________________
न्यायविनिश्चयविवरणे
[ १३ असिद्धमन्यथाऽनुपपन्नत्वम् अचेतनास्यापीन्द्रियादेायत्वाविरोधात् , नीयतेऽनेनेति हि नीतिक्रियाकरणं न्याय उच्यते, तच्चाचेतनमपि नानुपपन्नं प्रसिद्धियुक्तिभ्यां तस्य समर्थितत्वादिति चेत् ; अत्र प्रतिविधानम् ; अचेतनस्य सामग्येकदेशस्य, सामग्रीरूपस्य वा प्रमाणत्वं भवेत् प्रकारान्तरासम्भवात्? न तावत्सामग्र्येकदेशस्य ; साधकतमत्वासम्भवात् । प्रमितिक्रियां प्रति करणत्वे हि ५ तस्य प्रामाण्यं भवेत् करणत्वञ्च साधकतमत्वमेव "साधकतमं करणम्" [पा०व्या०१।४।४२]इति वचनात् । सामग्र्येकदेशस्य च नयनप्रदीपादेर्यदि हेतुत्वमेव साधकतमत्वम् ; तदा सर्वतद्धेतूनामपि साधकतमत्वेन प्रामाण्यान्न कश्चित्प्रमाता नापि किश्चित्प्रमेयमित्यतिमहदसमञ्जसं प्राप्त करणस्यैव कर्तृत्वादिविरोधात् । हेतुत्वाविशेषेऽपि सर्वेषां किञ्चिदेव करणं तत्रैव करणत्वस्य विवक्षित
त्वात् 'विवक्षातःकारकाणि भवन्ति”[जैने०महा०१।४।४१] इति न्यायात् ; इत्यप्यसङ्गतम् ; १० प्रमात्रादेरपि विवक्षया करणत्वप्रसङ्गात् विवक्षाया विषयनियमाभावात् । कथं वा पुरुषेच्छानिबन्धनं
कस्यचित्प्रमाणत्वं वस्तुप्रतिपत्तावुपयुज्येत ? 'सांवृतस्यैव प्रमाणप्रमेयतत्फलभावस्य प्रसङ्गात् । कारणस्यैवातिशयः साधकतमत्वमिति चेत् ; न ; तैदपरिज्ञानात् । अन्त्यक्षणेप्राप्तिरतिशय इति चेत् ; न; प्रमाणाभिमतप्रदीपादिवत् कदाचित् प्रमेयस्य घटादेरन्त्यक्षणप्राप्तिभावात् । एतेन सैन्निपत्यका.
रित्वमतिशय इति प्रत्युक्तम्, प्रमेयस्यापि सन्निपत्यकारित्वसम्भवात् । स खलु सन्निपत्यकारीत्यु१५ च्यते यस्मिन्सति नियमेन कार्यस्य भावः, सम्भवति चायं प्रमेयापेक्षयाऽपि प्रकारः, कदाचित्प्रदी
पादिकरणान्तरसाकल्येऽपि प्रमेयसन्निधिविरहविधुरीकृतप्रादुर्भावस्य घटादिसंवेदनस्य'तत्सन्निपाते नियमेनोत्पत्तिदर्शनात। न केवलं विषयस्यैव सन्निपत्यजनकत्वम. प्रमातरपि तत्त्वात । न हि तदसन्निधानेऽपि अनवधानकृते मूर्छादिनिबन्धने वा विषयज्ञाननिष्पत्तिः तदनवधानाद्यपगम एव
नियमेन"तन्निष्पत्तेः। अतः प्रमातुरपि सन्निपत्यजनकत्वात् साधकतमत्वं भवेत् विश्वरूपस्यैवं वच. २० नाच्च । तन्नायमप्यतिशयः साधकतमत्वव्यवस्थाहेतुः अतिव्याप्तिदुष्टत्वात् । निरपेक्षकारित्वमतिशय
इति चेत् ; न ; असिद्धत्वात् , सामग्र्येकदेशानामन्योन्यसहकारित्वेन कार्यकारित्वात् । सामन्यन्तरतदेकदेशनिरपेक्षत्वं तु न प्रदीपादेरेव, प्रमात्रादेरपि भावात् । एवं चेतनस्यापि संशयादिज्ञानस्य सामध्येकदेशस्य प्रामाण्ये साधकतमत्वं निरूपयितव्यम् । तन्न सामग्र्येकदेशस्य प्रदीपादेः प्रमितिक्रियाकरणत्वम् असाधकतमत्वात् प्रमात्रादिवत् ।
अत्राह विश्वरूप:-"सत्यमेतत्, सामग्र्येकदेशस्य न प्रामाण्यं मयापि विचार्य तत्परित्यागात्" [ ] इति; सोऽपि न सम्यग्वादी; बोधमात्रलक्षणप्रमाणवादिनं प्रति प्रदीपादिभिस्तदेकदेशैः अव्याप्तिदोषस्यानुद्भावनप्रसङ्गात् । यदि हि तेषां प्रामाण्यम् , न च
आत्मादीनामपि । २ हैम. बृ० वृ. ७४१२२ । “न चानेककारकजन्यत्वेऽपि कार्यस्य विवक्षातः कारकाणि भवन्तीति न्यायात् साधकतमत्वं विवक्षात इति वक्तव्यम् , पुरुषेच्छानिबन्धनत्वेन वस्तु व्यवस्थितेरयोगात् ।"-सन्मति.टी. पृ० ४७१ । ३ कल्पितस्यैव । ४ अतिशयज्ञानाभावात् । ५ कार्याव्यवहित प्राक्क्षणवृत्तित्वम् । ६ तस्यापि प्रमाणत्वं स्यात् । ७ “सन्निपत्य जनकत्वमतिशयः इति चेन्न..."-न्यायम. पृ०१२। ८-त् खल्वस-आ०,ब०,५०,स० । ९ कार्यस्याभावः आ०, ब०,०,स, । १०-न्ततस्सा-ता०।७ प्रमेयसन्निधाने । १२ सग्निपत्यजनकत्वात् । १३ -न तदस-आ०,०,५०,स० । द्रष्टव्यम्-सन्मति० टी०पृ० ४७२। १४ सन्निधाने सत्यपि । १५ विषयज्ञानोत्परोः । १६ जैनादिकं प्रति । १७ सामग्येकदेशैः । १८ प्रदीपादीनाम् ।