________________
न्यायविनिश्चयविवरणे
[२२ सिद्धार्थ सिद्धसम्बन्धं श्रोतुं श्रोता प्रवर्त्तते । शास्त्रादौ तेन वक्तव्यः सम्बन्धः सप्रयोजनः ॥"
[ मी० श्लो० १।१।१ श्लो० १२, १७ ] इति ; तदिदमनुपपन्नम् ; प्रेक्षावतो वचनमात्रात् क्वचित्प्रवृत्तेरयोगात् । निरवद्यप्रमाणव्यापारप्रदीपा५ लोकपर्यवलोकिते हि वस्तुनि प्रवर्त्तमानः प्रेक्षावानित्युच्यते । स कथमनाकलितवस्तुतत्त्वाद्वचनमात्रात् प्रवर्तेत प्रेक्षावत्ताविलोपप्रसङ्गात् ? वचनमपि प्रमाणत्वादाकलितवस्तुतत्त्वमेवेति चेत् ; कुतस्तस्यै प्रामाण्यं वस्तुनि प्रतिबन्धाभावात् ? न प्रतिबन्धात्तस्य प्रामाण्यमपि तु योग्यतयैव कृत्तिकोदयवच्छकटोदये , न हि तत्रापि तादात्म्यं तदुत्पत्तिर्वा
प्रतिबन्धः सम्भवति , तदभावस्य यथावसरं निवेदनादिति चेत् ; किमिदं कृत्तिकोदयस्य योग्य१० त्वम् ? अन्यथाऽनुपपन्नत्वमिति चेत् ; न तर्हि तत् वचनस्य स्वार्थापेक्षया सम्भवति,
तस्यापि लिङ्गत्वप्रसङ्गात् । अन्यथानुपपन्नस्याप्यलिङ्गत्वे न लिङ्गं नाम किञ्चित् तल्लक्षणान्तराभावात् । तन्नान्यथानुपपन्नत्वम् । अन्यदेव तदिति चेत् ; न ; कृत्तिकोदये तस्यासम्भवात् निदर्शनस्य साधनवैकल्यापत्तेः । अथ मतम्-कस्यचित्किश्चिद्योग्यत्वम् , अन्यथानुपपन्नत्वं
कृत्तिकोदयस्य अन्यच्च वचनस्य, न चैवं "साधनस्याऽसिद्धत्वं तद्विकलता वा निदर्शनस्य ; १५ योग्यतासामान्यस्य हेतुत्वात् , तस्य चोभयोरपि साध्यदृष्टान्तधर्मिणो वादिति ; तन्न ; अन्यस्यापि स्वाभाविकस्याभावात् , वचनस्य "समयानुपालनप्रयासवैफल्यप्रसङ्गात् । स एव "तस्य
सहकारीति चेत् ; न; "तस्य मिथ्याप्रत्ययहेतोरपि दर्शनात् । आप्तोपनीतस्य न तद्धेतुत्वमिति चेत् ; सत्यमेतत् , आप्तस्य यथार्थवेदितया "दोषविकलतया च मिथ्यावादासम्भवात् । तदेव तु
नाप्तत्वमद्यापि शास्त्रकारस्य निश्चितमित्यस्माकमस्ति खेदः । माकारि खेदः। तदाप्तभावस्य सुप्रसि२. द्धत्वादिति चेत् ; किं तर्हि प्रयोजनवचनेन ? विनापि तेने निश्चिततदाप्तभावस्य तद्वचनमात्रा
देव प्रवृत्तिसम्भवात् । न हि 'इदं त्वया श्रोतव्यम्' इत्याप्तेनाज्ञातः 'तद्वचनं प्रयोजनवदन्यथा वा' इति सन्दिग्धुमर्हति, तथा सन्दिहानस्य तत्राप्तबुद्धेरेवाभावप्रसङ्गात् । न ह्याप्तस्य निष्प्रयोजनवचनसम्भवः तस्य परहितोपनिबद्धशुद्धचित्ततया सर्वव्यापाराणां साफल्यनियमात् । सत्यम्,
अस्त्येवाप्तवचनस्य प्रयोजनम्, तत्तु प्रतिपाद्यस्याभिवाञ्छितमन्यद्वेत्यनुपदर्शने न ज्ञायत इति २५ चेत् ; न; उपदर्शनेऽपि समानत्वात्। न ह्युपदर्शितमित्येव अभिवान्छितं भवति अनभिवाञ्छित
स्याप्युपदर्शनसम्भवात् । "अनभिवाञ्छितेऽपि प्रवृत्तिरनुपदर्शिते प्रयोजने स्यात् आप्तवचनस्यानुल्लङ्घनीयत्वादिति चेत् ; अस्तु, न कश्चिद्दोषः, तत्प्रवृत्तेः पुरुषार्थहेतुत्वात् । तदेव तस्याः कथ
१ तदिदमुप- आ०,ब०प०,स० । २ प्रेक्षावत्त्ववि-आ०, ब०, ५०, स० । ३ वचनस्य | ४ 'उदेष्यति शकटं कृत्तिकोदयात्' इत्यनुमाने । ५ शकटोदयकृत्तिकोदययोः । ६ अन्यथानुपपन्नत्वम् । ७ वचनस्यापि । ८अर्थाsभावे अनुपपन्नस्यादिवचनस्याऽलिङ्गत्वे । ९ योग्यत्वम् । १० अन्यथानुपपन्नत्वव्यतिरिक्तस्य । ११ साधनस्यापि सिआ०,ब०,स०। १२ योग्यतासामान्यस्य । १३ अन्यथानुपपन्नत्वातिरिक्तस्य । १४ सङ्केतग्रहण । १५ सङ्केत एव । १६ कस्य ता० । वचनस्य। १७ सकालीति आ०, ब, १०, स०। १८ वचनस्य । १९ दोषविकल्पतया आ०,ब०प० स०। २० प्रयोजनवचनेन । २१ जनस्य । २२ अभिवा-ता० । २३ प्रवृत्तेः ।