________________
न्यायविनिश्चयविवरणे
[ १२३
99
वस्तुसता', तद्विपरीतेन वा ? वस्तुसता चेत्; न; रजतज्ञानस्य प्रामाण्यप्रसङ्गात् । न हि वस्तुसज्ञानमेवाप्रमाणम् ; प्रमाणविलोपप्रसङ्गात् । बाधनादप्रमाणमिति चेत्; न; तदेवे वस्तुसज्ज्ञानस्य कथम् ? स्वतस्तद्विषयस्य वस्तुसत्त्वेऽपि शुक्तिरूपत्वेनाभावादिति चेत् ; यदि तन् प्रतिभासते कथं बाधनं स्वरूपनियतस्यैवं प्रतिभासनात् ? प्रतिभासते चेत्; कथमसत्, ५ असतः प्रतिभासानभ्युपगमात् ? अन्यथा रजतस्यापि तद्वदसत एव प्रतिभाससम्भवान्न तद्वस्तुसत्त्वं भवेत् । तद्विपरीतेन चेत् ; सिद्धं तर्हि तज्ज्ञानस्यावस्तुविषयत्वाद् अर्थपदेनैव निवर्त्तनम् । अथ तद्र पं" स्वयमवस्तुसदपि वस्तुसच्छुक्तितादात्म्याद् वस्तुसदेव ततो नार्थपदनिवत्वं " तज्ज्ञानस्य; न तर्हि तस्य बाधनमपि स्यात् " वस्तुसज्ञानस्य " तदयोगात् । स्वतस्तद्विषयस्या -- वस्तुसत्त्वात्तस्यै" " तदुपपत्तौ अर्थपदनिवत्त्वमपि स्यादविशेषात् । न च सर्व एव असदाकारो १० वस्तुतादात्म्येनैवावभासते यतस्तत्प्रयुक्तं तस्य वस्तुत्वं भवेत्, स्वतन्त्रस्यापि गन्धर्वनगरादेः प्रतिभासनात् । तस्यापि भानुमन्मरीचिप्रसरादिभावान्तरतादात्म्येनैव प्रतिभासनमिति चेत्; तत्तादात्म्यस्य " तर्हि कथमसतः स्वतन्त्रस्य प्रतिभासनम् ? तदपि " तत्तादात्म्यादेवेति चेत्; न; तत्र " तद्व्यापारस्याभावादनवस्थापत्तेः । न च तस्यें स्वतन्त्रावभासिनो वस्तुत्वम् अवस्तुधर्मत्वात् । तस्मात्स्वतन्त्रमेव तत् " अवस्तुभूतञ्चावभासत इति न्याय्यम् । तद्वद् गन्धर्वनगरादिरप्यसदाकारः प्रतिभातीति किं तत्र भावतादात्म्यपरिकल्पनेन अदृष्टकल्पनादोषप्रसङ्गात् ?
१५
७०
असतः स्वतन्त्रस्य प्रतिभा ससम्भवे कथमुक्त शास्त्रकारेण भ्रान्तिलक्षणम्"अतस्मिन् तो भ्रान्तिः " [ सिद्धिवि० परि०२ ] इति ? अनेन हि शुक्तवादिता - दात्म्येनैव रजतादिप्रतिभासनमभिधीयते न स्वातन्त्र्येण । अतस्मिन् शुक्त्यादौ तद्वहो रजतादिप्रह इति व्याख्यानादिति चेत्; न; 'अतस्मिन्' इत्य सदाकारपरत्वान्निर्देशस्य, अतस्मिन् 'असति २० तस्मिन्' इति तदर्थत्वात् न पुनः तस्मादन्यस्मिन् तस्मिन् इति । एवं हि यत्रैवान्यरूपत्वेनासदवभासनं तत्रैवेदं लक्षणं भवेन्नान्यत्र, तदस्तित्वस्य च निवेदनात् । अभिप्रेतञ्च शास्त्रकारस्यानन्यरूपत्वेनावभासनम् । “यथैवात्मायमाकारमभूतमवलम्बते " [ न्यायवि० श्लो० ३५ ] इति वचनात् । भूततादात्म्यनियमेनावभासने हि कथम् - 'अभूतमवलम्बते इति वचनात् ' इति ब्रूयात ? परमप्यत्र यथास्थानं चिन्तयिष्यते । तस्मादसत्प्रतिभासनमेव रजतज्ञानमिति २५ अर्थपदेनैव तद्व्यवच्छेदान्न तदर्थं प्रयत्नान्तरमास्थेयम् ।
२४
" अन्यस्य मतम् - न किञ्चिदसद्विषयं ज्ञानमस्ति यदर्थपदस्य व्यच्छे' स्यात् । शुक्ति
१ रजतरूपत्वेन । २ बाधनमपि । ३ रजतरूपत्वस्य । ४ शुक्तिरूपत्वम् । ५ रजतरूपत्वविशिष्टस्यैव । ६ कथमसतः प्रतिभासोऽनभ्युप-आ०, ब, प०, स० । ७ शुक्तिरूपत्ववत् । ८ प्रतिभासनं भवेन्न तद्वस्तु - ता० । ९ अवस्तुसता । १० रजतरूपम् । ११ तदज्ञानस्य तर्हि आ०, ब०, प०, स० । रजतज्ञानस्य । १२ वस्तुतज्ज्ञा -आ०, ब०, प०, स० । १३ बाधनायोगात् । १४ रजतरूपस्य । १५ रजतज्ञानस्य । १६ बाधनोपपत्तौ । १७ भावान्तरतादात्म्यस्य । १८ भावान्तरतादात्म्यादेव । १९ भावान्तरतादात्म्यव्यापारस्य । २० भावान्तरतादात्म्यस्य । २१ अवस्तुभूतमव-आ०, ब०, प०, स० । २२ अकलङ्कदेवेन । २३ - नू अत-आ०, ब०, प०, स० । ‘अतस्मिन्’ इत्यत्र पर्युदा÷रूपे नञर्थे तस्मादन्यस्मिन् तस्मिन् इत्येवार्थः स्यात्, पर्युदासः सदृशप्राहृीति नियमात् ।
२४ प्रभाकरस्य ।