________________
१२]
प्रथमः प्रत्यक्ष प्रस्तावः
कैः पुनस्तेषां न्यायो मलिनीकृत इत्याह- ' अतिमहापापैः' इति । मलोपलेपस्य पापकार्यत्वाभिनिवेदनेनाहेतुकत्वं प्रत्याचक्षाणः तस्याशक्य प्रक्षालनत्वाभावं निवेदयति, हेतुमतः स्वभावस्यापि तद्धेतुविपक्षोपस्थानेन शक्यनिवर्त्तनत्वात्, तन्निराकृतमेतत्
५१
"घृष्यमाणोऽपि नाङ्गारः शुक्लतामेति जातुचित् । निजस्वभावसम्पर्कः केनचिन्न
निवार्यते ॥”
[ प्र० वार्तिकाल० १।२३४ ] इति ।
पापानामतिमहत्त्वप्रतिपादनं तु मलस्य तन्मात्रनिबन्धनत्वाभावात् अन्यथाऽतिप्रसङ्गः शुद्ध न्यायविदामपिर्तन्मात्रसद्भावाविरोधात् । कुतस्तेषां तानि पापानि ? मलिनीकृतान्न्यायाश्वेत्; "सोऽपि कैः ? तैरेवेति चेत्; न; परस्पराश्रयप्रसङ्गादित्यत्राह - 'पुरोपार्जितैः' इति । अत्रेदमैदम्पर्यम् - न हि य एव न्यायस्तैरधुना मलिनीक्रियते तत एव तानि येनायं दोषः किन्तु १० प्रागेवोपार्जितानि, तदुपार्जने चापरस्तत्पुरोपार्जितो मलिनीकृतो न्यायो हेतुः सोऽपि तदपरपापनिबन्धन इत्यनादिरयं तत्प्रबन्ध इति । अनेन सहजो मलसम्बन्धो दर्शितः ।
1
I
1
तं पुनराहार्थं दर्शयति- 'स्वयं गुणद्वेषिभिः' इति । 'न्यायो मलिनीकृत:' इति वर्त्तते । गुणद्वेषिणश्चैकान्तवादिनः तैः परमागमन्यायगुणस्य उपपन्नजीवादिपदार्थप्रकाशनरूपस्य द्वेषात् । स एव कुत इत्याह- 'कलिबलात्' कलिकालशक्तेः । तस्य साधारणत्वात् सर्वेषामपि १५ तदुद्वेषः स्यादित्यत्राह - प्रायः प्राचुर्येण । तदपि कुत इत्याह- माहात्म्यात्तमसः । अविद्यान्धकार सामर्थ्यात् । न केवलं काल एव गुणद्वेषकारणमपि त्वविद्यासामर्थ्यमपि । न च " तत्सर्वेषामिति भावः । विवृतो वृत्तस्यावयवार्थः ।
समुदायार्थस्तु सम्बन्धाभिधेयप्रयोजनलक्षणः । तत्र न्याय एवाभिधेयम् । तेन च शास्त्रस्य वाच्यवाचकभावः सम्बन्धः । स च सामर्थ्योक्तः । न हि तेन" न्यायमब्रुवाणेन स २० नैर्मल्यं नेतुं शक्यते । प्रयोजनं तु शास्त्रस्य न्यायनैर्मल्यनयनम् तेन सम्बन्धो हेतुहेतुमद्भावः, शास्त्रस्य तद्धेतुत्वात् तस्य च तत्कार्यत्वात् । स च कण्ठोक्त एव 'वचोभिर्नेनीयते' इति वचनात् ।
किं पुनः शास्त्रादौ सम्बन्धाद्यभिधानस्य प्रयोजनमिति चेत् ? "केचिदाहुः - श्रोतृजनप्रवर्त्तनम् । सति हि सम्बन्धाद्यभिधाने तदभिहितप्रयोजनं प्रति आशापरवशीकृतचेतसः श्रोतृ- २५ जनस्य शास्त्रश्रवणतदभ्यासादौ भवति प्रवृत्तिर्नासति । तदुक्तम्
“सर्वस्यैव हि शास्त्रस्य कर्मणो वाऽपि कस्यचित् । यावत्प्रयोजनं नोक्तं तावत्तत्केन गृह्यते ? ||
१- भावान्नि - आ०, ब०, प०, स० । २- त्वान्निरा - ता० । ३ पापलेश । ४ पापांश । ५ न्यायमलिनीकारः । ६ पापान्न्यायमलिनीकारः तस्माच पापोद्भव इति । ७ पापानि । ८ द्वेषः । ९ कलिबलस्य । १० तत्सर्वेषामपि भा-आ०, ब० । ११ शास्त्रेण । १२ न्यायः । १३ मीमांसकाः ।