________________
se
न्यायविनिश्चयविवरणे
[ ११३
भवतु को दोष इति चेत्; न; ततः प्रत्यक्षादीनामप्रामाण्यस्य पारमार्थिकस्यासिद्धिप्रसङ्गात् । न ह्यपारमार्थिकादुपायात् पारमार्थिकस्य कस्यचित्सिद्धिः अन्यथा तथाविधादेव प्रत्यक्षादि - प्रामाण्यात् बहिरर्थादेरपि पारमार्थिकस्ये सिद्धिः स्यादिति व्यर्थं प्रामाण्यस्य व्यावहारिकस्वोपवर्णनं प्रयोजनाभावात् । तद्धि बहिरर्थादेः पारमार्थिकस्य निराकरणार्थं परैरभ्यनुज्ञातम्, ५ इदानीं पुनैस्तथाविधादेव तस्मात् पारमार्थिक बहिरर्थादिसिद्धौ कथन्न प्रयासमात्रमेव तद्व्यावहारिकत्ववर्णनं भवेत्, तद्विषयपारमार्थिकत्वनिराकरणस्याभिमतस्यासिद्धेः ? 'विषर्यं परमार्थत्वे विषयिणः कथमपरमार्थत्वम्' इत्यपि न पर्यनुयोगः; विचारप्रामाण्येऽपि साम्यात् । अप्रामाण्यमप्यपारमार्थिकमेव प्रत्यक्षादीनामिति चेत्; न; प्रयासवैफल्याद् अविप्रतिपत्तेः । न ह्यपारमार्थिके तदप्रामाण्ये कस्यचिद्विप्रतिपत्तिरस्ति येन तत्साधनप्रयास [:] साफल्यमुद्वहेत् । अपारमार्थिकत्वे १० चाप्रामाण्यस्य प्रामाण्यमेव 'तेषां पारमार्थिकं भवेत् । " तदपि अपारमार्थिकमिति चेत् ; न ;
परस्परपरिहारस्थितिस्वभावयोरेकस्य पारमार्थिकत्व एवान्यस्या पारमार्थिकत्वोपलम्भात् नित्यत्वाऽनित्यत्ववत् । सत्येव नित्यत्वस्य पारमार्थिकत्वे नित्यत्वस्या पारमार्थिकत्वं परस्यापि प्रसिद्धम्, तत्कथमुभयापारमार्थिकत्वम् ? ततो यदि प्रामाण्यमपारमार्थिकमेव अप्रामाण्येन तद्विपरीतेन भवितव्यमिति कथनोको दोषः - ' यदपरिशोधित प्रामाण्याद्विचारात्प्रामाण्यवत्तदपि १५ सिद्धयति' इति ?
२०
२५
'ऐकासत्यत्वमन्योऽन्यपरिहारस्वभावयोः ।
” विनाऽन्यतरसत्यत्वं नास्ति नित्येतरत्ववत् ॥ २३८ ॥ तन्नोभयोरसत्यत्वं क्वचिन्मानेतरत्वयोः ।
मानत्वं चेदसत्यं स्यात् ; सत्यमावश्यकात्परम् ॥ २३९ ॥ तत्र दोष: कथनोक्तो विचारादपरीक्षितात् ।
प्रामाण्यस्येव तस्यापि न सिद्धिस्तात्त्विकीति यः ॥ २४० ॥ न विचारादमानत्वं येनैवं प्रतिपाद्यते ।
प्रत्यक्षादेः प्रमाणत्वं किन्तु दुर्बोधमुच्यते ॥ २४९ ॥
इति चेत्; अपरिज्ञातं 'तेंदस्ति यदि तत्त्वतः ।
बहिरर्थादिरस्त्येव तन्मानस्यानिषेधनात् ॥ २४२॥ तथा च कथमच्येत "स्वरूपस्य स्वतो गतिः ।" [ प्र० वा० १।६ ] 'प्रेमाणाद्बहिरर्थादेरपि यद्गतिरक्षता ॥२४३॥
न
१ अपारमार्थिका देव । २ - स्यासि - आ०, ब०, प०, स० । ३ सौगतैः विज्ञानवादिभिः । ४ अपारमार्थिकादेव । ५- न तत्प्रया - आ०, ब०, प०, स० । ६ विषयपारमार्थिकत्वे आ०, ब०, प०, स० । ७ - ल्यादपि प्रति - आ०, ब०, प०, स० । ८ चाप्रामाण्यमेव तेषां ता० । ९ प्रत्यक्षादीनाम् । १० प्रामाण्यमपि । ११ पारमार्थि क्रेन । १२ एकसत्यत्व - ता० । १३ विनान्यतरास-आ०, ब०, स०, ता० । १४ प्रत्यक्षादीनां प्रामाण्यम् । १५ प्रामाण्याद्व-प० । १६ निर्दुष्टां ।