________________
[12]
प्रथमः प्रत्यक्ष प्रस्तावः
काङ्क्षणस्य निवृत्तेश्चेत्; काङ्क्षणीयं किमुच्यताम् ? सर्वज्ञानस्वसंवित्तिवैकल्यज्ञानमेव चेतु ॥ २७९ ॥ तर्हि तस्मिन्ननिष्पन्ने कथं काङ्क्षानिवर्त्तनम् ? काङ्क्षितार्थप्रक्लृप्तिर्हि काङ्क्षाव्यावृत्तिकारणम् ॥ २७२॥ मनसोऽन्यत्र गमनादित्यप्यनुचितं वचः । काङ्क्षितार्थं परित्यज्य तंत्र तद्गत्यसम्भवात् ॥ २७३ ॥ अदृष्टादन्यतो वापि तत्र तद्गतिसम्भवे ।
मा स्म भूदनवस्थानं प्रकृतं तु न सिद्ध्यति ॥ २७४ ॥ साकल्येन स्वसंवित्तिवैकल्यस्याप्रवेदनात् । तस्मात्तद्विषयं किचिज्ज्ञानमस्तु स्वतो गैतम् ॥ २७५॥ तदेव चार्थविज्ञानस्यात्म वेदनलक्षणम् । प्रत्यक्षलक्षणं देवः प्राह तेनात्मवेदनम् || २७६ ॥ न स्वसंवेदने कश्चिद्विरोधोऽप्यस्ति वस्तुतः । निर्बाधं तस्य दृष्टत्वात् दृष्टे कानुपपन्नता ॥ २७७॥ छिदिक्रिया विरुद्धास्तु तस्याः स्वात्मन्यदर्शनात् । म स्वसंवेदनं तस्य दर्शनादर्थ वित्तिवत् ॥ २७८ ॥ अन्यथार्थात्मसंवित्रत्योर्विरोधेनोपपीडनात् । निद्रायितं जगत्प्राप्तमस्वसंवित्तिवादिनाम् ॥ २७९ ॥
१०
१ - व्यापृतिका - आ०, ब०, प०, स० । २ अन्यत्र । ३ मनोगति । ४-स्याप्यवे-आ०, ब०, प०, स० ५ गतिः स० । ६ अन्यथात्मार्थसं- ता० । ७-तरत्र - आ०, ब०, प० ।
१५
सकलज्ञानानां हि स्वसंवेदनवैकल्यं यदि स्वत एव प्रत्येतव्यम् ; तदा तदेव तेषां स्वसंवेदनमिति तद्वैकल्यप्रतिज्ञाव्याघातः कथन्न भवेत् ? अन्यतोऽवगम्यत इति चेत्; न ; २० तस्यापि स्वतस्तद्वैकल्यवेदने प्रतिज्ञाव्याघातस्य तदवस्थत्वात् । अन्यतस्तद्वेदने तस्यापि तदन्यत - स्तद्वेदनमित्यनवस्थाप्रसङ्गात् । निवृत्ताकाङ्क्षस्य न तत्प्रसङ्ग इति चेत्, नन्वियमाकाङ्क्षा साकल्येन तद्वैकल्य परिज्ञानगोचरा कथं तत्परिज्ञानापरिसमाप्तौ निवृत्तिमती स्यात् ? आकाङ्क्षितंप्रयोजनपरि समाप्तिरेव झाकाङ्क्षानिवृत्तिनिबन्धनं नापरं किञ्चित् । अन्यत्र गतमनस्कस्य न तत्प्रसङ्ग इत्यप्यनुचितमेव वचनम् ; आकाङ्क्षाविषयव्यतिक्रमेण तदन्यत्र गमनासम्भवात् । अदृष्टसामर्थ्येन ईश्वरचोदनया वा तत्सम्भवश्चेत्; भवतु निवृत्तमनवस्थानम्, प्रस्तुत सिद्धिस्तु नास्त्येव सकलज्ञानगतस्य स्वसंवेदन वैकल्यस्यैवमप्रवेदनात् । ततस्तद्विषयं स्वसंविदितमेव किञ्चिद्विज्ञानमङ्गीकर्त्तव्यम्, अन्यथा तदसिद्धेः, तदेव च सकलस्यार्थवेदनस्यापि स्वसंविदितत्वमवस्थापयति । इदमुक्तम्- 'प्रत्यक्षलक्षणमात्मवेदनम्' इति । न चार्थज्ञानानां स्वसंविदितत्वे कश्चिदपि
२५