________________
१३]
प्रथमः प्रत्यक्ष प्रस्तावः
परस्पराश्रयस्य । तद्विपरीतात्तदुत्पत्तौ न तत्साकल्यस्य प्रामाण्यम् असाधकतमत्वात् । पश्चात्तत्स्वभावभावे' तस्यैव प्रामाण्यं स्यात् अव्यवहितक्रियत्वात् न तत्साकल्यस्य विपर्ययात् । पश्चाद्भाव्यप्यसौ साकल्यात्मकमेवेति चेत्; न; साकल्यद्वयस्याप्रतिपत्तेः । तन्न तत्कार्यत्वात्तदायत्तत्वम् । तद्रूपत्वाचेत्; न; तस्य साधकतमरूपत्वे ताद्रूप्यात्तदेकदेशानामपि साधकतमत्वमेव न साधकत्वादिकम्, तदभावे न च साधकतमत्वम् अपेक्ष्यभावादिति न कारकसाकल्यस्यापि साधकत - ५ मत्वम् । कादाचित्कतत्साकल्यताद्रूप्ये' तदेकदेशानामपि कादाचित्कत्वोपपत्तेरात्मादेरनित्यत्वप्रसङ्ग इति किन्नोद्भाव्यते ? इति चेत्; वत्स, "भवत्प्रतिबोधनार्थं तदुद्भावनम्, स्वयमेव चेद्भवान् प्रतिबुद्ध्यते किमस्माकं तदुद्भावनप्रयासेन ? "अताद्रूप्यस्यापि भावान्नैकान्तेन तदनित्यत्वम् । तदुक्तम्- “साकल्यं हि "तेषामेव धर्ममात्रं नैकान्तेन वस्त्वन्तरम्" [ ] इति चेत्; न; एवमपि तन्नित्यानित्यात्मकत्वोपपत्तेः स्याद्वादानुगमनप्रसङ्गात् । ततो न तत्साकल्यमपि १० १४ तदचेतनप्रामाण्याभावात् ।
प्रमाणम;
६१
नासिद्धमन्यथाऽनुपपन्नत्वम् ; चेतनत्व एव " न्यायत्वस्योपपत्तेः नीतिक्रियासाधकतमत्वस्य "तत्रैव भावात् । परनिरपेक्षं हि "कारणत्वं साधकतमत्वम्, सन्निपत्य जनकत्वस्यापि तद्रूपत्वात्, तच्चार्थनिर्णये ज्ञानस्यैव तस्यै " ततोऽनर्थान्तरत्वात् न नेत्रदिर्विपर्ययात्, तस्यापि तत्र" साधकतमत्वे तदनर्थान्तरत्वस्यावश्यम्भावात् कथमचेतनत्वं चेतनादर्ने र्थान्तरस्य तत्त्वायोगात् ? अनर्था - १५ न्तरत्वे कथं क्रियाकारणभावः ? भेद एव छिदि-कुठारयोः तद्भावप्रतिपत्तेरिति चेत्; का तत्र छिदिः ? काष्ठस्य द्वैधीभाव इति चेत्; न; तत्र काष्ठगतस्य “तत्परिणाम सामर्थ्यस्यैव साधकतमत्वात्, असति तस्मिन् सत्यपि कुठारव्यापारे वज्रादौ तदभावात् । सामर्थ्यादेव " छिदौ किं कुठारेणेति चेत् ? न ; तत्क्रियायां " तत्सामर्थ्याभिमुख्ये "तस्य व्यापारात् । यावत्तत्र तस्य " व्यापारस्तावत्तत्क्रियायामेव कस्मान्न भवतीति चेत् ? न; वज्रादावपि प्रसङ्गात् तदाभि- २० मुख्ये यदि तद्व्यापारः तत्क्रियायामपि स्यात् भवत्वेवम्, तथापि न तत्र तस्य साधकतमत्वं भव सापेक्षस्य त्वोपपत्तेः सामर्थ्यस्य तु
•
38
तस्य ततोऽनर्थान्तरत्वादिति चेत्; तत्सामर्थ्य सव्यपेक्षत्वात् साधकत्वमेव तु तदभिमुखस्य न किञ्चिदपेक्ष्यम्, अतः
१ असाधकतमात् साधकादिगत मुख्यत्वोत्पत्तौ । २ साधकतमखभावत्वे । ३ साधकतमस्वभावः । ४ साकल्यस्वरूपत्वात् । ५ कारकसाकल्यरूपस्य । ६ प्रदीपादीनाम् । ७ साधकादित्वाभावे । ८ तमप्रत्ययत्य कञ्चिदपेक्ष्य भावात् । ९ कारकसाकल्यगतसाधकत मत्वस्य अनित्यत्वे । १० भवेत्प्रति-आ०, ब०, प०, स० । ११ आत्मादौ प्रमातृत्वादेः असाधकतमरूपस्यापि भावात् । १२ कारकोणाम्। १३ आत्मादीनां कादाचित्कसाधकतम स्वरूपापेक्षया अनित्यत्वम्, अताद्रूप्याच्च नित्यत्वमिति । १४ कार कसा कल्यान्तर्गताचेतनानाम् । १५ न्यायस्योप - आ०, ब०, प०, स० । प्रमाणत्वस्य । १६ चेतन एव । १७ कारकत्वम् आ०, ब०, प०, स० । १८ ज्ञानस्य । १९ अर्थनिर्णयात् । २० नेत्रादैरपि । २१ अर्थनिर्णये । २२ - दर्थान्त - आ०, ब०, प०, स० । २३ अचेतनत्वायोगात् । २४ क्रिया करणभाव । २५ द्वैधीभावपरिणमनशतेरेव । २६ सामर्थ्यं । २७ छेदः किं आ०, ब०, प०, स० । २८ काष्ठगतद्वैधीभावपरिणमनशक्तिप्राकट्ये । २९ कुठारस्य । ३० सामर्थ्याभिमुख्ये । ३१ कुठारस्य । ३२ छिदिक्रियायामेव । ३३ आभिमुख्यस्य । ३४ क्रियातः । ३५ छिदौ । ३६ कुठारस्य । ३७ छेद्यगतशक्ति । ३८ साधकत्वोपपत्तेः । ३९ तदभिमुख्यस्य आ०, ब, प० । क्रियाभिमुखस्य । ४० कुतः आ०, ब०, प० ।