________________
१३]
प्रथमः प्रत्यक्षप्रस्तावः मानाच्चेदपरिज्ञाताद्विषयो नाधिगम्यते । मानमेव कथं तत्स्याद्विषयाधिगमाक्षमम् ॥२४४॥ अथ नास्त्येव ; नास्तित्वं तर्हि तस्य प्रतीयताम् । दुर्बोधत्वं कथं तस्य विचारात्परिकल्प्यते ॥२४५॥ अस्त्वेवमिति चेत् ; तस्याभावः कीदृश उच्यताम् । तुच्छश्चेत् ; स कुतः सिद्धः ? विचाराच्चेद्यथोदितात् ; ॥२४६॥ प्रतिबन्धाहते तस्य तस्मात्सिद्धिः कथं भवेत् ? । ग्राह्यप्राहकभावो यत्प्रतिबन्धे परैर्मतः ॥२४७॥ तादात्म्यं चेद्विचारस्याभावेनें ; अभाव एव सः । तस्यापि सिद्धिरन्यस्माद्विचारात्ताहगात्मनः ॥२४८॥ तस्याप्यन्यत इत्येवमनवस्थानमुद्भवत् । प्रामाण्याभावसंसिद्धिं प्रतिबध्नाति तावकीम् ॥२४९॥ नाप्यभावात्समुत्पत्तिर्विचारस्यास्त्यशक्तिकात् । नासतं खरशृङ्गादि दृष्टमर्थक्रियाक्षमम् ॥२५॥ विचारादपि यद्येषः परमार्थेन सिद्ध्यति । विचारस्य प्रमाणत्वं तत्र स्यात्पारमार्थिकम् ॥२५१॥ प्रत्यक्षादेरपि स्वार्थे तथा किं तंन्न सिद्ध्यति । प्रमाभङ्गप्रवादस्ते यतो निर्व्याकुलो भवेत् ॥२५२॥ विचारात्सांवृतस्यैव "तस्य सिद्धिर्यदीष्यते । सिद्धसाधनमेवं स्यात् स्यात्प्रयासो वृथैव ते ॥२५३॥ तन्न तुच्छः प्रमाभावो विचारात्तव सिद्ध्यति । भावान्तरस्वभावश्चेत् ; सोऽपि कः परिकल्प्यताम् ? ॥२५४॥ प्रमाणभावनिर्मुक्तो ज्ञानवर्गः स चेत् ; असत् ।
अन्यानन्यविकल्पाभ्यां तस्य तत्त्वाव्यवस्थितेः ॥२५५॥
तथाहि-तादृशो ज्ञानवर्गो विचाराव्यतिरिक्तो वा स्यात,व्यतिरिक्तो वा गत्यन्तराभावात्? २५ अव्यतिरिक्तश्चेत् ; विचारस्यैव तर्हि स्यादप्रामाण्यं 'तत्स्वभावाज्ज्ञानवैर्गादव्यतिरेकात् । न सप्रमाणाव्यतिरिक्त[म]प्रमाणं न भवति, अन्यतिरेकस्यैवंविधत्वात् । तदेतत्स्ववधाय कृत्योत्थापनं प्रज्ञाकरस्य, परपरिकल्पितप्रमाणनिराकरणोपक्रमेण स्वाभिमतविचारस्यैवाप्रामाण्योपपादनात्।।
कथं तु स्या-आ०,०,०स० । २ प्रमाणाभावस्य । ३ विचारात् । ४ प्रमाणाभावेन । ५ विचारः। अभावात्मनः। -वेत् प०, स०।८ प्रमाणाभावः। ९ प्रमाणत्वम् । १० प्रमाणाभावस्य । ११-यदिष्यमा०,०,५०, स०।१२ अप्रामाण्यस्वभावात् । १३-ज्ञानमार्गा-आ०,०,१०।१४-विरुद्धत्वात् मा., 4.प., स.। १५-4 प्रा-प० ।-4 प्रा-भा०,40,स०।