________________
न्यायविनिश्चयविवरण
[११३
तज्ज्ञान कार्य योग्यत्वं नाध्यक्षं विषयस्य तत् । नानुमेयमलिङ्गत्वात् , लिङ्गं यद्यस्ति कथ्यताम् ? ॥२३१॥ संवित्तिनियमो लिङ्गम् ; अशक्तस्य हि वेदने । तद्वेद्यं सकलं प्राप्त तथा तन्नियमः कथम् ? ॥२३२॥ इति चेन्न; स्वशक्त्यैव संवित्तेनियतार्थता । तच्छक्तिरपि तद्धेतोरर्थशक्त्या. तु किं फलम् ? ॥२३३॥ ज्ञानमर्थादनुद्भूतं न चेन्नियतगोचरम् । अर्थो ज्ञानादनुभृतो वेद्यः स्यान्नियतः कथम् ? ॥२३४॥ अन्योन्यहेतुकत्वञ्च न सदन्योन्यसंश्रयात् । तद्वद्यवेदकाभावाद् भावनैरात्म्यमागतम् ॥२३५॥ अज्ञानजस्याप्यर्थस्य स्वशक्तिवशतो यदि । नियतस्यैव वेद्यत्वं यथादर्शनमुच्यते ॥२३६॥ ज्ञानमेवमनर्थोत्थं नियंतार्थ न किं मतम् ? । स्वयमेवेदमन्यत्रं देवः स्पष्टं न्यवेदयत् ॥२३७॥ "स्वहेतु जनितोऽप्यर्थः परिच्छेद्यः स्वतो यथा ।
तथा ज्ञानं स्वहेतूत्थं परिच्छेदात्मकं स्वतः ॥" [लघी० श्लो०५९] इति । तन्न वेदनोत्पत्तावर्थस्य योग्यत्वम् । विषयभावपरिणाम इति चेत् ; न ; नित्यक्षणिकयोरविषय. त्वप्रसङ्गात् , तत्परिणामाभावात् । परिणामिनो भावस्य विषयत्वमिति चेत् ; सत्यम् ; तथापि
नार्थसामर्थ्यकृतं वेदनं तत्परिणामस्यैव तत्कृतत्वात् । न च सं एव वेदनम् ; अर्थज्ञानयो२० रभेदप्रसङ्गात् । स्वहेतुजनितस्यापि वेदनस्यार्थाभिमुख्यमर्थसामर्थ्यादिति चेत् ; न ; "तस्यापि
स्वरूपाभिमुख्यवत् स्वशक्तित एव भावात् । किमिदानी तत्परिणामेनेति चेत् ? यद्येवं जानाति निर्मुच्यतां तत्र निर्बन्धः । ततो यदुक्तं धर्मकीर्तिना
"नित्यं प्रमाणं नैवास्ति प्रामाण्याद्वस्तुसद्गतेः ।
ज्ञेयानित्यतया तस्य अध्रौव्यात्...॥" [प्र० वा० १११० ] इति । २५ तन्निरस्तम् ; ज्ञेयकार्यत्वे हि ज्ञानस्य"तदनित्यतया स्यादनित्यत्वम् , न चैवम् ,तत्कार्यत्वस्यान
न्तरमेव निषेधात् । मा भूत्तत्कार्यत्वं तथापि वस्तुसद्गतित्वात्तस्यै प्रामाण्यम् । वस्तुसद्गतित्वञ्च वस्तुनि सति व्यापारात्। न च वस्तु सर्वदास्ति यतस्तद्व्यापारस्य सर्वदास्तित्वम् , अतो वस्तुसदनित्यतया तत्र व्यापृतं ज्ञानमप्यनित्यमेव, तद्व्यापारतद्वतोरभेदात् । व्यापारोऽप्यव्यापारान भिद्यत इति चेत् ; न ; ज्ञेयस्य ज्ञातेतरावस्थयोरविशेषप्रसङ्गात् सर्वमज्ञमेव सर्वज्ञमेव वा
1-कार्ययो-आ०, ब०, ५०, स० । २ -स्य निवे-आ०, ब०, ५०, स०। ३ संवित्तिकारणात् । ४ शुन्यत्वम् । ५ यथाप्रतीति । ६ नियतार्थान्न मा०, २०, ५०, स० । ७ लघीयनये । ८ तयोरसत्वात विषयभावपरिणामाभावात् । ९ अर्थगतविषयभावपरिणामस्यैव अर्थसामर्थ्यकृतत्वात् । १. विषयभावपरिणामः । ११ अर्थाभिमुख्यस्यापि । १२ ज्ञेयानित्यतया । १३ ज्ञानस्य ।