________________
१३ ]
प्रथमः प्रत्यक्ष प्रस्तावः
६५
नन्वर्थस्य घटादेः आत्मनश्च बोधस्वभावस्य वेदनमेव कथम् ; अशक्तस्य तदसम्भवात् । न शक्तस्य सम्यग्बुद्धिविषयत्वम् ; योग्यस्यैव तदुपपत्तेः । शक्तस्यैव तस्य वेदनमिति चेत् ; न; एकान्तेन द्रव्यरूपत्वे पर्यायस्वभावत्वे सामान्यात्मकत्वे विशेषाकारत्वे च तस्यार्थक्रियासामर्थ्यस्य शास्त्रकारेणैव निषेधात् । न च द्रव्यादे रूपान्तरमस्ति यतस्तस्याऽनिषिद्धसामर्थ्यस्य किञ्चिद्वेदनं स्यात्तदसम्भवात् । साध्यरूपेयं प्रतिज्ञेति चेत्; अत्राह - 'द्रव्य' इत्यादि । ५ तात्पर्यमत्र - यद्यप्येकान्तनित्यादिरूपत्वे अर्थात्मनोः शक्तिवैकल्यम् अर्थक्रियाविरहात् कथञ्च - नित्यादिस्वभावत्वे तु नायं दोषः तत्रार्थ क्रियासामर्थ्यस्य निरूपणाद्वेदनविषयतोपपत्तेः निरवद्यत्वं प्रतिज्ञाया इति ।
एकान्ततो नित्यमनित्यमेवं समानमम्यश्च न वस्तु किचित् ।
अर्थक्रियायां तदशक्तिभावात् तथाविधस्याप्रतिवेदनाच्च ॥२१८॥ अविद्यमानं कथयन्ति सन्तस्तद्वेदनं नाम कथं प्रमाणम् । अवस्तुसंस्पर्शितया सतोऽपि को नाम मानव्यवहारयोगः ॥ २१९ ॥ ततोsस्तु जात्यन्तरमेव रूपमन्तर्बहिर्वस्तुषु वस्तुवृत्त्या । तस्यार्थशक्तेः प्रतिवेदनाश्च व्योमार विन्दप्रतिमं तदन्यत् ॥ २२० ॥ तथोदितं स्वामिसमन्तभद्रैरेकान्तनी तिव्रतती कुठारैः ।
अभेदभेदात्मकमर्थतत्त्वं तव 'स्वतन्त्रान्यतरत्खपुष्पम् ||” [युक्तधनु० लो०७] तद्वेदनं तन्निरवद्यरूपं प्रमाणतत्त्वेन निरूप्यमाणम् ।
१०
१५
अयुक्तिमन्नेति वदत्युदारं " द्रव्यादिशब्दग्रहणेन देवैः ॥२२२॥
९
,
स्यान्मतम्–आगमार्थ एव प्रमाणार्थो वक्तव्यः, आगमनैर्मल्यनयनोपायतया तदपरप्रमाणपरिचिन्तनात् एकविषयत्वे च संवादसामर्थ्यात् तस्य तदुपायत्वं न भिन्नविषयत्वे २० तत्सामर्थ्याभावात् । हेयोपादेयतत्त्वमेव च "सोपायमागमार्थो न द्रव्यादिरूपावर्थात्मानौ तत्कथं तयोः प्रमाणार्थत्वमुक्तं न हेयादितत्त्वस्य सोपायस्येति ? तन्न सारम् ; अर्थात्मनोरेव सोपायहेयादिरूपत्वात्,”द्रव्यादिस्वभावकथनं तु तदभावे हेयादिरूपस्यैवासम्भवप्रतिपादनार्थम् "तथैव यथावसरं निरूपणात् । ततश्च " प्रत्यागमानां द्रव्यादिरूपवस्तुवादविमुखत्वेन वस्तुभूतयादितत्त्वप्रतिपादकत्वाभावादप्रामाण्यम्, परमागमस्य चान्ययोगव्यवच्छेदेन तद्वैपरीत्या हेयादिविषयं २५ प्रामाण्यमवस्थापितं भवति । ततो निरवद्यं यथोक्तविषयस्य वेदनस्यैव न्यायत्वं तदन्यथानुपपत्तिनियमनिश्चयात् । अनिश्चितान्वयस्य कथं हेतुत्वमिति चेत् ? न ; अन्यथानुपपत्त्यैव निश्चितया अन्वयस्यापि निश्चयात् तस्यास्तद्रूपत्वात् । साधर्म्यदृष्टान्तानुपदर्शने कथं तन्निश्चय इति चेत् ? न; पक्ष
१ द्रव्यपर्यायसामान्यविशेषातिरिक्तम् । २ असिद्धा । ३ विशेषरूपम् । ४ भेदनिरेपक्षोऽभेदः, अभेदनिरपेक्षश्च भेदः, केवलं भेदः अभेदश्च न तत्त्वमिति भावः । ५ कारिकायां द्रव्यपर्यायेत्यादिपदोपादानेन । अकलङ्कदेवः । ७ आगमभिन्न प्रत्यक्षादिप्रमाण । ८ आगमभिन्नप्रमाणस्य । ९ -त्वेन तत्सा - आ०, ब०, प०, स० । १० हानोपायोपादानोपायसहितम् । ११ द्रव्यादे व-आ०, ब०, प०, स० । १२ तदैव आ०, ब०, प०, स० । १३ बौद्धायागमानाम् । १४ अन्वयनिश्चयः ।
९