________________
न्यायविनिश्चयविवरणे
[ ११२ चक्रकप्रसङ्गादनवस्थानापत्तेश्च । तन्न अवस्तुनि वस्त्वध्यासः सम्भवति, यतोऽभ्यासावस्थायां दृश्यप्राप्ययोरेकत्वस्य अविसंवादकारित्वं लिङ्गस्य वा स्वरूपसाध्यसंवित्तिहेतुत्वमिति दुष्परिहारमज्ञातासिद्धत्वं सर्वलिङ्गानाम् , तेषामवस्तुसामान्यरूपतया स्वज्ञानाहेतुत्वात् । अत एव साध्यसंवित्तिकरणाभावात् 'तद्वचनानामसाधनाङ्गवचनत्वञ्च ।
वस्त्वेव यदि सामान्य ज्ञानरूपतयोच्यते । 'लिङ्गताऽर्थस्य हन्तैवमसामान्यात्मनः कथम् ? ॥१८७॥ अर्थादेव च धूमादेर्व्यवहाराय सौगताः । पावकाद्यनुमानेन प्रवृत्तिं कल्पयन्त्यमी ॥१८८।। अध्यासाज्ञा (साज्ज्ञा) नधर्मस्य यद्यर्थस्यापि लिङ्गता । अध्यस्तं ननु सामान्यमवस्त्वेवेति भाषितम् ॥१८९॥ ज्ञानात्मनापि सामान्य वस्तु यद्यन्वयात्मना । अर्थात्मनाऽपि किन्न स्याद्वस्तु सामान्यमन्वितम् ? ॥१९॥ अन्वयग्रहणं यद्वज्ज्ञानेऽर्थेऽपि तथा भवेत् । ततोऽभिधेयं वस्त्वेव बहिः सामान्यमागतम् ॥१९१॥ नचैतदभ्यनुज्ञानं सौगतानां हितावहम् । "तदवस्त्वभिधेयत्वात्" इति कीर्तिवचःश्तेः ॥१९२॥ "खालक्षण्येन सामान्य वस्तु चेज्ज्ञानगोचरम् ।
व्याजोक्त्या किम् ? न सामान्यं सर्वथास्तीति कथ्यताम् ॥१९३॥
स्खलक्षणरूपतयैव ज्ञानगतस्यापि सामान्यस्य वस्तुत्वे बहिरन्तश्च स्खलक्षणमेवास्ति २० वस्तुतो न सामान्यमिति स्पष्टमभिधातव्यं किमनया 'ज्ञानात्मना वस्त्वेव सामान्यम्' इति
व्याजोक्त्या ? न च सामान्याभावे वचनव्यवहारोऽपि विषयाभावात् स्वलक्षणस्याहृद्विषयत्वात् । ज्ञानस्खलक्षणमेवाबाह्यमपि बाह्यतया अनन्वितमप्यन्विततयाऽध्यवसीयमानं सामान्यमिति चेत् ; कुतस्तस्य तथाऽध्यवसायः ? स्वत एवेति चेत् ; न; स्वलक्षणतयैव स्वतस्तस्य वेदनसम्भवात्तत्स्व
भावत्वात् न सामान्यरूपेण विपर्ययात् । तदपि तस्य स्वभाव इति चेत्, न; वस्तुत एव २५ सामान्यसिद्धक्तत्वात् । अस्वरूपमपि वासनादोषात्तेन" तद्गृह्यत इति चेत् ; न, प्रतिबन्धाभावात्।
न हि "ततस्तस्योत्पत्तिः; तस्यावस्तुत्वेनाहेतुत्वात् प्रतिबन्धान्तरस्य चानभ्युपगमात् । कारणत्वमेव च ग्राह्यत्वम् , "ग्राह्यतां विदुर्हेतुत्वमेव" [प्र०वा०२।२४७] इति वचनात् । अकारणस्यापि तस्य स्वयोग्यतयैव संवेदनं ग्राहकमिति चेत् ; न; स्वमतव्याघातेन ध्यान्ध्य
हेतुप्रतिपादकवचसाम् । २ लिङ्गतोऽर्थ-आ०, ब०, ५०, स. । ३ ज्ञानात्मना भासमानमपि सामान्यम् । ४ "न तद्वस्त्वभिधेयत्वात्-तत् सामान्यं न वस्तुरूपादिखभावम् अभिधेयत्वात् ।"-प्र. वा०, म. २।१५। धर्मकीर्ति। ५ ज्ञानस्वलक्षणरूपतया । ६ कथ्यते आ०, ब०, ५०, स०। ७ शब्दागोचरत्वात् ।
प्र० वा ३१७५-७७। द्रष्टव्यम्-पृ. २२ टि. ५। ९ ज्ञानस्वलक्षणस्य । १० सामान्यरूपमपि । ११ तेन ज्ञानस्वलक्षणत्वेन तत् सामान्यम् । १२ ततः सामान्यात् तस्य ज्ञानस्वलक्षणस्य । १३ कार्यकारणभावातिरिक्तस्य । १४ "भिन्न कालं कथं ग्राह्यमिति चेत् ; ग्राह्यतां विदुः । हेतुत्वमेव युक्तिज्ञा ज्ञानाकारार्पणक्षमम् ॥"-प्र. वा। १५ सामान्यस्य । १६ न वान्ध्य-आ०, ब०, ५०, स०।