________________
७२ न्यायविनिश्चयविवरणे
[१३ रजतप्रतिभासतयैवानुभवात् । तदपह्नवे घटादिप्रतिभासोऽपि न कश्चिदिति सर्वत्र इदम्प्रतिभासस्यैव सकलभेदप्रतिभासविकलस्य भावाद्' विजयी परमात्मवादः स्यात् । अथवा, शून्यवाद एव इदम्प्रतिभासस्याप्यपह्नवाविशेषात् । अशक्यापह्नवत्वे वा तस्य तद्वदेव रजतप्रतिभासस्य इदम्प्रतिभासात् तदभेदप्रतिभासस्य चाशक्यापह्नवत्वात् सिद्धम् इदम्प्रतिभासस्यापि स्मरण५ रूपत्वं रजतप्रतिभासात्तद्रूपादभेदात् । स्पष्टप्रतिभासत्वान्नैवमिति ; समानं रजतप्रतिभासेऽपि । तन्नैष स्मृतिप्रमोषवादो न्याय्यः । तस्मादसदाकारप्रतिभास एवायम् , तद्व्यवच्छेदार्थमर्थपदच इति व्यवस्थितमर्थवेदनस्यैव प्रामाण्यम् ।
कुतः पुनरर्थवेदनस्य तत्त्वावगमः ? प्रत्यक्षादिति चेत् ; तदपि तदेव, तदर्थान्तरं वा भवेत् ? तदर्थान्तरमिति चेत् ; नैकविषयं पूर्वस्मादविशेषात् । न हि तदविशिष्टमेव १० तत्प्रामाण्यमवगमयति तत एव तदवगमप्रसङ्गात् । अत एव न सजातीयविषयम् , मिथ्या.
ज्ञानप्रामाण्यप्रसङ्गाच्च मरीचिकातोयज्ञानेऽप्युत्तरतज्जातीयज्ञानभावात् । संवादप्रत्यय एव केवलम् अर्थक्रियाधिगमात्मा प्रत्यक्षमवशिष्यते । न च "तेनान्यविषयेण साधनज्ञानस्यातीतस्य प्रामाण्यं शक्यमवगन्तुम् अध्यक्षस्यातीतविषयत्वाभावात् । तन्नार्थान्तरात् प्रत्यक्षात् तत्प्रामाण्यावगमः ।
तत एवेति चेत् ; न ; सन्देहात् । उत्पन्नेऽपि हि जलज्ञाने भवति सन्देहः 'किमिदं सत्यं तोयम् १५ अन्यथा वा' इति । ततो न "ततः स्वविपयत्यार्थक्रियासाधनत्वावगमः सम्भवति । न हि
सन्दिग्धादेव प्रत्ययात्तत्त्वप्रतिपत्तिः अतिप्रसङ्गात् । अर्थज्ञानस्य बोधात्मकत्वमेव प्रामाण्यम् , तञ्च तत एव तस्य सिद्धयतीति चेत् ; न; बोधात्मकत्वस्य तैमिरज्ञानेऽपि भावात् तस्यापि प्रामाण्यप्रसङ्गात् । बाधाविधुरं बोधात्मकत्वमेव प्रामाण्यमिति चेत् ; न, बाधावैधुर्यस्याप्युत्पत्य
वस्थायामप्रवेदनात् । प्रवेदने वा न ततः प्रवर्त्तमानोपि (नोवि) प्रलभ्येत । न ह्यवगतप्रामाण्यादेव २० बोधात्प्रवर्त्तमानस्य विप्रलम्भो न्याय्यः, तदवगमस्यैवाभावप्रसङ्गात् ।
एतेन मिथ्याज्ञानस्य स्वतो बाधितत्वपरिज्ञानं प्रत्याख्यातम्। स्वतो हि तत्परिज्ञाने न ततः "कस्यचित्तद्विषयार्थितया प्रवृत्तिः । न हि निर्विषयत्वं परिजानन्नेव तस्य तत्कृतां प्रवृत्तिमनु. सरति तत्परिज्ञानस्यैवाभावापत्तेः। तन्न प्रथमं बाधविरहसिद्धिः । अर्थक्रियाधिगमसमये पश्चादेव तसिद्धिः, स्नानाद्यर्थक्रियाधिगमे हि जलस्य तत्साधनत्वं प्रतिपद्यमानः तद्वेदननिधित्वमध्यव२५ स्यतीति चेत् ; नैव तत्सारम् ; एवमर्थक्रियाधिगमस्यैवासम्भवात् । तदधिगमो हि प्रवृत्तिपूर्वक :,
प्रवृत्तिश्च तोयस्यार्थकारित्वनिर्णयात् । न चांनवगतप्रामाण्यात् ज्ञानात्तद्विनिश्चयः" सम्भवति । यदि ह्यर्थक्रियाधिगमात् प्रागेव कुतश्चित्तोयवेदनस्य प्रामाण्यमवगतं भवति तदा तोयस्यार्थक्रियासम्बन्धावगमात् प्रवर्त्तमानस्यार्थक्रियाधिगमादुपपन्नं तदर्थकारितोयसंवेदनप्रामाण्यनिश्चयनम् ।
विजयिप-भा०,०प०२ ब्रह्मवाद । ३ इदम्प्रतिभासस्य । ४ रजतप्रतिभासाभेदस्य । ५ स्मरणरूपात । विपर्ययः । ७ प्रमाणस्वावगमः। ८ खस्मादेव खप्रामाण्यावगमप्रसङ्गात् । ९ प्रथमज्ञानसजातीय । १.संवाद. प्रत्ययेन। ११ स्वस्मादेव । १२ बाधितत्वपरिज्ञाने। १३ कस्यचिद्वि-आ०,०,०स०।१४-क प्रवृ-आ०,५०,
५० स०, । १५ -त्तद्विषयनि-आ०,०प०,स. । तोयस्य अर्थकारित्वनिश्चयः। १६ तदर्थक्रियाकारितोय-भा०, १०,५०, स।