________________
२॥३]
प्रथमः प्रत्यक्षप्रस्ताव:
नीतितादात्म्ये 'तस्य तत्त्वम् ; नीतेर्निर्णयरूपत्वात् । न हि निर्णय एव संशयादिः; विरोधात् । निर्णयात्मिका च नीतिनिरूपयिष्यते । ततो न नयनादेः संशयादेर्वा नीतिसाधकतमत्वं तदनर्थान्तरस्य वेदनस्यैव तत्त्वात् तस्य तंत्र परनिरपेक्षत्वात् । न हि स्वयं तक्रियासामर्थ्य (समर्थ) स्यान्यापेक्षणम्। असिद्धं परनिरपेक्षत्वम् ; इन्द्रियमनसोरपेक्षणात् “इन्द्रियमनसी विज्ञानकारणम्" [ ] इति वचनादिति चेत् ; न ; ज्ञानस्योत्पत्तावेव दिपेक्षणात् , उत्पन्नस्य तु तस्य ५ स्वत एव विषयनिर्णीतिर्नान्यतः । न चैवं नयनादेः संशयादेर्वा स्वतस्तन्निीतिः ; अचेतनत्वसंशयादित्वविरोधात् । निर्विकल्पकदर्शनमपि न स्वतस्तन्निर्णयसमर्थम् ; तत्पृष्ठभाविविकल्पकल्पनावैफल्यप्रसङ्गादिति न तस्यापि मुख्यं प्रामाण्यम् । निर्णयज्ञानहेतुत्वेन तु नेत्रादीनां प्रामाण्यमौपचारिकमेव न मुख्यम् । उक्तञ्च
"सिद्धं यन्न परापेक्षं सिद्धौ स्वपररूपयोः ।
तत्प्रमाणं ततो नान्यदविकल्पमचेतनम् ॥” [ सिद्धिवि० प्र०परि०] इति । अंत्र अविकल्पग्रहणेन तत्त्वनिर्णयस्वभावविकलत्वात् दर्शनस्य संशयादेश्च परिग्रहो नयनादेः अचेतनग्रहणेन ।
वेदनं तत्फलाभिन्नं कथं तत्करणं यदि ? कुठारस्तत्फलाभिन्नः कथं तत्करणं भवेत् ? ॥२१०॥ प्रश्नस्तत्रापि "तुल्यश्चेत्क नै तस्य" प्रवर्त्तनम् ? । व्यतिरिक्तं फलाद्यञ्चे (ञ्चे ) नाभिन्नस्यैव दर्शनात् ॥२११॥ विचाराद्व्यतिरिक्तं चेदभिन्नस्यापि दर्शने । दर्शनाकिमसौ” ज्यायान् किंरूपो वा स कथ्यताम् ? ॥२१२॥ साध्यरूपं फलं तस्मादभिन्नं साधनं कथम् ? । साध्यमेव हि तद्युक्तमभेदः कथमन्यथा ? ॥२१३।। सिद्धं च साधनं तस्मादभिन्नं" साध्यते कथम् ? । "स्यात्सिद्धस्यापि साध्यत्वे साध्यत्वापरिनिष्ठितिः ॥२१४॥ साध्यसाधनभावश्च वेदनार्थावसाययोः । अभेदश्चेति वागेषा पूर्वापरविरोधिनी ॥२१५॥ भेदोपाधिर्हि तद्भावो नाभेदं क्षमते भवन् । अभेदश्च न “भेदम् , तद्व्यमेकत्र दुर्घटम् ॥२१६॥
१ संशयादेः। २ तदर्थान्त-आ., ब०, ५०, स०। नीतिक्रियातोऽभिन्नस्य । ३ साधकतमत्वात् । ४ नीतिक्रियायाम् । ५ “ततः सुभाषितम्-इन्द्रियमनसी कारणं विज्ञानस्य अर्थो विषय इति"-लघी. स्व. का०५४। ६ इन्द्रियमनसोरपेक्षणात् । ७ ज्ञानस्य । ८ श्लोके । ९ कुठारगतोत्पतननिपतनव्यापाररूपा छिदिक्रिया। १० तुल्यश्चेत् आ०, ब०, ५०, स०।११ नु आ०, ब०, प० । १२ प्रश्नस्य । १३ विचारः । १४ साधनम् । १५ सिद्धात्साधनादभिन्नस्य फलस्यापि सिद्धत्वात् कथं साध्यत्वमिति भावः। १६ कथञ्चित् । १७ साध्यसाधनभावः । १८ भेदश्च द्वय-आ०, ५०, ५०, स। क्षमते इति पूर्वेणान्वयः। १९ भेदाभेदी।