________________
१३ ]
प्रथमः प्रत्यक्ष प्रस्तावः
तत्र तलक्षणं तदा स्याद्व्याप्तिः, अप्रमाणे तु प्रमाणलक्षणभावो न दोषाय अतित्र्याप्त्यभावस्य गुणत्वात् । लोकप्रसिद्ध्या 'तत्प्रमाणत्वमङ्गीकृत्य तैरव्याप्तिरुद्भाव्यते न वस्तुवृत्त्या । अत एवोक्तम्- 'लोकवस्तावद्दीपेन मया दृष्टमित्यादि व्यवहरति' इति पर्यन्तमिति चेत्; वस्तुवृत्त्या तर्हि बोधप्रमाणलक्षणमव्याप्तिदोषरहितमेवेति कथं तत्र तदुद्भावनं निरनुयोज्यानुयोगान्निप्रहस्थानं न भवेत् ? वस्तुतश्च तेषामप्रामाण्ये कथमिदमुक्तम्' - 'युक्तियुक्तं चैतत्' इत्यादि अवस्तु- ५ भूतस्य युक्तियुक्तत्वानुपपत्तेः ।
५९
किञ्च, “तेषां प्रामाण्ये युक्तिः प्रमितिक्रियाकरणत्वमेव । यदुक्तम् - 'प्रमाणपदं करण - स्वाभिधायकं प्रमीयतेऽनेनेति प्रमाणम् ।' इति, तस्य च साधकतमस्वभावस्याभावं स्वयं प्रतिपद्यमान एव कथमिदं वक्तुमर्हति 'युक्तियुक्तं चैतत्' इति ? यथाज्ञानमेव परार्थप्रवृत्तानां वचनक्रमोपपत्तेः, अन्यथाज्ञातस्यान्यथावचने हि वञ्चकत्वान्न परार्थकारी स्यात् । अस्तु तर्हि १० वस्तुत एव 'तेषां प्रामाण्यमिति चेत्; न; तस्य निरस्तत्वात् । वस्तुभूतप्रमाणसामध्येकदेशतया तेषां तदिति चेत्; नन्वेवमुपचार एव स्यात्, प्रमाणैकदेशतया तेषां प्रामाण्यात् । न चैतत्पथ्यं भवताम् 'न चौपचारिकं तेषां प्रामाण्यम्' इत्यस्य विरोधात् । " सामग्रीतद्वतोरव्यतिरेकात् सामग्रीप्रामाण्यवत् तत्प्रामाण्यमपि वास्तवमेव नौपचारिकमिति चेत्;
1
कथमेकक्रियायां स्यादनेकं कारणं पृथक् । "वास्यादिभेदे यद्भेदश्छिदेरप्युपलभ्यते ॥ २०७॥ प्रमितेरपि भेदश्चेत्; न; " सकृत्तदसम्भवात् । ज्ञानानां युगपज्जन्म न यद्वः शासने मतम् ॥ २०८ ॥ क्रमेण तस्य भावश्चेत्; "अक्रमात्तत्क्रमः कथम् ? कारणादक्रमान्नो यत् कार्यं क्रमवदीक्ष्यते ॥ २०९॥
तन्नेदं युक्तम् - "प्रदीपादिवत् प्रमात्रादेरपि वस्तुतस्तत्प्रसङ्गाच्च । तस्यापि तद्वत्तदेकदेशत्वात् तत्र" प्राप्तमपि प्रामाण्यं विशेषविधिना प्रमातृत्वादिना बाध्यत इति चेत्; कः पुनरयं तस्य बाधो नाम ? सामग्रीतादात्म्यनिषेध इति चेत्; न; " तदभावात् । अन्यथा प्रमातृत्वादेरप्यभावप्रसङ्गात् । न हि सामग्री बहिर्गतस्य तत्त्वम्; अतिप्रसङ्गात् । तदन्तर्गतस्यापि " प्रामाण्यमेव निषिध्यत इति चेत्; न; तदन्तर्गमत्र्यतिरेकेण नेत्रादीनामप्यपरस्य प्रामाण्यस्याभावात् । २५ ततो 'यद्यन्तर्गमो न प्रामाण्यनिषेधः, स चेत्; नान्तर्गमः' इति महानयं व्याघातः परस्य । hero वा तेन तस्य बाधनम् ? मौणेनेति चेत्; न; " तदवस्थायां प्रामाण्यस्याप्रसक्तेः
१ अलक्ष्ये लक्षणाभावस्य । २ प्रदीपादि प्रामाण्यम् । ३ " अनिग्रहस्थाने निग्रहस्थानाभियोगो निरनुयोज्यानुयोगः । " - न्यायसू० ५।२।२२ । ४ पृ० ५७ प० ७ । ५ प्रदीपादीनां सामग्र्यैकदेशानाम् । ६ पृ०५७ प० ८ । ७ सामग्र्येकदेशस्य । ८ सामग्र्येकदेशानां प्रदीपादीनाम् । ९ प्रामाण्यम् । १० सामग्रीतदेकदेशयोः । ११ करणभेदे क्रियाभेद एवोपलभ्यते न त्वभेदः ।:१२ युगपत् । १३ ज्ञानजन्मनः । १४ क्रमरहितात् सामग्रीरूपकरणात् । १५ प्रदीपादेरिव प्रभा०, ब०, प०, स० । १६ तद्वदेक - आ०, ब०, प०, स० । १७ प्रमात्रादौ । १८ बोधो नाम आ०, ब०; प०, स० । १९ सामग्रीतादात्म्यनिषेधाभावात् । २० प्रमात्रादित्वम् । २१ प्रमात्रादेः । २२ प्रामाण्यनिषेधः । २३ प्रमातृत्वादिना । २४ प्रामाण्यस्य । २५ गौणदशायाम् ।
१५
२०