________________
१२ ]
प्रथमः प्रत्यक्ष प्रस्तावः
५३
मिति चेत् ? 'बालकपाठप्रवृत्तिवत्' इति ब्रूमः । यदि चायं निर्बन्धः प्रथममभिहित सम्बन्धा
दिकमेव शास्त्रमादेयमिति ;
एवं तर्ह्यादिवाक्यस्याप्यादेयत्वनिबन्धनम् । सम्बन्धादिवचः पूर्वं वाच्यमन्यत्प्रसज्यते ॥ १९४ ॥ तत्राऽप्यन्यत्ततः पूर्वं ततः पूर्वं ततः परम् । आदिवाक्यप्रबन्धे स्यादेवं सत्यनवस्थितिः ॥ १९५॥ अल्पत्वादादिवाक्यस्य संम्बन्धाद्युक्तितो विना । प्रवृत्तिविषयत्वं चेत्कुतश्चिदवकल्प्यते ॥ १९६ ॥ प्रत्येकं सर्ववाक्यानामल्पत्वं ननु दृश्यते । सम्भवेत्तन्महत्त्वं चेदादिवाक्येऽपि तत्समम् ॥ १९७॥ प्रत्येकं वाक्यवृत्तेश्च शास्त्रवृत्तिर्न चापरा । सा चाल्पविषयत्वान्न सम्बन्धायुक्तिसस्पृहा ॥ १९८ ॥ अलौकिकश्च मार्गोऽयं यत्प्रागुक्तप्रयोजनम् । वाक्यमल्पं महद्वापि व्रजत्यादेयतामिति ॥ १९९ ॥ तन्नायै मानरूपत्वात् “स्वार्थनिर्णयनिर्मितैः ( तेः )। श्रोतृप्रवृत्तिहेतुत्वमादिवाक्यस्य सङ्गतम् ॥ २००॥
१०
१ सम्बन्धकथ्नमन्तरेण । २ वाक्यप्रवृत्तेश्च आ०, ब० । वाक्प्रवृत्तेः प० । ३ वाक्प्रवृत्तिः । ४ शास्त्रस्य । ५ स्वार्थनिर्णयस्वरूपत्वात् । ६ धर्मोत्तरः । ७ तद्विषयस्य सं-आ०, ब०, प०, स० । “अनुक्तेषु तु प्रतिपत्तृभिनिष्प्रयोजनमभिधेयं सम्भाव्येतास्य प्रकरणस्य काकदन्तपरीक्षाया इव, अश्क्यानुष्ठानं वा ज्वरहरतच कचूडारत्नालङ्कारोपदेशवत्, अनभिमतं वा प्रयोजनं मातृविवाहक्रमोपदेशवत्, अतो वा प्रकरणाल्लघुतर उपायः प्रयोजनस्य, अनुपाय एव वा प्रकरणः सम्भाव्येत । एतासु चानर्थसम्भावना स्वेकस्यामप्यनर्थसम्भावनायां न प्रेक्षावन्तः प्रवर्तन्ते । अभिधेयादिष्वर्थ सम्भावनाऽनर्थसम्भावना विरुद्धोत्पद्यते । तया तु प्रेचावन्तः प्रवर्तन्ते । इति प्रेक्षावतां प्रवृत्त्यङ्गमर्थ - सम्भावनां कर्तुं सम्बन्धादीन्यभिधीयन्त इति स्थितम् ।" न्याय बि० टी० पृ० ४ ८ सम्बन्धादिविशेषे । ९ - यस्यैव प्रा-आ०, ब०, प०, स० । १० " संशयेनापि प्रवृत्तिदर्शनात् । यथा कृषीवलादीनाम् । स्यादेतद्यद्यपि कृषीवलादेर्भाविनि फले संशयस्तथापि तत्फलसाधननिश्चयस्तेषां विद्यत एव। तेन निश्चयपूर्विकैव तेषां प्रवृत्तिरिति; तदसम्यक् ; यदर्थं हि यस्य प्रवृत्तिः सा तत्संशयेऽपि तस्य भवतीत्येतावदिह प्रकृतम् । न च कृषीवल:दयः साधनार्थं तेषु प्रवर्तन्ते येन साधनविषयनिश्चयसद्भावान्निश्चयपूर्विका प्रवृत्तिरेवमुपवर्ण्यते । किं तर्हि ? फलार्थ ते प्रवर्तन्ते । तत्र च फले प्रतिबन्धादिसम्भवान्न निश्चयोऽस्तीत्यतः संशयपूर्विकैष तेषां प्रवृत्तिः । " - तश्व सं०प० पृ० ३ ।
१५
* अन्यस्त्वाह - नेदं सुनिश्चित प्रमाणतया सम्बन्धादिविशेष निर्णयनिबन्धनत्वात् प्रवृत्तिकारणम्, अपि तु तद्विषयसंशयकरणात् । असति ह्येतस्मिन् ' ' किमिदं शास्त्रं सम्बन्धादि - रहितमेव बालोन्मत्तादिवाक्यवत्, तत्सहितमपि किमनभिमतप्रयोजनमेव मातृविवाहविधिक्रमव्याख्यानवत्, अभिमतप्रयोजनमपि किमशक्यप्रयोजनमेव ज्वरोपशमनकारणफणिपतिचूडामणि- २० गुणव्यावर्णनवत् ?' इत्यनेकधा संशयविकल्पः प्रादुर्भवन् प्रेक्षावतां प्रवृत्तिमेव शास्त्रे प्रतिरुन्ध्यात्, उपदर्शिते पुनः सम्बन्धादिविशेषे प्रागुपदर्शितानर्थसंशयव्यवच्छेदेन तद्विषयस्यैवार्थसंशयस्य प्रादुर्भावात् भवत्येव तेषां तत्र प्रवृत्तिः । न चार्थसंशयात् प्रवृत्तौ प्रेक्षावत्तापरिक्षतिः;