________________
१२२]
प्रथमः प्रत्यक्षप्रस्ताव प्रसङ्गात् । अपि च, अवस्तुतोऽपि सामान्यस्यैव संवित्तिविषयत्वं स्यादन्वितरूपत्वाविशेषात् । वक्ष्यते चैतत्
"प्रमाणमर्थसम्बन्धात्प्रमेयमसदित्यपि ।
केवलं ध्यान्ध्यमेवैतत्किन्न सन्तं समीक्ष्यते ॥” [न्यायवि०का०२८९] इति । तन्नास्वरूपस्य ग्रहणम् । ततो न बहिरन्तर्वा सामान्यं वस्तुभूतमिवावस्तुभूतमपि सम्भ- ५ वति यल्लिङ्गं भवत् शब्दवाच्यं भवेत् ।
तदनेन लिङ्गसाध्यसम्बन्धस्य तद्वाच्यत्वं प्रत्युक्तम् ; लिङ्गाभावे तत्साध्यसम्बन्धस्यायोगात् । ततो यदुक्तम्-“लिङ्गस्य तत्साध्यसम्बन्धस्य वा प्रतिपादकं वचनं परार्थमनुमानम्" [ ] इति ; तत्प्रतिविहितम् । न लिङ्गेऽपि वचनमव्यभिचारितया प्रत्ययकरं सत्यपि तस्मिन् प्राक्प्रवृत्तप्रतिबन्धविषयमाणपर्यालोचनादेव लिङ्गप्रतिपत्तेः १० वचनमात्रात्तदभावात्। वचनं तु केवलं तत्प्रमाणानुस्मरणमेवोपस्थापयतीति तत्रैव तत्प्रमाणं न बहिरर्थे । तदुक्तम्-"अर्थे हि वचनमप्रमाणं प्रमाणे तु प्रमाणमिति न किञ्चित्तीयते" [ ] इति चेत् ; न; प्रमाणेऽपि तस्य स्वयोग्यतयैव प्रमाणत्वे तृतीयं तत्प्रमाणं भवेत् । शाब्दज्ञानस्य विकल्पत्वेन प्रत्यक्षानन्तर्भावात् लिङ्गनिरपेक्षत्वेन चाननुमानत्वात् । ततः प्रमाणसंख्यानियम एव क्षीयत इति कथमुक्तम्-'न किश्चित्तीयते' इति ? भवतु तर्हि वचन- १५ मनुमानमेव प्रमाणे तस्य तंत्र प्रतिबद्धत्वेन लिङ्गत्वोपपत्तेरिति चेत् ; कस्य तत्प्रमाणं यत् वचनादनुमातव्यम् ? प्रतिपादकस्येति चेत् ; उपपन्नमेतत् ; वचनस्य "तत्रैव भावात् । लिङ्ग हि यत्र स्वयमवस्थितं तद्गतमेव साध्यं गमयति नान्यगतम्, पर्वतधूमात् "महोदधौ पावकानुमानप्रसङ्गात् , किन्तु तेनानुमितेनापि प्रतिपाद्यस्य किं फलमिति · वक्तव्यम् ? सम्बन्धग्रहणमिति चेत् ; न; अन्यप्रमाणेनान्यस्य तद्हणायोगात् प्रतिपुरुषं प्रमाणभेदकल्पनावैयर्थ्यापत्तेः एकीयप्रमाणेनैव २० सर्वस्य तद्विषयपरिच्छेदसम्भवात् । तन्न प्रतिपादकस्य तत्प्रमाणम् ।
प्रतिपाद्यस्येति चेत् ; न ; ववनस्य तत्राभावात् प्रतिपादकवचनाच न "तदनुमानम् ; प्रतिबन्धाभावात् । न हि प्रतिपाद्यप्रमाणोद्भवं प्रतिपादकवचनम् ; सन्तानान्तरासिद्धिप्रसङ्गात्”, सन्तानान्तरभाविनो "व्याहारादेः स्वबोधादेवोत्पत्तिप्रसङ्गात् । तज्जातीयादुत्पन्नं ततोऽप्युत्पन्नमेवेति चेत् ; स्यान्मतम्-प्रतिपाद्यप्रमाणसजातीयं हि प्रतिपादक- २५ प्रमाणम् , तदुद्भव" वचनं प्रतिपाद्यप्रमाणादप्युत्पन्नमेव ततस्तदनुमानम् । न चात्रापक्षधर्मत्वम् , तत्सजातीयपक्षधर्मत्वेनैव तत्पक्षधर्मत्वस्यापि लाभादिति; तदसारम् ; स्वसम्बन्धिनो व्याहारादेर्मुताभिमतशरीरे चैतन्यानुमानप्रसङ्गात् , तस्यापि तत्सजातीयकार्यत्वा
१ लिङ्गशब्दवाच्यत्वम् । २ वचने। ३ अविनाभावग्राहिप्रत्यक्षपृष्ठभाविविकल्पज्ञान । ४ प्रमाणानुस्मरणे । ५ वचनस्य । ६-मः क्षी-आ०, ब०, ५०, स.। ७ व्याप्तिग्राहिप्रमाणे । ८ वचनस्य । ९ प्रमाणे । तत्प्रतिबन्ध-आ०,०, प० । तत्र प्रतिबन्ध-स। १० प्रतिपादक एव । ११ महानसादौ पाकानु-आ०, ब०, ५०, स०। १२ प्रतिपाद्यप्रमाणानुमानम् । १३ प्रतिपाद्यप्रतिपादकयोरेकसन्तानत्वं स्यादिति भावः । १४ वचनादेः। १५-वं हि वच-०, ब०,५०, स०। प्रतिपादकप्रमाणोद्भवम् ।