________________
१३ ]
प्रथमः प्रत्यक्ष प्रस्तावः
७५
न प्रत्यक्षात् नानुमानात् प्रामाण्यावगमः, न चापरं प्रमाणमस्ति यतस्तदवगमः स्यात् । तत्कथं प्रमाणसिद्धिः यतस्तल्लक्षणप्रणयनमिति ? एतदपि तत्रैव प्रतिपादितम् -
" तदृष्टावेव दृष्टेषु संवित्सामर्थ्य भाविनः । स्मरणाद् व्यवहारश्चेदनुमानं तथा सति ॥ तच्चानुमानमध्यतादध्यतमनुमानतः । अन्योन्यसंश्रयादेवं नास्त्यन्यतरसंस्थितिः ॥
स्वरूपस्वावलम्बनाकारपरिच्छेदि हि प्रत्यक्षं न हि तृणस्यापि कुब्जीकरणे समर्थम् । न पूर्वापरयोस्तेन सम्बन्धः परिगृह्यते । देशकालान्तरव्याप्त्या सङ्गतिर्योग उच्यते ।। देशकालान्तरव्याप्तेरध्यक्षं ग्रहणे क्षमम् । यदि सर्वस्य सर्वार्थदर्शितैव प्रसज्यते ॥ सहभावस्तु 'यो [s] व्याप्त्या " न तस्मादनुमोदयः । कादाचित्कतया त सर्वत्रास्त्वनुमाऽथवा ॥ इदानीमेवमाकारमेतदस्तीति वेद्यताम् । अध्यक्षतः, न देशाद्यन्तरस्थग्रहणं ततः ॥ अगृहीते च देशादौ तद्द्व्याप्तिर्गृह्यते कथम् १ । तदग्रहेऽनुमानं चेदेतदत्यन्तसाहसम् ॥ अनुमानान्तराक्षेपादनवस्थावतारतः । प्रकृताप्रतिपत्तिः स्यात्तस्य तस्येत्यपेक्षणात् ॥ न प्रत्यक्षानुमानाभ्यामपरं मानमिष्यते ।” [ प्र० वार्तिकाल० ११५ ] इति चेत्; अत्राह - 'प्रत्यक्षलक्षणम्' इति । प्रतिपक्षमक्ष्णोतीति प्रत्यक्षम् परस्यानन्तरं विचारज्ञानम्, तेन प्रमाणप्रतिपक्षस्य तदभावस्य स्वविषयत्वेन व्यापनात्, तदेव लक्ष्यतेऽनेनेति लक्षणम्, प्रत्यक्षं लक्षणं यस्य तत्तथोक्तम् अर्थवेदनम् । कथं पुनः परविचारेणार्थज्ञानस्य तत्त्वमवगम्यत इति चेत् ? उच्यते यद्ययं विचारः प्रमाणं न भवति, कथमतः प्रमाणाभावसिद्धिः २५ तद्भावसिद्धिवत् ? । न चैवं कस्यचित् क्वचित्पराजयः ; प्रमाणनिरपेक्षायाः स्वार्थसिद्धेः सर्वत्र सुलभत्वात् ? नापि विजय: ; तस्य पराजयसापेक्षत्वात्, 'तस्य चाभावादित्यभाव एव वादव्यवहारस्य “प्राप्तः । तस्मात्परपक्षव्युदासेन स्वपक्षसिद्धिमन्विच्छता प्रमाणमूलैव तत्सिद्धिरङ्गीकर्त्तव्या नान्यथा अतिप्रसङ्गात् ।
२०
"
१ प्रमाणवार्तिकालङ्कार एव । २- करणसम-आ०, ब० । ३ प्रत्यक्षेण । ४ ये व्या-आ०, ब०, प०, स० । ५ अव्याप्त्या अविनाभावमन्तरेण । ६ सहभावस्य । ७ व्याप्तिग्रहणमन्तरेण । ८ प्रामाण्याभावस्य । ९ अप्रमाणत्वम् । १० पराजयस्य । ११ प्राप्तिस्त-आ०, ब०, प०, स० ।
१०
१५