________________
६०
न्यायविनिश्चयविवरणे
[ ११३
किमायत्तं ' तन्निमित्ताभावात् । न चाप्रक्तस्य बाधनम्; 'तस्य प्राप्तिपूर्वकत्वात् । मुख्येनेति चेत्; तस्य मुख्यत्वम् ? कारकसाकल्यायत्तमिति चेत्; ननु प्रामाण्यमपि तस्य तदायत्तमेव, तत्कथमेकात्तयोः एकस्यान्यद्बाधकं स्यात् ? समावेशस्तु स्यात्, बाध्यबाधकयो रे काय त्तत्वासम्भवात् । नेत्रादीनामपि प्रमातृत्वप्रसङ्गः, कारकसाकल्यस्य तत्प्रयोजकस्य तत्रापि भावादिति चेत्; सत्यम्; ५ " अयमस्यैव नैयायिकम्मन्यस्य दोषः स एवं वदति । न तदायत्तं प्रमातृत्वादिकं तस्यान्याधीनत्वादिति चेत्; कथं तदमुक्त' भवतैव-प्रमातृप्रमेययोः सच्चेऽपि कथञ्चित्कारकवैकल्ये गौणता निमित्तान्तरात्तु तत्साकल्ये अभिमतप्रमाख्यकार्यनिष्पादनादगौणः प्रमातृप्रमेय[ ] इति ।
भावः”
किं वा तदन्यत्, यदायत्तं प्रमातृत्वादिकं स्यात् ? ज्ञानसमवायिकारणत्वं ज्ञानविषय१० त्वञ्चेति चेत्; न; तस्यैव प्रमात्रादित्वात् । नहि तदेव तदायत्तम्, तद्भावस्य भेदगोचरत्वात् । तन्न तद्भावस्यान्यायत्तत्वमिति न मुख्येनापि तेन "तस्य बाधनम् । ततो न सामप्येकदेशत्वेन नयनादीनां प्रामाण्यम्, आत्मादावपि प्रसङ्गात् । नाप्युपचारेण; अनभ्युपगमात्, अप्रमाणत्वे कथं "तैर्बोधमात्रप्रमाणलक्षस्य अव्यापकत्वोद्भावनमिति परस्यैषा समन्ततः पाशारज्जुः, तदलमेकदेशविचारेण ।
कारकसाकल्यमेव तर्हि प्रमाणमस्तु साधकतमत्वादिति चेत्; ननु साधकाद्यपेक्षया साधकतमं भवति, अतिशायनस्यैवंरूपत्वात् तदर्थत्वाच तमप्रत्ययस्य, तत्किमिदानीं साधकादिकं यत् अपेक्ष्यं स्यात् ? तदेकदेश एव दीपादिरिति चेत्; तस्य तत्त्वं गौणम्, मुख्यं वा स्यात् .? न तावद्रौणम् ; सकलावस्थायां तदभावात्, अनभ्युपगमात् । विकलदशायामेव " तदस्त्विति चेत् ; तद्यदि क्रियान्तरविषयम् ; न तदपेक्षया तत्साकल्यस्य साधकतमत्वम्, एक२० क्रियाविषयमेव कञ्चिदप्रकृष्टं हेतुमपेक्ष्य तदपरस्य प्रकृष्टस्य साधकतमत्वव्यवहारात् । एकक्रियाविषयमेवेति चेत्; न तर्हि साधक साधकतमयोरन्योन्यसहकारित्वं भिन्नकालत्वात् । " सहशब्दस्य यौगपद्यार्थत्वात् भिन्नकालयोश्च तदसम्भवात् तत्सहकारित्वानिष्टौ चान्यदा कर्त्रादिकम् अन्यदा च करणमिति दृष्टविपरीतमापद्येत । तन्न गौणं तदिति युक्तम् ।
१६
१५
२०
मुख्यमेवेति “चेत् ; नन्वव्यवहित क्रियाकारित्वमेव मुख्यत्वम्, 'तंच्च तस्य कारकसाक२५ ल्यायत्तमेव " मुख्यगौणभावस्य कारकसाकल्यभावाभावायत्तत्वात् " [ ] इति भवत एव वचनात्। तदायत्तत्वश्च तस्मादुत्पन्नत्वात्, तद्र ूपत्वाद्वा स्यात् ? उत्पन्नत्वमपि साधकतम - स्वभावात्, तद्विपरीताद्वा? न तावत्तत्स्वभावात्; अपेक्ष्यस्य पूर्वमभावेन तदसम्भवात् । अपेक्ष्यfaseत्तौ तत्सम्भव इति चेत्; न; 'तत्सम्भवात्तन्निष्पत्तिः, ततश्च तत्सम्भव:' इति सुव्यक्तत्वात्
१ प्रामाण्यनिमित्तस्य मुख्यत्वस्याभावात् । २ बाधनस्य । ३ प्रमातृत्वादेः । ४ प्रमातृत्वादिप्रयोजकस्य । ५. अस्यैव आ०, ब०, प०, स० । ६ षः एवं ता० । ७ भवत्येव आ०, ब०, प०, स० । ८ तदायत्रात्वस्य । ९ प्रमात्रादित्वेन । १० प्रामाण्यस्य । ११ नयनादिभिः । १२ अतिशयार्थत्वाच्च । १३ साधकादित्वम् । १४ गौणत्वाभावात् । १५ गौणं साधकादित्वम् । १६ सहकारित्वघटक सहशब्दस्य । १७ तयोर्युगपत्कार्य कर्तृत्वाभावे । १८ चैन म्यव - आ०, ब०, प०, स०] १९ मुख्यं साधकादित्वं दीपादेः । २० कारकसाकल्याय सत्वञ्च । २१ कारकसाकल्यात् ।