________________
५६
न्यायविनिश्वयविवरणे
[ १२
दोषस्य सुव्यक्तत्वात् । आप्तवचनत्वेन प्रमाणत्वाद् अन्यनिरपेक्षमेवेद' सम्बन्धाद्युपदर्शनसमर्थम् ; इत्यप्यसारम् ; उदीरितोत्तरत्वात् - अन्तरेणापि वचनमाप्ताज्ञयैव सम्बन्धादिसिद्धौ व्यापकानुपलम्भस्यासिद्धत्वं (त्व) निर्णयात् आदिवाक्यवत्, अन्यथा तत्रापि तदनुपलम्भनिषेधाय वचनान्तरकल्पनायामनवस्थानात् । तन्नेदमपि विवेकचतुरचेतसां चेतसि प्रीतिकरम् ।
५
प्रतिज्ञावचनमेतत् ; इत्यपि तादृगेव । वचनमात्रात् प्रतिज्ञार्थासिद्धेः सर्वत्र हेतुवैफल्यप्रसङ्गात् । वक्ष्यमाणः* शास्त्रार्थो हेतुरिति चेत्; न; प्रत्यक्ष परोक्षरूपस्य प्रमाणस्यैव शास्त्रार्थत्वात् । तस्य च स्वरूपादिविषयचतुर्विधविप्रतिपत्तिनिराकरणमुखेन यथास्थानमुपवर्ण्यमानैरुपपत्ति विशेषर्निर्णय (ये)शास्त्रार्थपरिज्ञानस्य परिपूर्णत्वात् किमपरमवशिष्यते यदत्र प्रतिज्ञायमानं शास्त्रार्थ - ज्ञानसाध्य ं भवेत् ? तन्नेदमपि तत्प्रयोजनम् पूर्वोपन्यस्तप्रयोजनवत विचारा सहत्वात् ।
१०
अयमेव च शास्त्रकारस्याप्यभिप्रायः, सर्वस्याप्यस्यादिवाक्यप्रयोजनस्य चूर्णौ निराकरणात् । न च तदीयमेव शास्त्र व्याचक्षाणैस्तदनभिमतमेवादिवाक्यप्रयोजनमभिधातुं युक्तम् । तर्हि किम (किम्प) रमिदमादिवाक्यमिति चेत् ? 'सङ्क्षेपेण शास्त्राभिधेयशरीरप्रतिपादनपरम्' इति ब्रूमः । तथा हि-'वचोभिर्नेनीयते' इति सव्यापारं शब्दशरीरमुपदर्शितम् । 'न्यायः' इत्यभिधेयशरीरम् । इतरत्सर्वं यथासम्भवमुभयत्र विशेषणम् । किम्प्रयोजनं सङ्क्षेपेण तदुप१५ दर्शनस्येति चेत् ? विनेयव्युत्पादनमेव, विस्तरेण तदुपदर्शनवत् । नन्विदमपि शास्त्रकारस्यानभिप्रेतमेवं सङ्क्षेपतः शास्त्रशरीरोपदर्शनस्यापि चूर्णौ प्रतिक्षेपात् ; "सत्यम् ; शब्दंगडुमात्रापेक्षया तत्प्रतिक्षेपः, वाङ्मात्रेण निश्चयायोगात् " ] इति तत्रैव वचनात् । न चेदं वाङ्मात्रमादिवाक्यम्; आप्तोप नीतत्वेन वाग्विशेषत्वात् । आप्तत्वमेव शास्त्रकारस्य न निश्चितमिति चेत्; न; कुतश्चित् " चिरसंवासादेस्तन्निश्चयसम्भवात् । अनिश्चिततदाप्तभावस्य नेदं २० तदुपदर्शनक्षममिति चेत्; न; प्रत्यक्षादावपि समानत्वात् । न हि तदप्यनिश्चिततदव्यभिचारादिविशेषस्य स्वविषयोपदर्शनक्षमम् । न च सङ्क्षेपावगमे विस्तरवैयर्थ्यम्; प्रतिपत्तिविशेषस्य तदधीनत्वात् । प्रवृत्त्यङ्गत्वमेवाप्तवचनत्वादस्य कस्मान्न भवतीति चेत् ? न ; वचनमन्तरेणापि प्रवृत्तेराप्ताज्ञयैव सम्भवादित्युक्तत्वात् । संशयादिकारणत्वं तु निवारितमेव । तन्न किचिदत्र परिहास्यमस्तीति पर्याप्तं प्रसङ्गेन ।
२५
कस्यचिदत्र चोद्यम् - " प्रमाणादिष्टसंसिद्धिरन्यथाऽतिप्रसङ्गतः । " [ प्रमाणप० पृ० ६३] इति वचनात् व्यायमलप्रक्षालनस्यापीष्टत्वात् । तदपि " प्रमाणादिति वक्तव्यं न सम्यग्ज्ञानादिति । न च सम्यग्ज्ञानमेव प्रमाणम्; अज्ञानस्यासम्यग्ज्ञानस्य च तस्य भावात् । न च
१ शास्त्रम् । २ आप्ताज्ञया सम्बन्धादिसिद्ध्यभावे । ३ आदिवाक्येऽपि । ४ - णशा-आ०, ब०, प०, स० । ५ " चतुर्विधा चात्र विप्रतिपत्तिः - सङ्ख्यालक्षणगोचरफलविषया ।" न्यायवि० टी० पृ० ९ । ६ अक लङ्कदेवस्य । ७ अकलङ्कीयं शास्त्रं न्यायविनिश्चयाख्यम् । ८ - क्षाणे सदभि -आ०, ब०, प० -क्षणैस्तदभि - स० । ९ युक्तिशून्यनिरर्थकशब्दापेक्षया । १० चूर्णौ । ११ चिरसहवासादेः । १२ आदिवाक्यस्य । १३ - राज्ञायैव आ; ब स० । - राययैव प० । १४ आदिवाक्यस्य विशेषतः चर्चा निम्नग्रन्थेषु द्रष्टव्या - न्यायम० पृ० ६ । सन्मति ०टी० पृ० १७० । तस्वयं पृ०२ । त० श्लो० पृ०४ । स्था० र०पृ०१४ | १५ न्यायमलप्रक्षालनमपि । १६ प्रमाणस्य ।