________________
न्यायविनिश्चयविवरण
विशेषात् । तत्र चैतन्यमेव नास्ति कथं तत्सजातीयत्वमात्मचैतन्यस्येति चेत् ? प्रतिपाद्येऽपि तर्हि प्रमाणमस्तीति कुतः यतस्तत्सजातीयत्वं प्रतिपादकप्रमाणस्य स्यात् ? अत एवानुमानादिति चेत ; न ; उभयत्र साम्यात् । अनुमानात्तत्सिद्धौ” तत्सजातीयत्वं स्वचैतन्यस्य, ततोऽपि वचनस्य तत्सजातीयकार्यत्वम् , अतश्च मृतशरीरे चैतन्यं सिद्ध्यति, इति चक्रंकापादनस्य च ५ प्रतिपाद्यप्रमाणानुमानेऽप्यनिवारणात ततो मृतव्यवस्था श्रीयते इति;अत्रापीदं वक्तव्यम्- 'कथमुक्तम्
न किश्चित्तीयते' इति । तन्न प्रमाणेऽपि वचनस्य प्रामाण्यं बहिरर्थवत् । सत्यमेतत् , न हि ववनात्प्रमाणप्रतिपत्तिः स्वसंवेदनादेव तत्प्रतिपत्तेः, वचनं तु केवलमनुवादकमेवेति चेत् ; किमिदमनुवादकत्वं नाम ? प्रतीतप्रत्यायनमिति चेत् ; न ; वचनात् तत्प्रतीत्यभावात् । न हि यादृशंस्य
स्वसंवेदनात्प्रतिपत्तिः प्रमाणस्य तादृशस्य वचनादस्ति प्रतिपत्तिः ; तस्य॑ स्वलक्षणाकाराविषयत्वात् । १० आकारान्तरविषयत्वे तु न तेने प्रमाणमनूद्यते । न ह्यन्यविषयेणान्यदनूदितं भवति, अतिप्रसङ्गात्।
तद्विषयसामान्याकारस्य प्रमाणस्वलक्षणैकत्वाध्यवसायात् तेन तदनूद्यत एवेति चेत् ; न तदाकारस्य तदेकत्वाध्यवसायस्य च चिन्तितत्वात् । ततो वचनमकिञ्चित्करमेवेति न तेन शास्त्रमन्यद्वा कर्त्तव्यम् । 'परस्य कुर्वतश्च तत् वस्तुतो वस्तुगोचरं तृतीयमेव प्रमाणमङ्गीकर्तव्यम् , अन्यथा "तत्कृतस्य शास्त्रादेरकृतकल्पत्वप्रसङ्गादित्येतद् 'वचोभिः' इत्यनेन निवेदयति ।
वचसां विशेषणमाह-तत्रानुकम्पापरैः'इति । तांत्रायते सांसारिकघोरदुःखगर्तावर्तपरिपातात् परिपालयतीति तत्रा, सा चासावनुकम्पा कृपा च सैव अपरा आदिभूता हेतुत्वेन येषां तैरिति । परशब्दस्योत्तरार्थत्वात् तत्प्रतिपक्षवाचिनश्च अपरशब्दस्य आद्यार्थत्वोपपत्तेः एवं व्याख्यानम् । तदनेन "परपरिरक्षणपरायणया कृपया वचसां प्रवृत्तिं दर्शयन् शास्त्रस्य पारायं
दर्शयति । के पुनस्तच्छब्देन परामृश्यन्ते ? येषामयं न्यायो मलिनीकृत इति ब्रूमः । केषां मलि. २० नीकृत इत्याह-'बालानाम्'इति । हितेतरविवेकविकला बालास्तेषामिति ।
यद्येवं न ते प्रज्ञाबलविकलत्वादेव सुभाषितैरर्थिनो भवन्ति, बलवत्प्रज्ञानां हि महात्मनामेष धर्मो न पुनरप्रतिबलप्रज्ञानां बालानाम् । ते हि सहजात् "आहार्याच्च मात्सर्यबलान्न केवलमनादरमेव सूक्तालापिषु कुर्वन्ति प्रत्युत 'द्वेषमप्यारचयन्ति ततो न परोपकारचिन्तया
शास्त्रकृपायामनुबद्धस्पृहं मनः कर्त्तव्यम् , अपि तु सूक्तगोचरसुचिराभियोगविवर्द्धितव्यसनया २५ चित्तवृत्त्यैवेति । तदुक्तम्
"प्रायः प्राकृतशक्तिरप्रतिबलप्रज्ञो जनः केवलं "नानर्येव सुभाषितैः परिगतो विद्वेष्ट्यपीया॑मलैः ।
१ मृतशरीरे । २ प्रतिपाद्यगतप्रमाणे मृतशरीतगतचैतन्ये च । ३ सामान्यात् आ०,ब०,१०। ४ मृतशरीरे चैतन्यसिद्धौ । ५ अस्मादेवानुमानात् प्रतिपाद्यगतप्रमाणसिद्धौ तत्सजातीयत्वं प्रतिपादकप्रमाणस्य, ततोऽपि बचनस्य तत्सजातीयकार्यत्वमतश्च प्रतिपाद्य प्रमाणसिद्धिरिति चक्रकम् । ६ स्वसंवेदनानुभूतप्रमाणप्रतीत्यभावात् । ७-शस्य संवे-आ०,व०प० । ८ वचनस्य । ६ वचनेन । १० वचनविषय । ११ वचनेन । १२ बौद्धस्य शास्त्रादिकं कुर्वतः १३ वचनम् । १४ तत्कृतशा-मा०, ब०,५०। १५ परिर-आ०, प०, प०।१६ आरोपितात् । १७ प्रद्वेषमेवाचरयन्ति आ०, ब०, प० । १८ नानथैव-आ०, ब०, प० ।