________________
७४
न्यायविनिश्चयविवरणे
मा भूत्प्रत्यक्षात्तत्प्रामाण्यावगति: अनुमानाद्भवेत्, तथा हि- स्नानपानादिसमर्थतोयदर्शनाहितसंस्कारस्य तोयान्तरदर्शने पूर्वतोयानुस्मरणात् 'इदमपि तोयं स्नानादिप्रयोजनकरम् ईदृशाकारत्वात् पूर्वतोयवत्' इति तोयार्थक्रियासम्बन्धविषयमनुमानमुपजायते । तदेव च तोयवेदनप्रामाण्यज्ञानम्, अर्थक्रियासम्बन्धादन्यस्य प्रामाण्यस्याभावाद् अबाधितत्वादेरपि ५ तदायत्तत्वादिति चेत्; असारमेतत्; साध्यसाधनसम्बन्धाप्रतिपत्तौ अनुमानानुदयात् । तत्प्रतिपत्तिश्च न प्रत्यक्षात् ; तत्प्रामाण्यानिश्चयात् ।
[१३
अनुमानात्तैन्निश्चयश्चेत्; न; परस्पराश्रयप्रसङ्गात् अनुमानेन प्रत्यक्षप्रामाण्यनिश्चये ततः सम्बन्धज्ञानम्, ततश्चानुमानमिति । कथं वा प्रत्यक्षेण प्रागपि तोयतत्प्रयोजनयोः पूर्वापरसमयभाविनोः सम्बन्धवेदनम् ? कथम् न स्यात् ? इंतरेतरविषयपरिहारेणावस्थानात् । तोयप्रत्यक्षं १० हि तोयमात्रगोचरं न तत्प्रयोजनविषयम्, अपरिच्छिन्नतत्प्रयोजनञ्च कथं तद्धेतुत्वं स्वविषयस्य जानीयात् ? तत्प्रयोजन प्रत्यक्षञ्च स्नानादिमात्रपर्यवसितं न पूर्वतोयमधिगच्छति, अनधिगततद्रूपच कथं तत्कार्यत्वं स्वविषयस्य गृह्णीयात् ? न च तत्समुदायेन सम्बन्धवेदनम्, क्रमभाविनो - स्तदभावात् । नाप्येकमुभयसमयव्यापि प्रत्यक्षम् ; क्षणिकत्वात् सर्वभावानाम् ।
भवदपि सम्बन्धग्रहणं प्रत्यक्षाद्यदि व्यौप्त्या भवति तदा भवत्यनुमानं व्यभिचार१५ परिशङ्कनाभावात् । न हि सकलदेशकालभाविनस्तोयकलापस्य स्नानपानादिप्रतिबन्धनिर्धारणे व्यभिचारसम्भावनं सम्भवति, निर्धारणसम्भावनयोर्विरोधात् । अपि तु नास्मदादिप्रत्यक्षस्य व्यापि सम्बन्धग्रहणे सामर्थ्य मस्ति; सर्वस्य सर्वदर्शित्वप्रसङ्गात् । साहचर्यमात्रस्य तु व्याप्तिविकलस्य न सम्बन्धत्वम् ! न च तत्परिज्ञानादनुमानम् ; व्यभिचारसम्भवात् । सम्भवद्व्यभिचारादप्यनुमाने तत्पुत्रत्वादेरपि स्यात् । तस्माद् व्याप्त्या सम्बन्धज्ञानमङ्गीकर्त. २० व्यम् । न च तत्र प्रत्यक्षस्य सामर्थ्यम्, तेन हि पुरोवर्त्तिन एव तोयस्य तदर्थक्रियासम्बन्धः परिगृह्यते न देशकालान्तरभाविनः तस्य तेनाग्रहणात्, ग्रहणे वा तदधिकरणस्य देशादेरपि सर्वस्य तेन ग्रहणं स्यात्, अन्यथा तंद्रतसकलतोयव्यक्तिप्रहणाभावेन व्याप्त्या सम्बन्धज्ञानस्या - सम्भवादनुमानाभाव एव स्यात् । सम्बन्धज्ञाननिरपेक्षमेवानुमानमिति चेत्; न; प्रतिपादकवत् प्रतिपाद्यस्यापि स्वत एव तत्प्रसङ्गात्, तथा च गतमिदानीं शिष्योपाध्यायादिव्यवहारेण । तन्न युक्तिसहमेतत् साहसातिरेकत्वात् । तन्न " दृष्टान्ततोय तत्प्रयोजन सम्बन्धस्यापि प्रत्यक्षात्प्रतिपत्तिःअनुमानात्तत्प्रतिपत्तौ तत्राप्यपरो 'दृष्टान्तः, तस्यापि स्वप्रयोजनसम्बन्धोऽनुमानान्तरादवगन्तव्यः तत्राप्येवमित्यपरापरानुमानप्रतीक्षायामनवस्थानान्न प्रकृततोयज्ञानप्रामाण्यसिद्धिः स्यात् । ततो
२५
२ अर्थक्रियासम्बन्धायत्तत्वात् । ३ अविनाभावनिश्चयः ।
।
१ - खात्तत्पूर्व - आ०, ब०, प० स० । ३ समुदायासम्भवात् । ४ सर्वोपसंहारेण । ५ किन्तु भवितुमर्हति तत्पुत्रत्वादितरपुत्रवत्' इत्यादेः । १• उदाहरणीकृततोय । ११ दृष्टान्तस्यापि भा०,
६ अविनाभावशून्यस्य । ७ 'गर्भस्थः मैत्रतनयः श्यामो व्याप्तौ स - आ०, ब०, प०, स० । ९ सकलदेशगत । ब०, प०, स० ।