________________
१३]
प्रथमः प्रत्यक्षप्रस्तावः मारोपः' इत्याद्यावृत्तश्चाविशेषात् । तन्न तद्वर्गात्तव्यतिरिक्तम् । नाऽपि व्यतिरिक्तम् ; उक्तदोपत्वात् । तन्न प्रत्यक्षं विचारः ।
नाप्यनुमानम् ; प्रत्यक्षाभावे तदभावात् ; तस्य तत्पूर्वकत्वात् । अप्रामाण्यप्रतिबन्धे हि लिङ्गस्य प्रत्यक्षसिद्धे स्यादनुमानम्। न चाप्रामाण्यं प्रत्यक्षसिद्धमिति कथं तत्सम्बन्धः प्रत्यक्षवेद्यः स्यात् ? सम्बन्धाधिकरणप्रतिपत्तिमन्तरेण सम्बन्धप्रतिपत्तेरनुपपत्तेः। सत्यपि प्रत्यक्षादप्रामाण्य- ५ परिज्ञाने न तत्सम्बन्धस्य प्रत्यक्षवेद्यत्वम् , 'स्वरूपस्वावलम्बनाकारपरिच्छेदि हि प्रत्यक्षम्' इत्यादेः 'एतदत्यन्तसाहसम्' इत्यन्तस्य दोषस्य परपक्षोक्तस्यै अत्रापि प्रसङ्गात् । नापि अनुमानवेद्यत्वम् ; 'अनुमानान्तराक्षेपात्' इत्यादिप्रैसङ्गात् । तन्नानुमानमपि विचारः ।
प्रमाणान्तरमित्यपि न युक्तम् , “न प्रत्यक्षानुमानाभ्यामपरं मानमिष्यते" [प्र. वार्तिकाल० १।५] इति स्वमतव्याघातप्रसङ्गादिति चेत् ; भवतु सौगतस्यायं पर्यनुयोगः तेनै- १० वास्य विचारस्याप्रामाण्यप्रतिपत्त्यर्थमङ्गीकारान्न जैनस्य विपर्ययात् । जैनेन तु केवलम् 'अप्रमाणाद्विचारादितरज्ञानवर्गस्याप्रामाण्यं तत्प्रामाण्यवदशक्यप्रतिपत्तिकमिति प्रमाणयितव्यो विचारः, तद्वदेव चार्थज्ञानस्यापि प्रामाण्यमशक्यप्रतिषेधम्' इत्येतावदुच्यते ।
____स्यान्मतम्-न सौगतस्याप्ययं प्रमाणम् । न ह्यनेन किञ्चिद्विधीयते नापि प्रतिपिध्यते, केवलमर्थज्ञानप्रामाण्ये संशय एवापाद्यते न च संशयापादकं प्रमाणं विरोधादिति ; १५ तदसङ्गतम् ; अर्थनिषेधनियमनिर्णयाभावे "स्वरूपस्य स्वतो गतिः" [प्र० वा० ११६ ] इति विरोधात्। न हि सन्दिग्धेऽर्थे स्वरूपस्यैव न पररूपस्य गॅतिरिति नियमो न्याय्यः । किञ्च,
विचारितं चेत्सन्दिग्धम् , असन्दिग्धं 'किमुच्यताम् ? संवेदनस्वरूपं चेत् ; विचारस्तत्र नास्ति किम् ? ॥२५६॥ नास्ति चेत् ; अविकल्पत्वक्षणिकत्वादिकं तव । तंत्र मानात्कुतः सिद्धयेत् ? स्वसंवेदनतो यदि ॥२५७॥ कुतस्तदपि संसिद्धयेत् ? विचारेण विना कृतम् ? प्रसिद्धत्वाद्विचारेण किं तत्रेत्यपि दुर्मतम् ॥२५८॥ मीमांसकादयस्तत्रं यत्प्रसिद्धिं न मन्यते । विना विचारतस्तत्त्वं प्रतिबोध्याः कथं त्वया ॥२५९॥ अपि च त्वं स्वसंवित्तौ विचारविरहं ब्रुवन् । स्वशास्त्रज्ञानशून्यत्वमात्मनः कथयस्यलम् ॥२६०॥
२५
१ अप्रामाण्यात्मकसाध्येन सह लिङ्गस्य अविनाभावे । २ पृ. ७५। ३ विचारेण । ४ एवापद्यते आ०, ब०, ५०, स०। ५ गतिनि-आ०, ब०,५०, स०। ६ किञ्चिदुच्य-आ०, ब०, ५०, स०। ७ स्वसंवेदनस्वरूपे। ८ स्वसंवेदने। ९ तमश्चते आ०, ब०, ५०, स०। १० शिष्या इति शेषः ।
११