________________
१॥३]
प्रथमः प्रत्यक्षप्रस्ताव न चैव (व) तन्निश्चयेन किञ्चित् , प्रागेव 'तस्य निश्चितत्वात् । अर्थक्रियासम्बन्धाश्च प्रामाण्ये मिथ्याज्ञानस्यापि प्रामाण्यप्रसङ्गः, तदधिगतादपि स्वप्नसुरतादे रेतोनिर्गमाद्यर्थक्रियादर्शनात् । तत्कृता सा तक्रिया न भवति ततः कदाचित्प्राप्तरिति चेत् ; अन्यतोऽपि न भवेत् , ततोऽपि कदाचिदप्राप्तेः । यत्र तत्प्राप्तिरसन्दिग्धा तत्प्रमाणमिति चेत् ; न; प्रतिभासाभेदे सन्देहस्यैवानिवृत्तेः । अभिन्नप्रतिभासं हि सत्यतोयज्ञानं तद्विपरीतात् , तत्कथं तत एव प्राप्तिसन्देहवि. ५ निवृत्तिः ? विलक्षणप्रतिभासात्तन्निवृत्तिरिति चेत् ; न ; तस्य तदानीमनुपलक्षणात् । पश्चादेवाभ्यासात्तदुर्पलक्षणमिति चेत् ; न ; परस्पराश्रयप्रसङ्गात्-आकारविशेषावधारणात्प्रामाण्यनिर्णये तज्ज्ञानाभ्यासः, ततश्च तथा तन्निर्णय इति । तन्न ततोऽन्यतो वा प्रत्यक्षात्तत्प्रामाण्यावगमः । प्रतिपादितं चैतद्वार्तिकालकारे
"संवादः प्रत्ययः सोऽन्यविषये यदि वर्तते । तेन पूर्वस्य मानत्वंमतीतस्येक्ष्यते कथम् ? ॥ साधनप्रत्ययस्यापि सन्देहविषयत्वतः । साधनत्वं कथं तस्य प्रमाणत्वाप्रतीतितः ॥ बोधात्मकत्वान्मानं चेत्प्रसक्ता "सर्वमानता । अबाधितार्थबोधोऽपि प्रथमं न प्रसिद्ध्यति ॥ अथार्थकारितां ज्ञात्वा तदर्थस्य प्रमात्ववित् । प्रमाणं प्रागसिद्धं यत् तस्य वित्तिः कथं ततः १ ॥ यदि प्रमाणं प्राक् सिद्धं क्रियया तस्य "योगवित् । अर्थक्रियातस्तज्ज्ञानं प्रमाणमिति गृह्यते ॥ यत्रैवार्थक्रिया तत्र प्रमाणमथ चेन्मतम् । अर्थक्रियोदयो दृष्टः "सोऽप्रमाणाद्गतादपि ॥ 'तैतो नार्थक्रिया सा चेत् ; अन्यतोऽपि कथं मता । 'ततः कदाचिदप्राप्तिः साऽन्यत्रापि” समीक्ष्यते ॥ यतो न प्राप्तिसन्देहस्तत्प्रमाणं मतं यदि । सन्देहस्य निवृत्तिर्हि समानाकारतः कुतः ॥ अभ्यासाल्लक्ष्यते पश्चादाकारः स विलक्षणः। . ततः प्राप्त्यविनाभावः एष सोऽन्योऽन्यसंश्रयः॥"
- [प्र. वार्तिकाल० ११४ ] इति ।
तोयवेदनप्रामाण्यस्य । २ सुप्तसुर-आ०, ब०, १०, स०। ३-मादर्थ-आ०,१०,५०,स। १ मिथ्याज्ञानाधिगतस्वमसुरतादिकृता। ५ सत्यज्ञानाधिगतादपि । ६ तत्प्रामाण्यमि-आ०,०, ५०, स.।
-हनिव-श्रा०,०,५०, स०। ८ विलक्षणप्रतिभासानुभवनम् । ९-त्वमिति तस्ये-स.। १०-सर्वमानसा भा.ब. ०, स। " अर्थक्रियासम्बन्धज्ञानम् । १२ "सोऽप्रमाणान्मतादपि"-प्र. वार्तिकाला। १५ अप्रमाणातात् । १४ अप्रमाणज्ञातात् । १५ प्रमाणशातेऽपि ।