । न चावस्तुनः कारणत्वम् ; वस्तुत्वप्रसङ्गात् , अर्थक्रियासामर्थ्यस्य दस्तुलक्षणत्वेनाभ्यनुज्ञानात्" । अकारणत्वेऽप्यवस्तुमहणे वस्तुग्रहणमपि स्यादित्यसदेतत्-"नाकारणं २५ विषयः" इति ।
वस्तुनो यदि वेद्यत्वमनिमित्तस्य "कस्यचित् । "सर्वस्यैकेन संवित्तिः "सर्वैरेकस्य वा भवेत् ॥१७६।। सर्वस्य सर्ववेदित्वमनुपायं ततो भवेत् । प्रतिपाद्यादिभावस्य कथयाऽपि कथं गतिः ॥१७७॥ अवस्तुवेदि(द)नेप्येतडूषणं दृश्यते समम् । ततस्तस्यापि" वेद्यत्वमहेतोरेवमुच्यताम् ॥१७८॥
यद्यकारणस्यैव कस्यचिद्वस्तुनो प्रहणम् ; तदा सर्वस्यैकेन ग्रहणम् अकारणत्वाविशेपादित्युपायाभ्यासरहितमेव सर्वस्य सर्वदर्शित्वं भवेत्। वादिप्रतिपन्नस्यैव च प्रतिवादिना प्राश्निकैश्च. नियमेन प्रतिपत्तौ न वार्त्तयापि प्रतिपाद्यप्रतिपादकभावः प्रतिलब्धुं शक्यते । न हि २५ "प्रतिपन्नतद्भाव एवं परः प्रतिपादयितव्यः, प्रतिपादकस्यापि प्रतिपाद्यत्वेनानवस्थानप्रसङ्गादि-१६ त्ययं पर्यनुयोगः परस्य स्वमतं प्रत्यनुरागमयमान्ध्यमावेदयति । न झपरीक्षितं परीक्षालोचनः स्व
धर्मिमात्रोपलब्धस्यापि सपक्षे सद्भावे । २ अव्याप्यवृत्ति। ३ बौद्धदृष्टया अन्यापोहात्मकस्य सामान्यस्य । प्रत्यभिज्ञानानुत्पत्तः। ५ प्रत्यभिज्ञानम् । ६-न सा-आ०, ब०, प०, स.। . संभाव्यते मा०, ब०, १०, स०।८बौद्धानाम् । ९ बौद्धस्य । तत्तर्हि-आ०, ब०, ५०,स०। १. "अर्थक्रियासामर्थ्यलक्षणत्वाद्वस्तुनः ।" -म्यायवि० पृ. २३ । " कस्य चेत् आ०,०, १०, स.। १२ अर्थस्य । १३ ज्ञानैः। १४ वस्तुनोऽपि । १५ ज्ञातार्थः । १६-वस्थाप्रसादि-आ०, ब०, १०, स०।१७-चनस्व-भा०, २०, ५०