________________
न्यायविनिश्चयविवरणे
[ "अप्रत्यक्षस्योपलम्भस्य नार्थदृष्टिः प्रसिद्धयति ।" [ ] 'इत्यादेवहुलं तत्र तद्विचारस्य दर्शनात् ॥२६१॥ अस्तु तत्र विचारश्चेत्तञ्च सन्दिग्धमस्तु वः।तद्विचारस्य सम्यक्त्वानिश्चितं चेत्तदुच्यते ॥२६२॥ मानमेव स सम्यक्त्वे तस्य तल्लक्षणत्वतः । न चैवम् , मानसंशीतेः स्वयमेव निरूपणात् ॥२६३॥ सन्दिग्धमानवेद्यत्वादर्थवत्तत्स्ववेदनम् । त्याज्यमस्तु, उभयंत्यागश्चोपायेन विना कथम् १२६४॥ अस्ति कश्चिदुपायश्चेत् ; द्वयत्यागः कथं भवेत् ? तत्त्यागे कोऽवृशिष्येत यस्योपायत्वकल्पनम् ॥२६५॥ तस्मात्स्ववेदनं बाह्यज्ञानाप्रामाण्यमेव वा । विचारादन्यतो वाऽपि प्रमाणादेव सिद्ध्यति ॥२६६॥ तद्वदेव प्रमाणत्वमर्थज्ञानस्य किन्न तत् ।
'प्रत्यक्षलक्षणं प्राहुः' इति सूक्तं ततो बुधैः ॥२६७॥
अथवा 'आत्मवेदनम्' इत्ययुक्तम् ; अर्थज्ञानस्य स्वतो वेदैनायोगात् , स्वात्मनि क्रियाविरोधात् छिदिक्रियावत् । न ह्यतिनिशितोऽपि करवाल आत्मानमेव छिनत्तीत्यत्रेदमाह'प्रत्यक्षलक्षणमात्मवेदनम्' इति । आत्मवेदनप्रतिपक्षस्य तदभावस्यै स्वविषयेत्वेनाक्षणात् प्रत्यक्षं तदभावज्ञानं तदेव लक्षणं यस्यात्मवेदनस्य तत्तथोक्तम् । तथा हि
स्वसंवेदनवैकल्यं सर्वप्रत्ययगोचरम् । स्वतश्चेदवगम्येत प्रतिज्ञा भज्यते तव ॥२६८॥ अन्यतश्चेत् ; तदन्यस्य यदि संवेद्यते स्वतः । प्रतिज्ञाभङ्गदोषस्ते पुनरप्यनुषज्यते ॥२६९॥ तत्रापि तस्य संवित्तिरन्यतो यदि कल्प्यते । तत्राप्यन्यत इत्येवमनवस्था कथं न वे ॥२७॥
, "अप्रसिद्धोपलम्भस्य नार्थवित्तिः प्रसिद्धयति ।"-तस्वस. का. २०७४ । २ अर्थ-स्वसंवेदनो. भय ।-भर्य त्या-आ०, ब०,०।-भयस्त्या-स०। ३ वेदनात् स्वा-आ०,१०,५०, स.। . “स्वात्मनि वृत्तिविरोधात् ; न हि तदेव अङ्गुल्यग्रं तेनैव अङ्गुल्यप्रेण स्पृश्यते, सेवासिधारा तयैवासिधारया विद्यते।"स्फुटार्थ. अभिध. पृ. ७८ । “न छिनत्ति यथात्मानमसिधारा तथा मनः । यथा सुतीक्ष्णाप्यसिधारा खङ्गधारा तदन्यवदात्मानं स्वकीयं न छिनत्ति न विघटयति स्वात्मनि क्रियाविरोधात् तथा मनः, असि. धारावञ्चित्तमपि स्वात्मानं न पश्यतीति योज्यम् ।"-बोधिचर्या पृ० ३९२ । ५-स्य वि-आ०,०, ५०, सः।
आत्मवेदनाभावज्ञानम् । ७ स्वसंवेदनवैकल्यं संवेद्यते । ८ स्वसंवेदनवैकल्यस्य । ९ वा स.।