________________
न्यायविनिश्चयविवरणे
[ १३
प्रसिद्धञ्चैतत् प्रमाणवादिनामिति न साध्यपक्षे निक्षेपमर्हति । व्यतिरिक्तश्चेत्; तत्रापि तद्वर्गे विचारस्य यदि व्यभिचारः कथं तततस्तत्सिद्धिः प्रामाण्यसिद्धिवत् । अव्यिभिचारश्चेत् ; अविचलितं प्रामाण्यं भवेत् तस्य तल्लक्षणत्वात् । अत्र चोक्तम् - " प्रत्यक्षादेरपि स्वविषयाव्यभिचारलक्षणं तद्वदेव तदप्रतिषिद्धम् " [ ] इति । अत उक्तम्- प्रत्यक्ष
५ लक्षणमर्थवेदनमिति ।
८०
ननु भवन्नपि परस्यास्मिन् विषये विचारः किन्नाम प्रमाणम्-प्रत्यक्षम्, अनुमानम्, अन्यद्वा भवेत् ? प्रत्यक्षमिति चेत्; न; 'प्रत्यक्षमविचारकम्' इति स्वमतव्याघातात् । भवदपि तत् सर्वस्माज्ज्ञानवर्गादव्यतिरिक्तं यदि; स एव तर्हि यथास्वमप्रामाण्यं प्रतिपद्यत इति प्राप्तम्, न चैतदुपपन्नम् ; तद्वर्गस्य त्वया कुतश्चिदविषयीकरणात् । न ह्यविषयीकृतः १० सकलदेशकालगोचरपुरुषाधिष्ठानस्तद्वर्गः स्वगतमप्रामाण्यमेव प्रतिपद्यते नापरमिति सम्भवति निर्णयः । एतदपि तद्वर्गेणैव प्रतीयत इति चेत्; न; अत्रापि तस्यैवोत्तरत्वात् । अविषयी - कृते तस्मिन् 'तेनैवेदं प्रतीयते' इति दुरवबोधमेतदिति । पुनरपि तथा समाधाने तदेवोत्तरमित्यनवस्थानं भवेत् । यदि च ज्ञानवर्गस्य सर्वस्यापि स्वत एवाप्रामाण्यप्रतिपत्तिः, न तर्हि तत्र कस्यचिदपि विप्रतिपत्तिरिति सौगतमेव सकलं जगत्स्यात् । अप्रमाणेऽपि तस्मिन् प्रमाणत्व१५ समारोपाद्विप्रतिपत्तिरिति चेत्; कुतस्तत्समारोपः ? तत एव ज्ञानवर्गादिति चेत्; न; तस्य स्वतोऽप्रमाण्यप्रतिपत्तेरभ्युपगमात् । न प्रामाण्यं प्रतिपद्यमानस्य स्वतः प्रामाण्यारोपणमुपपन्नम् ; तत्त्वप्रतिपत्ति मिध्यारोपयोरेकज्ञानेन विरोधात् । अविरोधे वा" न कुतश्चित्तदारोपनिवृत्तिः, तत्वज्ञानस्य तदप्रत्यनीकत्वात्, अपरस्य तत्प्रत्यनीकस्याभावादित्य मुक्तिरेव संसारात् । आरोपात्मकत्वे च 'द्वर्गस्य न प्रत्यक्षत्वम्, प्रत्यक्षस्य कल्पनापोढत्वात्, आरोपस्य च कल्पना - २० त्मकत्वात् । अशब्दसंसर्गादविकल्पत्वमेव तैमिरिकस्य द्विचन्द्रग्रहणवदिति चेत्; तथापि न प्रत्यक्षत्वम् प्रत्यक्षस्याभ्रान्तत्वात् 'प्रत्यक्षमभ्रान्तम्” [ ] इति वचनात् । आरोपस्य च १४ स्वप्रतिभासिनि प्रामाण्ये यद्यप्रामाण्यं न स्वतः प्रतीयते "सर्वस्याप्रामाण्यं स्वतः प्रत्येयम्' इति प्रकृतपरित्यागः । प्रतीयते चेत्; तदवस्थो विप्रतिपत्त्यभावः । न हि स्वाप्रामाण्यवेदिन एव ज्ञानात् तद्विषयसद्भावावष्टम्भेन विप्रतिपद्यन्ते विद्वांसः । तत्रापि पुनः प्रामाण्यारोपाद्विप्रति२५ पद्यन्त एवेति चेत्; न; 'कुतस्तत्समारोपः' इत्यादेः पुनरावृत्त्या चक्रकानवस्थाप्रसङ्गात् । एतेन 'परतस्तत्समारोपः' इत्यपि प्रत्युक्तम् ; तत्समारोपस्यापि स्वाप्रामाण्यावेदित्वे प्रकृतप्रतिज्ञापरित्यागस्य, तद्वेदित्वे विप्रतिपत्त्यनङ्गत्वस्य तत्राप्यपरर्तत्समारोप कल्पनायाम् 'कुतस्तत्स
१ प्रमाणभावनिर्मुक्तज्ञानवर्गरूपे प्रमाऽभावे । २ विचारतः । ३ प्रमाऽभावऽिद्धिः । ४ विचारप्रामाण्यम् । ५ प्रामाण्यस्य । ६ " कल्पनापोढमभ्रान्तं प्रत्यक्षम् " - न्यायबि० पृ० ११ । ७ यथामप्रा-आ०, ब० । यथातमप्रा - प० । यथाखप्रा - ता० । ८ खगतप्रा-आ०, ब०, प०, स० । ९ ज्ञानवर्गे । १० वा नु कु स० । ११ तदविरुद्धत्वात् । १२ ज्ञानवर्गस्य । १३ " तत्र कल्पनापोढमभ्रान्तं प्रत्यक्षम् । " - न्यायबि० पृ० ११ । " प्रत्यक्षं कल्पनापोढमभ्रान्तम् ।” – प्र० वार्तिकाल० २ । १२३ । १४ स्वगते । १५ सर्वस्यापि प्रामाण्यं सतः आ०, ब०, प०, स० । १६- ण्यवादिन आ०, ब०, प०, स० । १७ स्वाप्रामाण्यवे स० । १८ - तस्तत्स - स० ।