________________
न्यायविनिश्चयविवरणे
[१२ कृष्यादौ कृषीवलादीनां 'तत्कृतप्रवृत्तिकत्वेऽपि तत्परिक्षतेरभावात् । अथ तेषामङ्करायुपेये संशयेऽपि तदुपाये कृष्यादौ निर्णय एव, ततो निर्णीतोपायतया प्रवृत्तत्वादुपपन्नं प्रेक्षावत्त्वम्, शास्त्रे तु यथोपेये संशयस्तथा तस्य तदुपायभावेऽपि ततः केवलादेव संशयात्प्रवृत्तेः कथन्न तत्परिक्षय
इति चेत् ? न सारमेतत् ; अङ्करायुपेयनिर्णयाभावे कृष्यादितदुपायभावस्यापि दुष्करानर्ण ५ यत्वात्, उपेयसापेक्षं हि कस्यचिदुपायत्वं तत्कथं तदनिश्चये शक्यनिश्चयमिति सन्दिग्धोपायतयैवोभयत्रापि प्रवृत्तिरिति न कृष्यादेः शास्त्राकिमपि वैलक्षण्यमुत्प्रेक्ष्यत इति ; सोऽपि न युक्तकारी विचारविकलत्वात् ; तथा हि-यद्येतदाप्तवचनं कथमस्मात्संशयः ? निर्दोषवचनस्य नियमेन निर्णयनिबन्धनत्वात् , निर्दोषताया एवाप्तित्वात् ।
नन्विदमेवाप्तस्याप्तत्वं यत्स्वप्रतिभासानतिक्रमेण वचनम्, स्वप्रतिभासमतिक्रम्य वदत एब १० वञ्चकत्वेनानाप्तत्वादिति चेत् ; किमिदानी शास्त्रकारस्यापि सम्बन्धादिकं सन्दिग्धमेव ? तथा
चेत: सस्थितं तस्य शास्त्रकारत्वम् । न च स्वप्रतिभासानतिक्रमतो वचनमेवाप्तत्वम: बालोन्मत्तादेरपि तत्प्रसङ्गादिति प्रमाणपरिशुद्धवचनमेवाप्तत्वम् । न च तद्वचनादर्थसंशयः; अर्थनिर्णयस्यैवोपपत्तेः। न च धर्मोत्तरेण शास्त्रकारस्याप्तत्वमनभिप्रेतमेव; "व्याख्यातारो हि
क्रीडाद्यर्थ विपरीताभिधायिनोऽपि सम्भाव्यन्ते न प्रणेतारः" [ ] इति "तद्वचनात् । १५ न चाविपरीताभिधानादन्यदन्यस्याप्तत्वं नाम । शब्दस्यैवैष स्वभावः यदाप्तभाषितोऽपि संशय.
मेवोपजनयतीति चेत् ; न ; अनर्थसंशयस्यापि जननप्रसङ्गात् , तथा च "अर्थसंशयमेव प्रवृत्त्यङ्ग कर्तुमादावभिधेयादिकमाह'[ ] इत्यपेशलं स्यात् । यदि च स्वाभाव्यादस्य संशयहेतुत्वं कुतस्तर्हि तत्संशयस्य व्यवच्छेदः ? "शास्त्रादेवाधिगतादिति चेत् ; न ; तस्याप्यादिवाक्यवत्
शब्दात्मकत्वेन संशयहेतुत्वात् , तत्संशयस्यापि शास्त्रान्तरात् व्यवच्छित्तिकल्पनायाम् अनव२० स्थानात् । प्रमाणात् संशयव्यवच्छेद इति चेत् ; तद्यदि प्रमाणं शास्त्रादन्यत एवाधिगतम् ;
शास्त्रमनर्थकं प्रयोजनान्तराभावात् । शास्त्रादेवेति चेत् ; न ; तत्रापि "ततः संशयस्यैव भावात् , शब्दस्य तत्करणस्वभावत्वात् । तत्संशयस्यापि प्रमाणान्तराद् व्यवच्छेदश्वेत् ; न ; 'तद्यदि' इत्यादेः प्रसङ्गस्य पुनरावृत्तेरनवस्थाप्रसङ्गात् ।
१ अर्थसंशयकृत । २ तदुपायो भावेऽपि आ०, ब०, ५०, स०। ३ प्रेक्षावत्तापरिक्षयः। ४ उपेयानिर्णये । ५ कृष्यादौ शास्त्रे च । ६ "आप्तेनोच्छिन्नदोषेण"-रत्नक०१५।"आगमो ह्याप्तवचनमाप्तं दोषक्षयाद्विदुः । क्षीणदोषोऽनृतं वाक्यं न ब्रूयाद्धत्वसम्भवात्"-साङ्ख्यका० माठर० पृ. १३ । ७ यत्प्रति-आ०, ब०, ५०, स०। ८ एवञ्च तत्वे-आ०, ब०, ५०, स०। ९ "आप्तः खलु साक्षात्कृतधर्मा यथादृष्टस्यार्थस्य चिख्यापयिषया प्रयुक्त उपदेष्टा ।"-न्यायभा० १७। “यो यत्राविसंवादकः स तत्राप्तः परोऽनाप्तः। तत्त्वप्रतिपादनमविसंवादः तदर्थज्ञा. नात् ।"-अष्टश०,अष्टसह पृ. २३ । १० "व्याख्यातृणां हि वचनं क्रीडाद्यर्थमन्यथापि सम्भाव्यते शास्त्रकृतां तु प्रकरणप्रारम्भे न विपरीताभिधेयाद्यभिधाने प्रयोजनमुत्पश्यामो नापि प्रवृत्तिम् ।"-न्यायबि. टी. पृ. ४।
""अर्थसंशयोऽपि हि प्रवृत्त्यङ्गं प्रेश्चावताम् । अनर्थसंशयो निवृत्यङ्गम् । अत एव शास्त्रकारेणैव पूर्व सम्बन्धादीनि युज्यन्ते वक्तुम् ।"-न्यायबि. टी. पृ. ४ | १२ शब्दस्य । १३ शास्त्रादेवाग-आ०, ब०, प०, स.। १४ शास्त्रहेतुकसंशयस्यापि । १५ शब्दात्मकात् शास्त्रात् ।