________________
न्यायविनिश्चयविवरणे
[ १३
साधकतमत्वम् । एवमन्यदपि व्यतिरिक्तं कारणं सर्वत्र वस्तुपरिणतौ साधकमेव ' तद्योग्यत्वसव्यपेक्षत्वात्, तद्योग्यत्वमेव 'तदभिमुखं तत्र साधकमेव निरपेक्षत्वात् प्रतिपत्तव्यम् । नन्वेवं तदाभिमुख्यपर्यायोऽपि सामर्थ्यस्य प्राच्यादेव तच्छक्तिपर्यायात्, तस्यापि तदाभिमुख्यपर्यायः प्राच्यादेव तच्छक्तिपर्यायादिति किं व्यतिरिक्तेन खड्गादिनेति चेत् ? न ; सर्वथा तदाभिमुख्यस्य ५ निरपेक्षत्वे तदन्वयव्यतिरेकानुविधानस्याभावप्रसङ्गात् । अस्ति चैतत् अतस्तस्याप "कारणत्वं वक्तव्यम् । अत एवोक्तम्
"
६२
"विशेषं कुरुते हेतुर्विस्रसा परिणामिनाम् । मुद्गरादिर्घटादीनामन्वयव्यतिरेकवान् ॥” [ ] इति ।
तस्मात् सर्वत्र वस्तुपरिणतौ भिन्नस्य तच्छक्त्याभिमुख्यमात्रे व्यापारः । भवतु तदभिमुखस्य १० तत्सामर्थ्यस्यैव साधकतमत्वम्, तत्क्रियानर्थान्तरत्वं तु कथं तस्येति " चेत् ? न; 'छिन्नं काष्ठम् ' इति तत्क्रिया सामानाधिकरण्येन 'तत्प्रतिपत्तेः । 'तैतः काष्ठस्यैव 'तेंदनर्थान्तरत्वं न तत्सामर्थ्यस्येति चेत्; न; तस्यापि” तद्व्यतिरेकात्, व्यतिरेके सामर्थ्य तद्वद्भावानुपपत्तेर्यथास्थानं विचारणात् । तन्न द्विधाभावः छिदिक्रिया । कुठारव्यापार एवोत्पात निपातादिश्छिदिरिति चेत्; सत्यम् ; कुठारस्य साधकतमत्वं तस्य तत्क्रियापरिणामसामर्थ्यरूपत्वात्, न तु तस्य 'तँत्क्रियातोऽर्थान्तरत्वम् १५ ' निपतत्युत्पतति वा कुठारः' इति " तत्सामानाधिकरण्येन तत्प्रतिपत्तेः । समवायादेवं प्रतिपत्तिनर्थान्तरत्वादिति चेत्; न; समवायनिमित्तत्वे "तस्यैव तत्रे प्रतिभासप्रसङ्गात् । न चैवमभेदस्यैव प्रतिभासनात् । न ' तस्यापि प्रतिभासनं सामानाधिकरण्यस्यैवावभासनादिति चेत्; न; अभेदस्यैव तत्त्वात् । समवायस्यैव तत्त्वं कस्मान्नेति चेत् ? न; 'सामान्यमेव विशेषः सामान्यविशेषः' ” इत्यादावभेदस्यैव तत्त्वेन परस्यापि सुप्रसिद्धत्वात्, समवायस्य च निषेत्स्यमानत्वात् । कुतः पुनः परिणामसामर्थ्यं भावस्येति चेत् ? तदास्तां तावत् तदुपपत्तिसाम्राज्यस्यैव सविस्तरमुत्तरत्र निरूपणात् । तन्न किञ्चित्क्रियाव्यतिरिक्तं "करणम् । ततो नयनादेरपि नीतिक्रियाकरणत्वं तद्व्यतिरेके स्यादिति तदचेतनत्वं विरुध्येत । तस्य च चेतनत्वे निष्प्रयोजनमेव तदपरज्ञानकल्पनम्, अनेनैवाभिप्रायेण भाष्यकारैरप्यादिष्टम् - " न ह्यचेतनेन किञ्चित् " मीयते ज्ञानकल्पनावैफल्यप्रसङ्गात् " [ ] इति । तदनेन संशयादिज्ञानस्यापि प्रामाण्यं निरस्तम्; तस्यापि नीतिकरणत्वे तदनर्थान्तरत्व नियमान्न संशयादित्वं स्यात् । न हि
२०
२५
१ वस्तुगतसामर्थ्य । २ क्रियाभिमुखम् । ३ तन्निर-आ०, ब०, प०, स० । ४ तत्पूर्ववर्तिनः । ५ पूर्वसामर्थ्यस्यापि । ६ खङ्गादिनिरपेक्षत्वे । ७ खड्गादेरपि । ८ छिदिक्रियायाम् । ९ कारकत्वं आ०, ब०, प०, स० । १० सामर्थ्यस्य । ११ चेत् द्वि-आ०, ब०, प०, स० । १२ अनर्थान्तरत्वप्रतीते । १३ छिन्नं काष्ठमिति प्रतीतितः । १४ तदर्था-आ०, ब०, प०, स० । १५ सामर्थ्यस्यापि । १६ कुठारगत व्यापारे । १७ तक्रियार्था - आ०, ब०, प० । कुठारगतक्रियातः । १८ क्रियासासामानाधिकरण्येन । १९ समवायस्यैव । २० प्रतीतौ । २१ अभेदस्यापि । २२ सामानाधिकरण्यात् । २३ इत्याद्यभे-आ०, ब०, प०, स० । २४ " तथा सामान्यमेव द्रव्यव्यावृत्तिहेतुत्वाद्विशेषो द्रव्यत्वादिः । " - प्रश० व्यो० पृ० १२७ । २५ कारणम् आ०, ब०, प०, स० । २६ नयनादेः । २७ - तू क्रियते आ०, ब०, प०, स० ।