________________
१३)
५७
प्रथमः प्रत्यक्षप्रस्तावः शब्दलिङ्गादेरज्ञानस्य लोके प्रामाण्यं न प्रसिद्धं युक्तियुक्तं वेति शक्यं वक्तुम् ; उभयस्याप्युपपत्तेः। लोकस्तावत् 'दीपेन मया दृष्टं चक्षुपाऽवगतं धूमेन प्रतिपन्नं शब्दाग्निश्चितम्' इति व्यवहरति । न चौपचारिकं तेषां प्रामाण्यमिति युक्तं वक्तुम् ; यतो यस्य प्रमितिक्रियायां साधकतमता तस्य प्रामाण्यमिति प्रेसिद्धिः, प्रमाणपदाच्चोक्तस्यैवार्थस्यावगमः । तथा शास्त्रान्तरेपि-अव्यभिचारादिविशेषणविशिष्टोपलब्धिजनकस्य बोधस्याबोधस्य वा सामान्येन प्रमाणत्वप्रसिद्धिः। यथा ५ चोक्तम्-"लिखितं साक्षिणो भुक्तिः प्रमाणं त्रिविधं स्मृतम्' [ ] लोकेऽपि तथाभूतस्यैव प्रमाणत्वव्यवहारो यथाऽऽहुः-अस्मिन्निश्चयोऽस्माकमयं पुरुषः प्रमाणम् । युक्तियुक्तं चैतत् , यतः प्रमाणपदं करणत्वाभिधायकं प्रमीयतेऽनेनेति प्रमाणम् । करणविशेषस्य विशिष्ट. कार्यजनकत्वेन प्रमाणत्वात् , कार्यविशेषश्च कार्यान्तरेभ्यः प्रमाणत्वेनाव्यभिचारादिस्वरूपत्वेन वा । तन्न सम्यग्ज्ञानमेव प्रमाणम् अन्यस्यापि भावात् । ततो न 'सम्यग्ज्ञानजलैः' इत्युपपन्नम् ; १० निरवशेषप्रमाणसंग्रहाभावात् । सम्यग्ज्ञानात्मनैव प्रमाणेन न्यायमलप्रक्षालनात् किमितरप्रमाणपरिग्रहेणेति चेत् ? न सदेतत् , एवं प्रेमाणसम्प्लवस्यानभीष्टिप्रसङ्गात् । अभीष्टश्च कथञ्चित्प्रमाणसम्प्लवः स्याद्वादिनामिति । तदेतच्चोथुनिराचिकीर्षया सम्यग्ज्ञानात्मकत्वमेव प्रमाणस्य व्यवस्थापयन्नाह-.
प्रत्यक्षलक्षणं प्राहुः स्पष्टं साकारमञ्जसा।
द्रव्यपर्यायसामान्यविशेषार्थात्मवेदनम् ॥३॥ इति ।
'न्यायः' इत्यनुवर्तमानमर्थवशाद्विभक्तिपरिणामेन द्वितीयान्तमिह सम्बध्यते । ततो. ऽयमर्थः-न्यायं प्राहुः स्वामिसमन्तभद्रादयः । किं प्रशब्देन आहुरिति पर्याप्तत्वादिति चेत् ? न ; 'प्रबन्धेन आचार्योपदेशपारम्पर्येण आगतमाहुः प्राहुः' इति व्याख्यानार्थत्वात् । तदनेनानादिरयं शास्त्रप्रबन्धः, केवलं तत्सझेपादिविधावेव शास्त्रकाराणामाधिपत्यमिति दर्शयति। २० न्यायं किं प्राहुः ? वेदनम् ज्ञानम् । कथं प्राहुः ? स्पष्टम् शब्दतातितत्त्वेन (?) परिस्फुटं यथा भवति "तत्वज्ञानं प्रमाणम्”[आप्तमी० श्लो० १०१]इत्यादिना तथैव प्रवचनात् । अनेनावेदनात्मकत्वं न्यायस्य व्यवच्छिनत्ति, तदव्यवच्छेदे वेदनात्मकत्वविधानानुपपत्तेः। न हि शब्दस्य नित्यत्वमव्यवच्छिन्दन्ननित्यत्वं विधातुमर्हति। कथं वचनमात्रात्तव्यवच्छेद इति चेत् ? न ; सोपपत्तिकत्वादस्य वचनस्य । तथा च प्रयोगः-न्यायो वेदनात्मा, न्यायत्वान्यथानुपपत्तेः । ११ कथं धर्येव हेतुरिति चेत् ? न ; तस्यापि हेतुत्वाविरोधस्य वक्ष्यमाणत्वात् ।
शब्दलिङ्गादीनाम् । २ "अव्यभिचारिणीमसन्दिग्धामर्थोपलब्धि विदधती बोधाबोधस्वभावा सामग्री प्रमा. णम ।"-ग्यायमः पृ०१२।३ यथोक्तम् आ०,ब०,१०,स.। "प्रमाणं लिखितं भुक्तिः साक्षिणश्चेति कीर्तितम ।" -याज्ञ०२।२२। ४-षच आ०, ब०, ५०, स०।५ एकस्मिन् प्रमेये बहूनां प्रमाणानां प्रवृत्तिः प्रमाणसम्प्लवः । ६ "उपयोगविशेषस्याभावे प्रमाणसम्प्लवस्यानभ्युपगमात्। सति हि प्रतिपत्तुरुपयोगविशेषे देशादिविशेषसमवधानादागमात् प्रतिपन्नमपि हिरण्यरेतसं स पुनरनुमानात् प्रतिपित्सते तत्प्रतिबद्धधूमादिसाक्षात्करणात् प्रतिपत्तिविशेषघटनात् । पुनस्तमेव प्रत्यक्षतो बुभुत्सते तत्करणसम्बन्धात्तद्विशेषप्रतिभाससिद्धेः।"-अष्टसह. पृ.४। प्रमेयक.पू. ५९ । .-चं नि-आ.ब०, १०, स०।८ द्वितीयश्लोकात् ।