________________
६४
न्यायविनिश्चयविवरणे
इति चेत्सत्यमेकान्ताभेदे दूषणमीदृशम् ।
नैवं स्याद्वादिनामिष्टिः ' स्यादभेदस्य वाञ्छनात् ॥२१७॥
[ ११३
तथा हि-नेदमर्थ निर्णय रूपमेव वेदनम् ; स्वनिर्णयरूपत्वाभावप्रसङ्गात् । न च नास्त्येव तस्य तद्रूप्यम्; युक्तितस्तस्य व्यवस्थापनात् । नापि स्वनिर्णयरूपमेव अर्थनिर्णयरूपत्वाभावप्रसङ्गात् । ५ न च नास्त्येव तस्य ताद्रूव्यम्; युक्तितस्तस्यापि व्यवस्थापनात् । न च तदुभयव्यतिरिक्तमेव, तस्यासंवेदनात् निर्णयवेदनयोः संसर्गवशादेविवेकावभासनं न वस्तुत "एवाविवेकभावादिति चेत्; न; विवेकनियमस्य निषेत्स्यमानत्वात् । ततो निर्णयवेदनयोः कथञ्चित् व्यतिरेकस्यापि भावान्नायुक्तः क्रियाकारकभावः । एतदर्थं च कारिकायाम् अर्थात्मग्रहणम् । विषयभेदेन निर्णयभेदेऽपि तत्साधनज्ञानस्याभिद्यमानस्य अन्वयव्यतिरेकाभ्यां कथञ्चित् व्यतिरेकस्य तेनो१० पदर्शनात् । सत्यपि व्यतिरेके निर्णय समसमयस्य वेदनस्य कथं तत्करणत्वमिति चेत् ? न; अत्र नैयायिकस्याविप्रतिपत्तेः, कार्य समकालस्य नित्यस्य अन्यथा हेतुत्वाभावप्रसङ्गात् । निर्णयसहजन्मनस्तस्य कथं " तत्कारित्वमिति चेत् ? न; एकान्तेन तत्सहजन्माभावात् क्षणभङ्गस्य निषेत्स्यमानत्वात् । इन्द्रियादिना तर्हि "किमुत्पाद्यते ? न निर्णयः, तस्य वेदनकार्यत्वात् । नापि वेदनम् ; तस्याक्षणिकत्वेन " तद्व्यापारात् प्रागपि भावादिति चेत्; न; निर्णय समर्थस्य तस्य १५ तदुत्पाद्यत्वात् । पूर्वं तर्हि तदनिर्णय समर्थमिति चेत्; न; तदापि विषयान्तरनिर्णयसमर्थत्वात् ।
१२
"तस्य चान्यत इन्द्रियादेर्भावात्। स्वार्थ निर्णयविकलस्य तु न तस्य प्रामाण्यं सुषुप्तज्ञानवत् । निरूपयिष्यते चैतत् । सामर्थ्यस्य साधकतमत्वे स्वसंवेदन व्याघातः "तस्याप्रत्यक्षत्वात् क्रियानुमेयत्वेनोपगमात् ""शक्तिः क्रियानुमेया" [ ] इति वचनात्, स्वसंविदितञ्च प्रमाणमिति सिद्धान्त इति चेत्; अस्तु शक्तिरूपेण तदूव्याघातो न कश्चिद्दोपः, “ शक्तेर्लब्धिसंज्ञित२० भावेन्द्रियस्वभावाया अप्रत्यक्षत्वोपगमात् । तत एव सुमतिदेवैरुक्तम् - "शक्ति: परोक्षेति चेन्न काचित्क्षतिः [ ] इति । स्वसंविदितत्वं तूक्तं" स्वरूपापरोक्षनिर्णये क्रियातादात्म्यात् । तत्क्रियाया अपि परोक्षशक्तितादात्म्यात् परोक्षत्वप्रसङ्ग इति चेत्; "अभिमतमेवैत परोक्षेतरस्वभावतया सर्वस्यापि वस्तुनोऽभ्यनुज्ञानात् । वक्ष्यति च -
" प्रत्यक्षं बहिरन्तश्च परोक्षं स्वप्रदेशतः " [ न्यायवि० श्लो० १२८ ] इति । ततो वेदनस्यैवार्थात्मविषयस्य प्रामाण्यादुपपन्नमेतत्- 'न्यायो वेदनात्मैव न्यायत्वान्यथानुपपत्तेः' इति ।
२५
१ - टः स्या-आ०, ब०, स० । २ स्वनिर्णयरूपत्वम् । ३ अर्थनिर्णयरूपत्वम् । ४ अभेदावभासनम् । ५ अभेदात् । ६ अर्थात्मग्रहणेन । ७ निर्णयसाधकतमत्वम् । ८ - स्थानि-आ०, ब०, प०, स० । ९ वेदनस्य । १० - थं सहका-आ०, ब०, प०, स० । ११ किमुत्पद्य - आ०, ब०, प०, स० । १२ इन्द्रियादिव्यापारात् । १३ वेदनस्य । १४ विषयान्तर निर्णयसमर्थस्य वेदनस्य । १५ सामर्थ्यस्य । १६ " कथमन्यथा न्यायविनिश्चये 'सहभुवो गुणाः' इत्यस्य 'सुखमाहादनाकारं विज्ञानं मेयबोधनम् । शक्तिः क्रियानुमेया स्याद्यूनः कान्तासमागमे ।' इति निदर्शनं स्यात् ।" - सिद्धिवि० टी० पृ० ६९ | १७ शक्तिनिरूपेण त आ०, ब०, प०, स० । १८ "लग्भ्यु. पयोगौ भावेन्द्रियम् । अर्थग्रहणशक्तिर्लब्धिः । उपयोगः पुनरर्थग्रहणव्यापारः । " - लघी० स्व० श्लो० ५ । १९ सामर्थ्यस्य । २० निर्णयरूपक्रिया । २१ निर्णयक्रियायाः । २२ अभिमतमेतत्-आ०, ब०, प०, स० ।