________________
३]
प्रथमः प्रत्यक्ष प्रस्तावः
७१
शकलादौ 'इदं रजतम्' इति ज्ञानमसद्विषयमिति चेत्; न; तंत्रापि 'इदम्' इत्यस्य प्रत्यक्षत्वात् 'रजतम्' इत्यस्य स्मरणत्वात् । न च प्रत्यक्षस्मरणयोर सद्विषयत्वम् ; अनभ्युपगमात् । न चापरं तत्रासद्विषयं संवेदनम् अननुभवादिति; तदसङ्गतम्; रजतज्ञानस्य स्मरणरूपतया अननुभवात्, पुरोवर्त्तिरजतावभासित्वेनानुभवस्वभावस्यैव तस्य प्रतिवेदनात् । स्मरणरूपत्वे त्वतीतविषयतया तदनुभवप्रसङ्गात् । न चैवम् । तन्न तस्य स्मरणत्वम् । अतद्रूपावभासिनोऽपि तद्रूपत्वे नीलस्य ५ निरवशेषजगद्रूपत्वं भवेत् प्रतीतिविरोधस्योभयत्र साम्यात् । स्मरणमेव तद्वस्तुतः प्रमुषितत्वान्न स्वरूपेण वेद्यत इति चेत्; न; प्रमोषापरिज्ञानात् । अस्वसंवेदनं प्रमोष इति चेत्; न; प्रश्नस्यैवोत्तरत्वात् 'किन्न स्मरणं तत्त्वेन संवेद्यते' इति प्रश्नः, तत्कथम् ' अस्वसंवेदनात्' इति
एवोत्तरीभवति ? प्रश्नसमाधानयोरविशेषप्रसङ्गात् । न चास्त्रसंवेदनं संवित्तेः; स्वमतव्याघातात् । 'संवित्तिरपरोक्षा' इति स्वैमतत्वात् । अनुभवस्वरूपत्वेन ग्रहणं प्रमोष इति चेत्; न; १० तं तद्रूपस्याभावात् । असतश्च ग्रहणानभ्युपगमात् । अभ्युपगमे वा सिद्धमसद्विषयं ज्ञानमिति कथं तद्व्यवच्छेदार्थमर्थपदं न भवेत् ?
किञ्चैवम् इदम्प्रतिभासस्यापि स्मरणत्वप्रसङ्गो रजतप्रतिभासादभेदात् । न हि स्मरणादभिन्नस्यास्मरणत्वम् । अभेदश्चाभेदप्रतिभासात् । विवेक एव तयोर्न प्रतिभासते नाभेद इति चेत्; तर्हि रजतमपि न प्रतिभासते तदन्याप्रतिभासनस्यैव भावात् । रजतप्रतिभा- १५ सनमेव तदन्याप्रतिभासनमिति चेत् ; अभेदप्रतिभासनमेव विवेकाप्रतिभासनमपि स्यात् । अभेदप्रतिभासनादन्यदेव " तदिति चेत्; रजतप्रतिभासनाद् अन्यदेव अन्याप्रतिभासनमपि स्यात् । को दोष इति चेत् ? न ; सकलप्रतिभासविरहप्रसङ्गात् । से' एव स्मृतिप्रमोष इति चेत् ; न ; गाढमूर्च्छादेस्तत्त्वप्रसङ्गात् । 'इदम्प्रतिभासाभावान्नेति चेत् ; न ; 'तँस्यापि अनिदम्प्रतिभासनिवृत्तिमात्रत्वेन 'तत्रापि भावात् । यदि च इदम्प्रतिभासोपाधिकप्रतिभार 'तैंत्प्रभोषः ; सकलं जगत्तत्प्रमोष एव स्याद् इदम्प्रतिभासस्यैव सर्वत्र भावात् । कथं घटादिप्रतिभास इति चेत् ? न ; तस्याघटादिप्रतिभासनिवृत्तिमात्रत्वात् । तत्प्रतिभासत्वेनानुभूयमानः कथं तदन्यप्रतिभासनिवृत्तिरेव स्यात् ? रजतप्रतिभासनमपि " तत्त्वेनानुभूयमानं कथं तन्निवृत्तिरेव स्यात् ? बाधनादिति चेत्; न; तत्प्रतिभासाभावे बाधनस्यैवासम्भवात् । प्राप्ते हि तस्मिन् बाधनं नाप्राप्ते निर्विषयत्वप्रसङ्गात् । प्राप्तौ वा तस्य न तदन्यप्रतिभासनिवृत्तित्वमेव, २५
२०
१ "रजतमिदमिति नैकं ज्ञानं किन्तु द्वे एते विज्ञाने । तत्र रजतमिति स्मरणम्, तस्याननुभवरूपत्वान्न प्रामाण्यप्रसङ्गः । इदमित्यपि विज्ञानमनुभवरूपं प्रमाणमिष्यत एव ।" - प्रक० प० पृ० ४४ । बृह० प० पृ० ६५ । २ "स्मरामीति शानशून्यानि स्मृतिज्ञानान्येतानि " - बृह० पृ० ७२ । “अनन्तरञ्च रजते स्मृतिर्जाता तयाऽपि च । मनोदोषात्तदित्यंशपरामर्शविवर्जितम् ॥" - प्रक० प० पृ० ३४ । ३ प्रश्न एवं। ४ “किन्तु संविदः प्रत्यचत्वात् " - बृह० पृ० ७६ । " प्रत्यक्षा च नो बुद्धिरित्येतदुक्तं भवति प्रत्यक्षा च नः संवित्" - बृह० पृ० ७७ । “स्वयंप्रकाशैव मितिः " - प्रक०प० पृ०५७ । ५ स्मरणे । ६ अनुभवरूपस्य । ७ प्रत्यक्षस्मरणयोः । " ग्रहणस्मरणे चेमे विवेकान नवभासिनी ।" - प्रक० प०पृ० ३४ । ८ प्रतिभासत इत्यन्वयः । ९ रजतभिन्नस्याप्रतिभासनात्। १० विवेकाप्रतिभासनम् । ११ सकलप्रतिभासाभावः । १२ गाढमूर्च्छादौ इदमिति प्रतिभासाभावात् । १३ इदम्प्रतिभासस्यापि । १४ गाढमर्च्छादावपि । १५ इदम्प्रतिभासमात्रम् । १६ स्मृतिप्रमोषः । १७ घटप्रतिभासत्वेन । १८ रजतत्वेन ।