________________
१३]
प्रथमः प्रत्यक्ष प्रस्तावः
अपरिस्खलित प्रत्ययवेद्योऽपि स विशेषो न तात्त्विक इति चेत्; व्याहतमेतत्"प्रत्ययश्च न परिस्खलति, स च तात्त्विको न भवति' इति, विषयतात्त्विकत्वनिबन्धनत्वात् तत्प्रत्ययापरिस्खलनस्य । वासनादानिबन्धनमेव तदपरिस्खलनं न तद्विषयभावनिमित्तमिति चेत्; न; अत्रापि प्रत्ययापरिस्खलनस्यैवोपायत्वात् तस्य चायथार्थत्वे' ततोऽस्याप्यर्थस्यासिद्धेः । अयमप्यभाविक एवार्थ इति चेत्; कुत एतत् ? तथैव प्रत्ययापरिस्खलनादिति ५ चेत्; न; तस्यायथार्थत्वेन यथार्थतद्भाविकत्वसिद्धावनुपयोगात् । तदभाविकत्व मध्ययथार्थमेवेति चेत्; न; 'कुत एतत्' इत्यादेरनुवृत्तेरनवस्थाप्रसङ्गात् । यदि च वासनादाहेतुकत्वस्याभाविकत्वमप्ययथार्थमेव, भौविकमेव तर्हि तत्प्राप्तम्, अभाविकत्वायथार्थत्वे भाविकत्वस्यावश्यमनव (म) स्थानात् । तस्यापि न परिज्ञानोपायः ; प्रत्ययापरिस्खलनस्यायथार्थत्वप्रतिपादनात् । अथेदं वासनादाहे तु कत्वप्रत्ययस्यापरिस्खलनं न वासनादायद् अपि तु तद्धेतु- १० कत्वलक्षणस्वविषयस्य भावत एव भावात् ; किमेवं प्रत्यक्षादिप्रामाण्यप्रत्ययस्याप्यपरिस्खलनं तत्प्रामाण्यलक्षणतद्विषयतद्भावादेव न भवति यतो वासनादानिमित्तत्वेन ततस्तत्प्रमाण्यसिद्धिर्न भवेत् । अवश्यं चैतदेवमभ्युपगन्तव्यम्, अन्यथाऽनन्तरविचारस्यापि प्रामाण्यासिद्धिप्रसङ्गात् । न हि तत्प्रामाण्यमपि तद्विषयप्रत्ययापरिस्खलनादन्यतः सिद्ध्यति, "तस्माच्च तद्विषयसद्भावप्रयुक्तादेव "तत्सिद्धिर्न वासनादाप्रयुक्तात् । न चासिद्धप्रमाण्याद्विचारात् १५ प्रत्यक्षादीनामप्रामाण्यं सिद्धयतीत्युक्तम् ।
७७
,
अथ न विचारः 'प्रमाणम् अन्यथा वा' इति विचारयितव्यः । स खलु परस्य परी - क्षाहेतुरेव न स्वयं परीक्षाभूमिः अनवस्थाप्रसङ्गात् । तत्परीक्षायां हि विचारान्तरमवश्यम्भावि, विना तेन परीक्षाऽयोगात्, तत्परीक्षायामिति पुनर्विचारान्तरमिति परापरविचारपरीक्षायामेव आसंसारं व्यापारान्न प्रकृतप्रत्यक्षादिप्रामाण्यपरीक्षायां व्यापारः स्यात् । ततः सुदूरं गत्वापि २० अविचारितादेव कुतश्चिद्विचारात् तदपरपरीक्षायाम् आद्यादपि तथाविधादेव विचारात्प्रत्यक्षादिप्रामाण्यं परीक्ष्य परित्यज्यत इति चेत्; ननु तत्परित्यागो नामाप्रामाण्यमेव प्रत्यक्षादीनाम्, तत्कथम् अकृतविचाराद्विचारप्रामाण्यात् सिद्धयति ? प्रामाण्यमेव वा "तेषां ततः किन्न सिद्धयति ?
सिद्धयति न परं ( ति परं) तत्तु न पारमार्थिकं व्यावहारिकत्वात् । इदमेव हि तस्य व्यावहारिकत्वं यदपरीक्षापरिशुद्धप्रमाणसिद्धत्वम् । न हि तथाविधस्य पारमार्थिकत्वम्; परीक्षापरिशुद्ध- २५ प्रमाणवेद्यस्य तत्त्वात् । इदञ्चाभिमतमेव बौद्धस्य, " प्रामाण्यं व्यवहारेण" [ प्र०वा० १1७] इति वचनादिति चेत्; कथमिदानीं विचारप्रामाण्यस्य पारमार्थिकत्वम् ? तस्याप्यपरीक्षाशुद्धत्वात् ।
१ - खेन ततोप्यर्थसिद्धेः आ०, ब०, प० । २ अस्खलत्प्रत्ययात् । ३ प्रत्यया परिस्खलनं वासनादा निमित्तं न तद्विषयभावनिमित्तकमित्यस्य । ४ अभावरूपः । ५ भावरूपमेव । ६ -यस्याप - आ०, ब०, प०, स० । ७ प्रत्ययापरिस्खलनात् । ८ प्रामाण्यसि - स०, प०, ता० । ९-प्रत्ययपरि - ता० । १० प्रत्ययापरिस्खलनात् । ११ विचारप्रामाण्यसिद्धिः । १२ - था न वेति भा०, ब०, प०, स० । १३ विचारः । १४ अविचारितादेव । १५ प्रत्यचादीनाम् । १६ अविचारिताद्विचारात् । १७ पारमार्थिकत्वात् ।