________________
५०
न्यायविनिश्वयविवरणे
[ १२
न तंत्परित्यागसम्भव इति चेत्; न; स्वयं तदपरित्यागेऽपि प्राश्निकैः तत्प्रत्युक्तेन परिपलेन वा तत्परित्यागस्य प्रयोजनात् । मत्सरिणोऽप्यनुकम्पनीयत्वे निग्राह्यत्वं न स्यात् 'अनुकम्प्यते निगृह्यते च' इति विरोधादिति चेत्; सत्यमेतत्; वस्तुतो निग्रहाभावात् । न हि तत्वज्ञानस्य निःश्रेयसावाप्तिनिबन्धनस्य पात्रता मुपनीयमान एव निगृह्यते, तदुपनयनस्यानुग्रह५ त्वात्। कथं तर्हि कथितम् "स्वपक्षसिद्धिरेकस्य निग्रहोऽन्यस्य वादिनः " [
]
इति चेत् ? न ; निग्रहशब्देन मिध्याभिनिवेशनिवर्त्तनस्याभिधानात् । स्वपक्ष सिद्धिस्तेनाभिधीयत इति चेत्; न; तत्सिद्धेरपि तन्निवृत्तिरूपत्वात् । न च तन्निवर्त्तनस्य वस्तुतो निग्रहस्थानत्वम्; अनन्तसंसारसरित्पातनिबन्धनतदभिनिवेशनिवर्त्तनस्य सुतरामनुग्रह स्थानत्वात्, निग्रहस्थानशब्देनाभिधानं तु प्राश्निकाभिप्रायवशात् । प्राश्निकाः खलु तस्य तन्निवर्त्तनादङ्गी१० कृतवस्तुनिर्वाहशक्तिवैकल्यमाकलय्य पराजयमुद्धोषयन्ति, स्वयं च वादी तेजस्वितया स्वशक्तिभङ्गेन खिद्यते इति तदभिसन्धिवशात्तन्निवर्त्तनं निग्रहस्थानमुक्तं न वस्तुतः । नन्वेवमपि तस्यास्त्येव परितापः, न चानुकम्पाविषयः परितापयोग्य इति चेत्; भवतु कियानपि परितापो न चैतावता तदनुकम्पा दुष्यति, दुरन्तदुःसहसंसारदुःखकारणस्य तंतस्तयाऽपसारितत्वात् । महतो व्याधेरपसारकारणमातुरस्य तदात्वकटुकमपि "दिव्यमौषधं दोषमुद्वहति ।
भवत्वियं तत्र वार्ता यस्यैवमभिप्रायः 'प्रतिवादिवचनेनोपपत्तिभूषितेनोद्घाटितो” मम निरवद्यनिःश्रेयसप्रासादशिखराधिरोहणद्वार कवाटो विघटितश्चाधोगतिपातालप्रवेशमार्गः चिराय कृतार्थत्वं भवितव्यताबलेनोपस्थापितम्' इति भूयसः परितापस्याप्यभावात्, यस्य तु सभ्यसाक्षिकं स्वबुद्धिप्रत्ययञ्च पराजितस्यापि नैवमभिप्रायः कुतश्चिदान्तरादोषात् केवलं पराजयपीडैव महती, तत्र कथमनुकम्पा न दुष्यतीति चेत् ? उच्यते - यदि तस्य परिपीडाभयात्पराजयो २० न कर्त्तव्यः तर्हि तस्य वचनप्रामाण्यात् बहवोऽप्युन्मार्गमनुपतन्तस्तस्यै महान्तमनन्तदुःखनिबन्धनमशुभास्रवमापादयेयुः, पराजितस्य तु तस्य वचनविश्वासाभावात् न "तेषां तदनुपातस्ततो नायं प्रसङ्ग इति तात्कालिकखेदहेतुत्वेऽपि अशुभास्रवनिरोधरूपमहोपकारकारणत्वात् तत्राप्यनुकम्पा न दुष्यत्येव । यस्य तु प्रतिपाद्यमानस्याप्यप्रतिपत्तिः "अन्तरङ्गवैकल्यात्, नापि स्वमतानुरागप्रयुक्तात् “काकवासितादुपरतिं (तिः) न तत्रानुकम्पनम् - " अविनेये माध्यस्थ्यम्” ६५ [ ] इत्यागमात् । नापि तस्य वस्तुवादेऽधिकारः प्राश्निकैस्तन्निवारणात् । न हि से शक्तिविकलतयाऽध्यवसितमपि वादेऽधिकारयन्ति “समर्थवचनं वादः " [ प्रमाणस० ६।५१] इति तल्लक्षणापरिज्ञानप्रसङ्गात्, काकवासितस्य च तेजस्विना नरपतिना निवारणात् । तदुपपन्नं विपरीतोऽप्यनुकम्प्यत इति ।
१५
१ मात्सर्य परित्याग । २ परिषद्बलेन -आ०, ता० । सभ्येन । ३ मात्सर्यपरित्यागस्य । ४ मिथ्याभिनिवेशनिवृत्ति । ५ मिथ्याभिनिवेशनिवर्त्तनात् । ६ भिद्यते -आ०, ब०, प० । ७ प्राश्निकाभिप्राय । ८ चेत्; न; भ भा० ब प० । ९ ततः वादितः तया अनुकम्पया । १० दिव्यलमौ - आ०, ब०, प० । ११ - नोद्भूषितो आ०, ब०, प० । १२ मानकषायादिरूपात् । १३ उत्पथभाषिणो विपरीतवादिनः । १४ श्रोतॄणाम् । १५ विपरीतवादिन्यपि । १६ बोधशक्त्यभावात् । १७ काकशब्दवन्निरर्थक प्रलापात् । १८ " मैत्री प्रमोदका रुण्य माध्यस्थ्यानि च स्व-गुणाधिक- क्लिश्यमानाविनेयेषु ।” - त० सू० ७/११ |