________________
१२]
प्रथमः प्रत्यक्षप्रस्तावः
ततो दूरं गतेनापि वाक्यमाप्ताभिजल्पितम् । अर्थनिर्णयकृद्वाच्यमादिवाक्यं तथा न किम् ? ॥ २०१ ॥ अङ्गीकारस्तवात्रापि न युक्तः परिदृश्यते । आप्प्रोक्तिपक्षे वैफल्यं वाक्यस्यास्य हि दर्शितम् ॥ २०२॥ येच्च श्रोतुः प्रवृत्त्यङ्गं श्रद्धाद्युत्पादनं बुधैः । व्यावर्णितमसन्दिग्धमादिवाक्यप्रयोजनम् ॥ २०३ ॥ तदप्याप्तोक्तितश्चेत्स्यात् ; वाक्यमेतद् वृथा भवेत् । आप्ताज्ञयैव श्रद्धादेः सम्भवादादिवाक्यवत् ॥ २०४॥ अन्यथा ह्यादिवाक्येऽपि श्रद्धाद्युत्पत्तिकारणम् । वाक्यान्तरं प्रतीक्ष्यं स्यादनवस्थानदुःखदम् ॥२०५॥ अनाप्तवचनत्वेऽस्य बालोन्मत्तादिवाक्यवत् । श्रद्धाकुतूहलोत्पत्तिरतः सम्भाव्यते कथम् ? ॥ २०६॥
१०
१५
यत्पुनरेतत्-व्यापकानुपलब्ध्या प्रत्यवतिष्ठमानस्य तदसिद्धतोद्भावनमादिवाक्यस्य प्रयोजनम् । अत्र हि 'नारब्धैव्यं न श्रोतव्यमिदं शास्त्र सम्बन्धादिरहितत्वात् उन्मत्तवचनवत्' इति कस्यचित् औरम्भश्रवणादिव्यापकसम्बन्धाद्यभावोपदर्शनेन आरम्भादिनिवारणार्थं प्रत्यव - स्थाने तत्सम्बन्धाद्युपदर्शनेन तदनुपलम्भस्यासिद्धत्वमनेनोद्भाव्यते, अन्यथा शास्त्रारम्भादौ प्रेक्षावतामप्रवृत्तिप्रसङ्गादिति ; तदपि न चतुरस्रम् ; वचनमात्रात् सुनिश्चितसम्बन्धाद्युपदर्शनासम्भघेर्न तदसिद्धतो.द्भावनस्य दुर्विधानत्वात् । न हि व्यापकोपलम्भमवितथमनुपस्थापयत् तदनुपलम्भप्रत्याख्यानाय वचनमेतत्समर्थम् । तदुपलम्भस्यैव तदनुपलम्भनिषेधित्वात् । केवलस्य तदुपदर्शनसामर्थ्यवैकल्येऽपि सकलशास्त्रश्रवण सहितस्य तत्सामर्थ्यमस्त्येव, अधिगतशास्त्रस्य सम्ब- २० न्धादौ निर्णयोपपत्तेरिति चेत्; न; व्यापकानुपलम्भे जीवति " तच्छ्रवणस्यैवासम्भवात् अन्यथा तदसिद्धतोद्भावनवैयर्थ्यात् । उपमृद्यते तदनुपलम्भ इति चेत्; कुतस्तदुपमर्दनम् " ? सम्बन्धादि - निर्णयात् । सोऽपि कस्मात् ? " तच्छ्रवणात् । तदपि कुतः ? तदुपमर्दनादिति चेत्; न; चक्रक
, “श्रद्धाकुतूहलोत्पादनार्थं तदित्येके । ” - त० इलो० पृ० ४ । " तद्वाक्यादभिधेयादौ श्रद्धाकुतूहलोत्पादः ततः प्रवृत्तिरिति केचित् स्वयूथ्याः ।" - सिद्धिवि० टी० प० ५। २ आप्ताज्ञया श्रद्धाद्युत्पत्त्यभावे । ३ " तस्मात 'यत् प्रयोजनरहितं वाक्यम्, तदर्यो वा न तत् प्रेक्षावताऽऽरभ्यते कर्तुं प्रतिपादयितुं वा तथथा दशदाडिमादिवाक्यं काकदन्तपरीक्षा च निष्प्रयोजनं चेदं प्रकरणं तदर्थो वा इति व्यापकानुपलब्ध्या प्रत्यवतिष्ठमानस्य तदसिद्धतोद्भावनार्थमादौ प्रयोजनवाक्योपन्यासः ।" - हेतु बि० टी० पृ० २ । न्या० प्र० वृ० पृ० १ । " तत्र निषेध्यस्य यद्व्यापकं तस्यानुपलब्धिः व्यापकानुपलब्धिरुच्यते । तथा हि अत्र आरम्भणीयत्वं निषेध्यम्, तस्य व्यापकं सप्रयोजनत्वम्, तस्यानुपलब्धिः " - न्यायम० वृ० प० पृ० ३९ । ४ -व्यं श्रोतव्यमितिदम् आ०, ब०, प०, स० । ५ शास्त्रारम्भश्रवण । ६ सम्बन्धाद्यनुपलम्भस्य । ७ साधारणवचनात् । ८ - वे तद९ सम्बन्धादि । १० सकलशास्त्रार्थ श्रवण । ११ - पदर्शनम् आ०, ब०, प०, स० । आ०, ब०, प० । ११ शास्त्रश्रवणात् । १३ सति शास्त्रश्रवणे सम्बन्धादिनिर्णयः, सति च तस्मिन् व्यापकानुपलम्भोपमर्दनम्, तस्मिंश्चसति शास्त्रश्रवणमिति ।