________________
न्यायविनिश्चयविवरणे
भवतु विचारः प्रमाणमिति चेत् ; सांवृतम् , पारमार्थिकं वा ? सांवृतत्वे न ततः पारमार्थिकी प्रमाणाभावसिद्धिः, उपायस्य सांवृतत्वे तदयोगात् , अन्यथा तत एव तादृशी तद्भावसिद्धिरपि स्यादित्यपार्थकत्वमेव प्रमाणनिराकरणप्रयासस्य प्राप्तम् । तद्भावसिद्धौ सांवृतमपि
प्रमाणं नास्तीति चेत् ; किमिदानीं मनोराज्येऽपि दारिद्रयमस्ति ? विचारबाह्यं प्रतिभासमा हि ५ संवृतिः, सा च यथायथं प्रमेयेषु विद्यत एव प्रवादिनाम्। विचारात्मिका न विद्यत इति चेत् ; न ; तस्या अपि "प्रमाणमात्मसात्कुर्वन्' [न्यायवि० श्लो० ४९] इत्यादिरूपायाः प्राचुर्येण भावात् । सांवृतात्प्रमाणात प्रमाणाभावसिद्धिरपि सांवृतैवेति चेत् ; न ; तथापि तत्प्रयासवैयर्थ्यस्य तदवस्थत्वात्, सांवृतस्य तदभावस्यास्माभिरप्यङ्गीकाराद् वास्तवस्यैव तस्यानभ्युपगमात् । तन्न सांवृतत्वेन विचारः प्रमाणम् ।
पारमार्थिकत्वेनेति चेत् ; न ; ततोऽप्यपरिज्ञातात् स्वार्थसिद्धरयोगात् । स्वतः प्रामाण्यनिराकरणाभावप्रसङ्गात् । नापि परिज्ञातात् ; स्वतः परतश्च तत्परिज्ञानाभावस्य स्वयमेव प्रतिपादनात् । अस्त्येव तत्परिज्ञानमभ्यासात् , अप्रामाणासम्भविनः प्रतिभासविशेषस्याभ्यासबलेनावधरणात् । 'तत्प्रमाण्यपरिज्ञाने भूयस्तदभ्यासः, तस्माञ्च तत्परिज्ञानम्' इति
परस्पराश्रय इति चेत् ; स्यादेवं यदि तत्कृतादेवाभ्यासात् तत्परिज्ञानम् , न चैवम् , पूर्वा१५ भ्यासस्य तत्परिज्ञानहेतुत्वात् , तस्यापि तथाविधतत्पूर्वज्ञानाभ्यासतो भावात् , इत्यनादिरय
मभ्यासप्रबन्धः, तत्र पूर्वपूर्वस्मादवधृतविशेषस्यैव उत्तरोत्तरज्ञानस्योत्पत्तेः न विचारप्रामाण्यपरिज्ञानमिति चेत् ; अनुकूलमाचरसि ; प्रत्यक्षादेरप्येवं प्रामाण्यपरिज्ञानस्यानपवादस्य प्रसङ्गात् , तत्राप्यभ्यासबलेनैव प्रमाणप्रत्यनीकपदार्थासम्भविनः प्रतिभासविशेषस्य "अप्रवृत्तेनैवाव
धारणात् प्रामाण्यपरिज्ञानस्योपपत्तेः, अभ्यासानादित्वेनैव परस्पराश्रयस्यापि परिहारात् । न २० चाभ्यासादेव"तद्विशेषावधारणात् ; तदभावेऽपि क्षयोपशमापरनामधेयाददृष्टसामर्थ्यादप्रवृत्तस्यैव
तदवधारणसम्भवात् । ततो निराकृतमेतत्-“यतो न प्राप्तिसन्देहः" [प्र०वार्तिकाल० ११५] इत्यादि। 'समानाकारतः' इत्यस्यासिद्धत्वात् विशेषावधारणस्यैवें भावात्। दृश्यते च बालाबलादीना. मपि 'पुरोवर्तिभावप्रतिभासेष्व [दृष्टाद] भ्यासतो वा प्रवृत्तेः प्रागेव 'सत्यार्थोऽयम् अन्यथैव चायम्' इति देशकालनरान्तरापेक्षयाऽप्यसम्भवत्परिस्खलनस्य विशेषस्यावधारणम् । अत एव वक्ष्यते
"इन्द्र जलादिषु भ्रान्तमीरयन्ति" न चापरम् । अपि चाण्डालगोपालबाललोलविलोचनाः॥ तत्र शौद्धोदनेरेव कथं प्रज्ञाऽपराधिनी । बभूवेति वयं तावद्बहुविस्मयमास्महे ॥" [न्यायवि० श्लो० ५१,५२] इति ।
१ पारमार्थिकी । २ प्रमाणसद्भावसिद्धौ । ३ द्रष्टव्यम्-पृ० १४ टि. ४ । ४ यथा यथा प्र-मा०,०,१०, स०। ५-दन्तीत्या-आ०,ब०,प,स० । ६-त्वे वि-स० । ७-रणभाव-ता० । ८ स्यादेतदेवं स०। ९ पदार्थसंभ-आ०,०,१०,०।१० पुरुषेण, प्रवृत्तः प्रागेव । ११ प्रतिभासविशेषावधारणम् । १२ इत्यस्यापि सिद्धिमा०.ब.स०। इत्यस्यापि सिद्ध-प० । १३-स्य भावा-ता०1१४ पुरोवर्तिप्रतिभास्यैष्टभ्यासतो वा मा०,०,० पुरोवर्तिप्रतिभासैष्टस्यासतो वा स० । १५ एवं व-आ., ब०, प०,स०।१६-रयन्ते न आ., 40, प., स.।