________________
६६
न्यायविनिश्चयविवरणे
[ १/३
एव तनिश्चयोपपत्तेः विपक्षे बाधक सामर्थ्यात्, तस्य चोक्तत्वात् । निरूपयिष्यते चैतत्सविस्तर - मिति नातीव निर्बाध्यते । यथोक्तस्य वेदनस्यैव प्रामाण्ये शब्दलिङ्गयोस्तन्न स्यात् शब्दस्यावेदनत्वात् लिङ्गस्यावेदनस्यापि भावात् तथा च तन्निरूपणमप्रस्तुताभिधानम्, प्रमाणमेव हि तच्छास्त्रे निरूपयितव्यं नापरमिति चेत्; अत्राह - 'अञ्जसा' इति । तात्पर्यमत्र५ यथोक्तमेव संवेदनं मुख्यतः प्रमाणम्, तद्धेतुत्वेन तूपचरितं प्रामाण्यमचेतनस्यापि शब्दलिङ्गादेरनिवारितमिति । कथं शब्दादेस्तद्धेतुत्वमिन्द्रियादेरेव तद्धेतुत्वात् "इन्द्रियमनसी विज्ञानकारणम्" [ ] इति वचनादिति चेत् ? न; इन्द्रियप्रत्यक्षापेक्षया नियमाभिधानात्, अन्यथा स्वमतव्याघातापत्तेः ।
" सामान्य ग्रहणं
घटः पट इति
दर्शनस्य प्रामाण्यप्रसङ्गः तेनाप्यर्थात्मनोरेव सत्तारूपेण ग्रहणात् १० दर्शनम्” [ ] इति वचनात् । इत्यत्राह - साकारम् इति । वा जीवः पुद्गल इति वा यो योऽयमतद्रूपपरावृत्तो भावस्वभाव: स आकार:, तेन विषयेण सह वर्त्तत इति साकारम् । 'अर्थात्मवेदनम्' इत्यनेन ज्ञानस्यैव प्रामाण्यमुपदर्शयति तस्यैव साकारत्वात् "सायारं गाणं" [ ] इति वचनात् । अर्थात्मग्रहणेनैव वेदनस्य साकारत्वमुक्तं भेदनिर्देशात्, सन्मात्रापेक्षायां तदनुपपत्तेरिति चेत्; न; सन्मात्रस्यापि तद्रत्वा५१ तदुपपत्तेः । अर्थात्मरूपमेव हि वस्तु प्रथमलोचनादिप्रणिधानवेलायाम् अपरामृष्टभेदतया - ऽनुभूयमानं सन्मात्रमुच्यते नापरम् । अतो दर्शनापेक्षया "भेदनिर्देशो न तन्त्रम्, ज्ञानापेक्ष तस्य तत्त्वादित्यस्ति" संशयावकाशस्ततो न पौनरुक्त्यं साकारग्रहणस्य । दर्शनस्यापि किन्न प्रामाण्यं यतः साकारग्रहणेन तन्निवर्त्यत इति चेत् ? न ; "ज्ञानं प्रमाणमित्याहु: " [ सिद्धिवि० परि० १० ] 'ईत्यागमविरोधापत्तेः । आगमोऽपि कस्मान्न तत्प्रामाण्यमिच्छतीति चेत् ? २० न ; अनिश्चयरूपत्वात् । न चानिश्चयरूपः प्रमाणार्थ : ' प्रकर्षेण संशयादिव्यवच्छेदलक्षणेन मीयते वस्तुतत्त्वं येन तत्प्रमाणम्' इति तदर्थोपादानात्", "निर्णयात्मकत्वमन्तरेण " तद्व्यवच्छेदायोगात् । "दर्शनमपि निर्णयरूपमेवेति चेत्; न; विषयेन्द्रियसन्निपातानन्तरमवग्रहस्यैव निर्णयात्मनोऽनुभवात् । " विषयविषयिसन्निपातानन्तरमाद्यं ग्रहणमवग्रहः " [ लघी० स्व० श्लो० ५ ] इति वचनाच ' | 'दर्शनेन त्ववग्रहव्यवधानमनुमानते एव न तन्निर्णयात् ।
1
१७
१ निर्बध्यते ता०, ब०, आ०, स० । २ लिङ्गशब्दयोः आ०, ब०, प०, स० । ३ शब्दलिङ्गनिरूपणम् । ४ इन्द्रियमनसोर्विज्ञानकारणत्वनियम । ५ "जं सामण्णग्ग्रहणं दंसणमेयं " - सन्मति ० २।१ । द्रव्यसं०गा० ४३ । ६" माणदोपुधभूदं कम्ममायारो " - जयध० पृ० ३३१ । ७" सागारे से णाणे भवति, अणागारे से दंसणे भवति । " - प्रज्ञाप० प० ३० सू० ३१४ । “साकारं ज्ञानमनाकारं दर्शनमिति ।" - सर्वार्थसि० २२९ ॥ ८ अर्थात्मेति विशेषनिर्देशानुपपत्तेः । ९ अर्थात्मरूपत्वाद् विशेषनिर्देशोपपत्तेः । १० अर्थात्मेति विशिष्य ग्रहणम् । ११ दर्शनस्य प्रामाण्यं नवेत्याकारक । १२ " णाणं होदि पमाणं" - ति०प०गा० ८३ । लघी० श्लो० ५२। प्रमाणसं ० इलो०८६ । १३ न्यायकुमु० पृ०४८ पं० १० । १४ निर्णयकत्वम-आ०, ब०, प०, स० । १५ संशयादिव्यवच्छेदायोगात् । १६ दर्शनरूपमपि आ०, ब०, प०, स० । १७ द्रष्टव्यम् - सर्वार्थसि० १।१५ | अक० टि० पृ० १३४ । १८ दर्शने तु-आ०, ब०, प०, स० । १९ यतः पूर्वकालभाविदर्शनमेव अनु पश्चात् मानम् अवग्रहात्मकं भवति, न तु तत् स्वयमर्थनिर्णयात्मकम् ।