________________
न्यायविनिश्चयविवरणे
[ ११२
पक्षघातिनमेव दोषं परपक्षे निक्षिपति । समानः खल्वयं पर्यनुयोगः परस्यापि । अवस्तुनोऽप्यकारणस्यैव ग्रहणे सर्व सर्वज्ञत्वस्य प्रतिपाद्यप्रतिपादकभावाभावस्य च समानत्वात् । न हि नियामकाभावे तत्रापि विज्ञानानां विषये प्रतिनियमः सम्भवति । विज्ञानशक्तेर्नियामकत्वं वस्तुग्रहणेऽपि समानम् । ततो वस्तुवदवस्तुनोऽपि नाकारणस्य संवित्तिरिति सर्वहेतूनां सुबुद्धमज्ञातासिद्धत्व५ मवबुध्यते । कि, 'लिङ्गम्, अवस्तु च' इति व्याहतम् । लीनमर्थं गमयतीति हि लिङ्गम्, लीनार्थगमनश्च नापरं तज्ज्ञानकरणात् न चावस्तुनैस्तत्करणम् ; वस्तुत्वप्रसङ्गादित्युक्तत्वात् । तत्कथं तद्वचनस्यासाधनाङ्गवचनत्वान्निग्रहस्थानत्वं न भवेत् ? वरत्वेकत्वाध्यवसायात् वरत्वेव लिङ्गम्, वस्तुना हि धूमादिस्वलक्षणेन धूमत्वादिसामान्यमेकत्वेनाध्यवसितं वस्त्वेव ततो न तस्याशक्तिर्येनाग्रहणमलिङ्गत्वनेति चेत्; न सारमेतत् यस्मात्
,
१०
१५
२०
. ५
४४
अवस्तुनोऽपि शक्तिश्चेद्वस्त्वेकत्वेन निर्णयात् । अवरत्वभेदनिर्णीतेरशक्तिर्वस्तुनो न किम् ? ॥ १७९॥ विशेषस्याप्यशक्तत्वे सामान्यवदवस्थिते । कुतोऽनुसंवित्तिं लभन्ते हन्त ! सौगताः ॥ १८० ॥ एकत्वाध्यवसायेऽपि बलवत्त्वेन वस्तुनः । अवस्तुनि भवेच्छक्तिर्नाशक्तिर्वस्तुनीति चेत् ; ॥ १८१ ॥ अनन्वितत्वमप्येवं वस्तुधर्मः कथन्न ते । शक्तिवत्प्रविशेल्लिङ्गे वस्त्वेकत्वेन निश्चिते ॥ १८२॥ सामान्यस्यैव लिङ्गत्वमन्वयार्थं तवेच्छतः । असाधारणतास्यैवं प्राप्तेयं व्यभिचारकृत् ॥ १८३ ॥ सामान्यं पुनरन्यचेदन्वयायोपमृग्यते ।
"" वस्त्वभेदनयाभावे कथं तस्यापि लिङ्गता ॥ १८४ ॥ तदभेदनये तस्य प्राच्यवत्स्यादनन्वयः । पुनः सामान्य क्लप्तिस्तु जनयेदनवरिथतिम् ॥ १८५ ॥ - एतेनाभ्यासभौमे " यत्प्रत्यक्षमुपवर्णितम् ।
अविसंवादशून्यत्वं तस्याप्युक्तमनन्वयात् ॥ १८६॥ अभ्यासावस्थायां हि दृश्यप्राप्ययोरेकत्वमध्यारोप्य तत्सामर्थ्यादध्यक्षस्याविसंवाद कस्बे
१ बौद्धस्यापि । २ घटज्ञानस्य घट एव विषयः न तु पटः इत्याकारकः । ३-नकार - आ०, ब०, प० । ४ - नस्तत्कारणत्वं व-आ०, ब०, प०, स० । ५ सौगतमतोपजीविवादिवचनस्य । ६ अवस्तुना सह एकत्वाध्यव सायात् वस्तुनः अशक्तिः किन्न स्यात् ? ७ यथा धूमस्वलक्षणगता शक्तिः एकत्वाध्यवसायबलात् धूमसामान्ये उपसङ्क्रामति तथा धूमस्वलक्षणगतमनन्वितत्वमपि धूमसामान्ये उपसङ्क्रामेत् तथा च अनन्वयात् न हेतुत्वमिति भावः । ८ भवेच्छतः आ०, ब०, प०, स० । ९ सामान्यस्यैव । १० वस्तुना सह एकत्वाध्यवसायाभावे । ११ अभ्यास बहुत्वे । सभूमौ य-आ०, ब०, प०, स० । १२ वार्तिकालङ्कारे ( १२ ) । १३ - स्यापि संवादकत्व - आ०, ब०, प०