________________
६९
१॥३]
प्रथमः प्रत्यक्षप्रस्ताव: जगत्प्राप्तम् । न चवम् , अतो वस्तुनि सत्येव तत्र ज्ञानस्य व्यापारो न पूर्व नापि पश्चादित्युपपन्नं ज्ञेयानित्यतया वस्तुसद्तरध्रौव्यमिति चेत् ; कुतः पुनरिदं ज्ञेयानित्यत्वमवगतं येनैवमुच्यते? तद्विषयादेव ज्ञानादिति चेत् ; न ; तस्य नित्यस्याभावात् "नित्यं प्रमाणं नैवास्ति' इत्यस्य विरोधात् । अनित्यात्ततस्तदवगम इति चेत् ; अनित्यत्वेन तेंदज्ञाने कथम् 'अनित्यात्' इति वचनम् ? न च "ज्ञानस्याज्ञातं रूपम् ; स्वसंवेदनरूपत्वात्तस्य । न च खण्डशस्तद्वेदनम् “तस्माद् दृष्टस्य ५ भावस्य" [प्र. वा० ३।४४] इत्यादि विलोपप्रसङ्गात् । अस्त्येव तस्य तत्त्वेन ज्ञानमिति चेत् ; कुतस्तज्ज्ञानम् ? अन्यत एव कुतश्चिदिति चेत् ; न ; 'ज्ञेयानित्यतया' इत्यस्य वैयर्थ्य. प्रसङ्गात् । ज्ञेयानित्यत्वादेवेति चेत् ; तदपि कुतः ? तज्ज्ञानस्यानित्यत्वादिति चेत् ; न ; परस्परा. श्रयात्-ज्ञेयस्यानित्यत्वेन तज्ज्ञानस्यानित्यत्वम् , ततश्च तदनित्यत्वमिति । तन्न ज्ञेयानित्यत्वं तज्ज्ञानादेव शक्यावसायम् । नाप्यतज्ज्ञानात् ; अप्रतिपन्ने धर्मिणि तद्धर्मप्रतिपत्तेरयोगात् । १० ततो न ज्ञेयानित्यत्वं ज्ञानानित्यत्वस्य कारकं ज्ञापकं वेति न किञ्चिदेतत् । ततो वेदनस्य सद्विषयत्वमपि स्वशक्तित एव तद्वदसद्विषयत्वमपि स्यात् ।
यद्यसदेव रजतं कुतस्तस्य देशादिनियमेन वेदनम् असतो देशादिनियमस्यासम्भवात् , वस्तुधर्मत्वात्तन्नियमस्येति चेत् ? न ; वेदनस्यैव तथा सामर्थ्यात् । तदपि यदि "स्वोपादानप्रकृतेरेव, सर्वस्यापि वेदनस्यासद्विषयत्वप्रसङ्गः, तत्सामर्थ्यहेतोः खोपादानप्रकृतेर- १५ विशेषादिति चेत् ; न ; आवरणोदयात् तत्सामर्थ्यभावात् । न च तदुदयस्य सर्वत्राविशेषः ; स्वहेतुनियमेन "तन्नियमात् , आवरणसद्भावस्य च निवेदनात् । सर्वमसत् किन्न वेद्यत इत्यप्यनेनाऽपास्तम् ; आवरणशक्तिनियमात् नियतस्यैव वेदनोत्पत्तेः । ततो रजतवेदनस्यानर्थवेदनत्वेन अर्थपदेनैव तव्यवच्छेदात न तदर्थं बाधवर्जितपदमर्थवत् । रजतज्ञानमप्यर्थज्ञानमेव अर्थस्यैव शुक्तेः रजतरूपतया वेदनादिति चेत् ; कुतस्तस्य तद्रूपतया वेदनम् ? 'तवेदनहेतुत्वाञ्चेत् ; न ; ज्ञानस्यार्थकार्यत्वनिषेधात् । अनिषेधेऽपि कथं शुक्तिकार्य ज्ञानं रजतप्रतिभासं भवेत् अतिप्रसङ्गात् ? कारणदोषादन्यकार्यस्यापि 'तंदवभासित्वम् , न 'चातिप्रसङ्गः तदोपशक्तिनियमेन “नियतज्ञानभावादिति चेत् ; न; 'तगुणादेव "अतजनितस्यापि तद्विषयत्वोपपत्तेः, सर्वत्र विषयकार्यज्ञानकल्पनावैफल्यप्रसङ्गात्। ने चाकारणार्थवेदने सर्वतद्वेदनप्रसङ्गः; तद्गुणशक्तिनियमेन तन्नियमोपपत्तेः। तन्न तज्ज्ञानहेतुत्वात्तस्य ।। तद्रूपतया वेदनम् । स्वयं "तद्रूपत्वादिति चेत् ; न; शुक्तिरूपत्वाभावप्रसङ्गात् । न हि रजतमेव *तद्रूपं भिन्नप्रयोजनत्वात् । अरजतरूपापि "शुक्ती रजतरूपत्वेनावभासते कारणदोषादिति चेत् ;
१ प्रमाणस्य । २ ज्ञानस्य । ३ ज्ञानात् । ४ ज्ञानाज्ञाने । ५ ज्ञानस्याज्ञानतया स्व-भा०,१०,५०,स० । .... 'दृष्ट एवाखिलो गुणः" इति शेषः । ७ विलोपापत्तिप्र-आ०,ब०,१०,स०। ८ ज्ञानस्य । ९ अनित्यत्वेन । १. चेदनगतम् असतो देशादिनियमवेदनसामर्थ्यम् । ११ प्रकृतज्ञानस्य उपादानभूतं तत्पूर्वज्ञानम् ।१२ -प्रसङ्गात्तत्सा -आ०, ब०, प० । १३ आवरणोदयनियमात् । १४ शुक्तिरूपार्थस्य । १५ रजतज्ञान । १६ रजतावभासित्वम् । १७ यदि शुक्तिजमपि रजतज्ञानं रजतप्रतिभासं तद्वत् घटादिप्रतिभासं कुतो न भवति ? १८ नियतज्ञानाभा-ता० । १९ कारणगुणादेव । २० ज्ञेयाजनितस्यापि । २१ न च कार-ता० । २२ शुक्तिरूपार्थस्य । २३ रजतरूपत्वात् । २४ शुक्तिरूपम् । २५ शुक्तिरज-आ०, ब०, ५०, स० ।
२०