________________
२]
प्रथमः प्रत्यक्षप्रस्ताव: मनुमन्यते परैः 'यदेव दृष्टं तदेव प्राप्तम्' इत्यभिप्रायनिवेदनात् ; तदेकत्वस्याप्यवस्तुस्वभावस्य वस्तुस्वलक्षणाभेदाध्यवसाये वस्तुस्वभावभूतानन्वयधर्मानुपातित्वेन स्वान्वयस्वभावपरित्यागात् कथमविसंवादकारित्वं स्वलक्षणवत्?पुनरप्यविसंवादनिमित्तमेकत्वान्तरपरिकल्पनायां तदवस्थमनवस्थानम्।
स्यान्मतम्-न सर्वस्य वस्तुधर्मस्य बलवत्त्वं व्यवहारोपयोगिन एव तस्य बलवत्त्वात् , तदुपयोगित्वञ्च शक्तरेव नान्व (नानन्व) यस्य, ततः शक्तिरेव अवस्तुन्यध्यारोप्यते नानन्वयः, तद- ५ ध्यारोपे हि न प्रत्यक्षं संवादाभावात् । न हि तस्यानन्वितवस्तुविषयत्वे संवादित्वं नाम अतिप्रसङ्गात् । नाप्यनुमानम् ; लिङ्गाभावात् , अनन्वितस्य लिङ्गत्वायोगादिति प्रवृत्त्यादिव्यवहारः सर्व एवोच्छेद्येत, तस्य प्रत्यक्षादिनिबन्धनस्य तदभावे गत्यन्तराभावात् । न च व्यवहारमुपजीवतां तदभावायोपक्रमः श्रेयान् । तदनुपजीवने तु प्रत्यक्षादिनिराकरणमभिमतमेव ताथागतानाम् , सकलव्यवहारपरिस्पन्दाभावे निरवशेषविकल्पनिष्क्रान्तस्य संवेदनपरमार्थपर्यवसितस्य १० सर्वथा मुक्तत्वेन प्रत्यक्षादिचिन्तया प्रयोजनाभावात् । तदुक्तम्
"यद्यद्वैते न दोषोऽस्ति मुक्त एवासि सर्वथा ।
वर्त्तते व्यवहारश्चेत् प्रत्यक्षाद्यपि चिन्त्यताम्॥"[प्र०वार्तिकाल ० १।३६] इति । ततः प्रयोजनवशाच्छक्तिरेवाघ्यारोप्यते "नानन्वय इति ; तदसमीचीनम् ; अनन्वयानारोपे शक्तरप्यनारोपप्रसङ्गात् तस्यास्तत्स्वभावात् । न हि सा तत्स्वभावा "ततो निष्कृष्याध्या- १५ रोपायतुं शक्यते, स्वरूपत एव निष्कर्षणासम्भवात् स्वरूपाभावप्रसङ्गात् । कल्पनया निष्कर्षणमिति चेत् ; न ; अनिष्कृष्टस्वभावायाः ततोऽपि तदसम्भवात् । न हि कल्पनाप्यभेदिनी भिनत्ति तदानीमेव तदभेदाभावप्रसङ्गात् । अन्यदा भिनत्तीति चेत् ; न ; तदा शक्तेरेवाभावात् । न ह्यविद्यमाना भेत्तुं शक्यते, ''तदापि तद्भावे क्षणक्षायत्वाभावापत्तिः। सत्यम् , न कल्पनया भिद्यते शक्तिः, केवलमभिन्नापि भिन्नेव तस्यां "प्रत्यव- २० भासत इति चेत् ; कल्पनागतैव तर्हि शक्तिरध्यवसितव्या, न वस्तुगता। न चैतत्पध्यं भवताम्, तच्छक्तरप्यवस्तुरूपत्वात् । न चावस्तुनस्तथाविधादेव सामर्थ्यादर्थक्रियाकारित्वं कूर्मरोमसामाध्यासाद् वन्ध्यासुतस्यापि सुतप्रयोजनकारित्वप्रसङ्गात् । वस्तुभूतैव "कल्पनाशक्तिः वस्तुशक्तस्तत्राध्यासादिति चेत् ; न; अनन्विताया एवाध्यासप्रसङ्गात् तत्स्वभावत्वात् अनन्वयनिष्कृटाया असम्भवात् । कल्पनया सम्भव इति चेत् ; न; 'कल्पनागतैव तर्हि' इत्यादेरावृत्त्या २५
"ततो व्यवहारप्रसिद्धमवयविन एकत्वं समाश्रित्य यदेव दृष्टं तदेव प्राप्तमिति व्यवसायात् प्रमाणताव्यवहारः स च एकत्वाध्यवसायो देशकालाद्यभेदात् ।"-प्र०वार्तिकाल. ११५ । २-वस्थातुस्व-आ० ब०प० । ३ सान्वयआ०,ब०, ५०, स०। ४ नान्वयः आ०,०प०,स। ५ वस्तुगतस्य अनन्वितस्य अध्यारोपे । ६-शं प्रसंवादाआ०,ब०,५०,स० । प्रमात्मकं भवेदिति भावः । ७ प्रत्यक्षस्य । ८ व्यवहाराभावाय । १ संवेदनस्य पर-आ०, ब०, ५०, स.। १० जनस्य। ११ "यद्यद्वैतेन तोषोऽस्ति ..... व्यवहारश्चेत्परलोकोऽपि चिन्त्यताम् ।"-प्र. वार्तिकाल. ११३६ । 'न दोषोऽस्ति' अस्मिन् पाठे 'यद्यद्वैतं निर्दोषम्' इत्यर्थो ग्राह्यः । १२ नान्वयः आ०,ब०, ५०, स। १३ धर्मधर्मिणोरभेदात् शक्तेरपि वस्तुवत् अनन्वयस्वभावत्वात् । १४ अनन्वयतः । १५ कल्पनातोऽपि । १६ शक्तिम् ।-प्यभेदेन भिनं-प० । १७ उत्पत्तिक्षण एव। १८ क्षणिकत्वात्तस्याः । १९ उत्तरकालेऽपि । २. कल्पनायाम् । २१ कल्पनायां प्रतिभासिता शक्तिः । २२ गत इव त-आ०, ब०, १०, स०।