________________
प्रथमः प्रत्यक्षप्रस्ताव तेनायं न परोकार इति नश्चिन्ताऽपि 'चेतश्विरं
सूक्ताभ्यासविवर्द्धितव्यसनमित्यत्रानुबद्धस्पृहम् ॥" [प्र० वा० १।२ ] इति चेत् ; अत्राह-हितकामिनाम् । हितानि न्यायविनिश्चयवचनानि हितस्य परमागमस्य तैः नैर्मल्यनयनात् । परमागमस्य च हितत्वं हितस्य निःश्रेयसस्य तत्कारणस्य च यथावदन्वाख्यानात् । तानि कामयन्ते प्रतिग्रहीतुमिच्छन्तीति हितकामिनस्तेषामिति ।
कुतः पुनः बालानां हितकामित्वम् ? न हि ते हितमिदमिति जानन्ति बाल्यविरोधात् , अजानन्तश्च कथं नाम तत्कामयन्ताम् , परिज्ञातविषयत्वात्कामनाया इति चेत् ? न ; अव्युत्पन्नसन्दिग्धयोः स्वयं तत्परिज्ञानाभावेऽप्याचार्यवचनात्तदुपपत्तेः, आचार्ये तयोराप्तबुद्धिसम्भवात् , असम्भवदाप्तबुद्धिकयोरभव्ययोरप्रतिपादनेऽप्यदोषात् , "क्रिया हि ,व्यं विनयति नाद्रव्यम्" [ ] इति न्यायात् । विपर्यासोपहतस्य तु यद्यपि न तत्र हितबुद्धिस्तथा- १० ऽप्यसौ पूर्वपक्षबुद्ध्या तत्कामयत एव अपरिज्ञातपूर्वपक्षस्य स्वपक्षनिर्णयासम्भवात् “विमृश्य पक्षप्रतिपक्षाभ्यामर्थावधारणं निर्णयः" [ न्यायसू० १।१।४१ ] इति वचनात् । न हि धर्मकीर्तेरपि 'सूक्ताभ्यास' इत्यादि वचनात् सूक्तग्राहित्वं प्रकारान्तरात् सम्भवति । न हि तस्यापि स्वत एव सूक्तपरिज्ञानम्, अन्यथा तद्वदन्येषामपि तत्सम्भवात् 'अप्रतिबलप्रज्ञो जनः' इत्यसङ्गतं स्यात् । अथ येषां तदसम्भवः; तान्प्रति सङ्गतमेवेदमिति चेत् ; न तर्हि सर्वथा १५ शास्त्रस्यापरार्थत्वम् असम्भवतत्परिज्ञानान प्रति अपरार्थत्वेऽपि तद्विपरीतान् प्रति तत्त्वोपपत्तेः । तथा चेदमपर्यालोचितवचनम् 'तेनाऽयं न परोपकारः' इत्यादि । स्वयं च शास्त्रान्तरस्य "कृपया तनीतिरुद्योत्यते" [ ] इति कृपापदोपादानात् पारार्थ्यमभ्यनुजानन्नेव वार्तिकस्य तत्प्रत्याचष्ट इति कथमनुन्मत्तो नाम ? न हि शास्त्रस्यैव कस्यचित्पारार्थ्यम् अपारार्थ्यमपरस्यानुन्मत्तः प्रतिपत्तुमर्हति । ततोऽनुकम्पावतां पारार्थेनैव शास्त्रकरणं न व्यसनितया । २०
नन्वनुकम्प्यतामव्युत्पन्नः सन्दिग्धश्च, विपरीतस्तु कथं प्रतिकूलत्वात् ? न हि स्वमतप्रतिकूलमेव कश्चिदनुकम्पितुमर्हतीति चेत् ; न ; महापुरुषव्यापारस्यैवंविधत्वात्, महान्तो हि प्रतिकूलेऽप्यनुकम्पामेवोपनयन्ति । न च तंत्रासौ निष्फलैव; तत्त्वप्रतिपादनस्य तत्फलस्य भावात्। प्रतिपाद्यमानोऽप्यसौ" मत्सरित्वान्न प्रतिपद्यते प्रत्युत तत्प्रत्याख्यानायैव प्रवर्त्तते ततो विफलैव तत्रानुकम्पेति चेत् ; किमिदं प्रतिपाद्यमानत्वं नाम ? प्रतिपत्तिकारणोपसमर्पणमिति” चेत् ; न २५ तर्हि "तदप्रतिपत्तिः अविकलकारणसमर्पणे ह्यनिच्छतोऽपि तत्प्रतिपत्तिरवश्यम्भाविनी सन्निहितप्रदीपस्यानभिमतरूपदर्शनवत् । प्रतिपद्यमानोऽपि तदङ्गीकारं न समर्पयति मात्सर्यादिति चेत् ; न; उपपत्तिमद्वस्तुप्रतिपत्तौ मात्सर्यपरित्यागस्यापि सम्भवात् । विजिगीषुतया प्रवृत्तस्य तेजस्विनो
"चेतस्ततः"-प्र०वा०।२-ज्ञानवि-आ,ब०प०।३ द्रव्यं भव्यम् । धर्मकीतैरपि । ५ सम्भवपरिज्ञानान् शिष्यान् । ६ प्रमाणवार्तिकस्य । ७ पारार्थ्यम् । ८-तश्च क-आ०, ब०, ५०।९ विपरीते अनुकम्पा । १.विपरीतः। ११-पसर्पणमिति-आ०,०,०।१२ विपरीतस्य अप्रतिपत्तिः ।