________________
१३ ]
प्रथमः प्रत्यक्ष प्रस्तावः
६७
1
एतच्च "अक्षार्थयोगे सत्तालोकः " [ लघी० श्लो० ५] इत्यादिव्याचक्षाणैर्भाष्यकारैरेवं निरूपितम्। प्रमाणमेव तत्' निर्विकल्पक प्रत्यक्षत्वादिति ब्रह्मविदः; तदास्ताम् यथावसरं निरूपणात् । शुक्तिकारजतज्ञानस्य साकारत्वात् प्रामाण्यप्रसङ्ग इति चेत्; न; अर्थग्रहणेन तन्निवर्त्तनात् । न हि तद्रजतमर्थः, तद्देशादौ तदप्राप्तेः । तदप्यर्थ एवान्यदेशादौ सत एव तस्य प्रतिवेदनात्, ततो नार्थपदेन तन्निवर्त्तनम्, अतो 'बाधविवर्जितम्' इति वक्तव्यम्, अर्थज्ञानस्यापि ५ बाध्यमानस्याप्रामाण्यप्रतिपादनार्थमिति चेत्; कथमज्ञानस्यैव बाधनम् अतिप्रसङ्गात् ? सन्निहितदेशत्वादेरसत एव ग्रहणादिति चेत्; न; तस्याप्यन्यदेशादौ सत एव ग्रहणात् । तस्यापि सन्निहितदेर्शत्वादिकमसदेव गृह्यत इति चेत्; न; तत्रापि तस्यैवोत्तरत्वात् । तन्न दूरमनुसरतोऽपि किश्चिदसद्वेदनमस्ति यत्प्रामाण्यव्यवच्छेदेन बाधविवर्जितपदमर्थवद्भवेत् । असत एव कस्यचिद्वेदने वा रजतस्यैवासतो वेदनमस्तु विशेषाभावात् । असतः कथं वेदनमिति चेत् ? सन्निहित देशत्वादेः १० कथम् ? अहमेव तत्रापि चोदक इति चेत्; " स्वतस्तर्हि कथं वेदनम् ? योग्यत्वाच्चेत्; क तस्य योग्यत्वम् ? वेदनोत्पत्ताविति चेत्; कुतस्तदवगतिः १ तत एव वेदनादिति चेत् ; तन्न; यस्मात्
यदि तद्वेदनेनैव "तस्यार्थाज्जन्म वेद्यते । तदर्थास्तित्वसन्देहः कस्यचित्कथमुद्भवेत् ? ॥२२३॥ जानदेव कथं ज्ञानमात्मनोऽर्थात्समुद्भवम् । स एवास्ति न वेत्येवं विकल्पाय प्रकल्पते ॥२२४॥ दृश्यते चात्मसंवित्तौ सत्यामप्यर्थ संशयात् । अर्थिनामपि तद्वेद्येष्वप्रवृत्तिस्तनुभृताम् ॥ २२५॥ अनिश्चयात्मकत्वाच्चेत् तज्ज्ञानात्संशयोद्भवः । अविशेषात्तथाऽप्येष किन्न स्यादात्मसंशयः १ ॥२२६॥ तथा सत्यर्थविज्ञानमर्थ कार्यत्वमात्मनः ।
तदेव प्रतिवेत्तीति संशयानः कथं वदेत् ॥ २२७ ॥ तन तेनैव तद्युक्तिः, यदि तद्युक्तिरन्यतः " । अनर्थसम्भवं " तच्चेत्, कथं स्यादर्थवेदनम् ॥ २२८ ॥ यद्विद्यादर्थ कार्यत्वं प्राच्यज्ञानस्य तत्त्वतः । तस्यापि विषयोत्पत्तिरन्यथा तु वृथा भवेत् ॥ २२९॥ 'तदप्यर्थोद्भवं चेन्न तद्गतिः पूर्ववत्स्वतः । तदन्यज्ञान क्लप्तिस्तु विदध्यादनवस्थितिम् ॥ २३० ॥
१ अकलङ्कदेवैः ।“तदनन्तरभूतं सन्मानदर्शनं स्वविषयव्यवस्थापनविकल्पमुत्तरपरिणामं प्रतिपद्यतेऽवग्रहः । " ४ बाधवर्जि - आ०, प०,
स० ।
- लघी० स्व० श्लो० ५। २ दर्शनम् । ३ शुक्तिकायां भासमानं रजतम् । ५ संशयादेरेव । ६ - त्वादसत ता० । ७ सन्निहितदेशत्वादेरपि । ८ - देशकत्वादिक - ता० । ९ समितिदेशत्वादेः । १० सतः आ०, ब०, प०, स० । ११ स्वस्य । १२ वदेः ता० । १३ स्वस्य अर्थाजन्मावगतिः । १४ ज्ञानात् । १५ अन्यज्ञानम् । १६ प्राप्यज्ञा-आ०, ब०, प० । प्राप्तज्ञा - स० ।
१७ अन्यज्ञानम् ।
१५
२०
२५