________________
५
ર
न्यायविनिश्चयविवरणे
[ ११३
विरोधः तस्य निर्बाधमनुभूयमानत्वात् । न चानुभवातिक्रान्तखङ्गस्वरूप गोचरछिदिक्रिया निदर्शनेन अनुभवाधिरूढस्य स्वसंवेदनस्यापि विरोधपरिकल्पनमुपपन्नम्, अर्थवेदनस्यापि तत्प्रसङ्गात् । ततो न स्वरूपस्य नार्थस्य वेदनमिति सकलं जगन्निद्रामुद्रितमेव अस्वसंवेदनज्ञानवादिनां प्राप्तम् । तस्मादनुभवोपस्थापितशरीरत्वाद् अर्थवेदनवद् प्रतिक्षेपार्हमेव आत्मवेदनमपि, साकल्यतः द्विपक्षावेदनान्यथानुपपत्तेर्वा प्रामाण्यवत् ।
भवतु प्रामाण्यमप्रतिक्षेपार्हम्, अन्यथा तद्विचारस्यापि तत्प्रतिक्षेपे साकल्येन ततरस्प्रतिक्षेपायोगात् । तस्य तु कुतः प्रतिपत्तिः ? " तद्विचारप्रामाण्यस्य कुत इति चेत्; नेदमुत्तरम् । अव्युत्पन्नप्रश्नस्य तत्रापि समानत्वादिति चेत्; न; क्वचित्स्वतः क्वचित्परतश्च तन्निश्चयसम्भवात् । 'पेरतस्तन्निश्वयेऽनवस्थानमिति चेत्; न; पर्यन्ते कस्यचित्स्वतः सिद्धप्रामाण्यस्यापि सम्भवात् । १० यथा चैतत्सुबद्धं तथोत्तरत्र निरूपयिष्यामः । एतदेवाह - 'प्रत्यक्षलक्षणम्' इति । स्वसंवेदनमत्र प्रत्यक्षम्, तदेव लक्षणं गमकं यस्य न्यायस्य तं प्राहुः इति । प्रत्यक्षग्रहणमुपलक्षणम्, तेन 'पैरलक्षणमपि तं प्राहुरिति प्रतिपत्तव्यम् । तदेवमभिहितं प्रमाणस्य सामान्यलक्षणम् ।
अधुना पुनरभिहितलक्षणस्य तत्सामान्यस्य विभागो लक्षयितव्य इत्यनयैव कारिकया आवृत्तिन्यायेन प्रत्यक्ष लक्षणं दर्शयति तस्य तद्विभागत्वात् । परोक्षमपि द्विभाग एव तस्य १५ कस्मान्न लक्षणमुपदर्श्यते ? शास्त्रान्तरे तस्य तदुपदर्शनमिति चेत्; न; प्रत्यक्षस्यापि तत्रैव तदुपदर्शनात् । इहापि तृतीये परोक्षस्य तदुपदर्श्यत एव " प्रत्यक्षमञ्जसा स्पष्टमन्यच्छुतम्” [ न्यायवि० श्लो० ४६९] इत्यनेनेति चेत्; न तर्हि प्रत्यक्षमप्यत्र लक्षयितव्यं तस्यापि तत्रैव तदुपदर्शनात् । तस्योक्तोपसंहारत्वादत्रैव तस्य तदुपदर्शनीयम्, अनुक्तस्योपसंहारायोगात्; इत्यप्यसमाधानम्; परोक्षेऽपि समानत्वात् । द्वितीयेनानुमानस्य तृतीयेन २० शाब्दस्य च परोक्षविभागस्य लक्षणोपदर्शनात् परोक्षमपि लक्षितं भवत्येवेति चेत्; न; विभागलक्षणस्य सामान्यानुपातित्वाभावात् इतरथा प्रमाणमपि न सामान्येन लक्षयितव्यं प्रत्यक्षादितद्विभागलक्षणादेव तलक्षणोपपत्तेरिति चेत्; नेदमशक्यपरिहारम् ; अत्रैव परोक्षस्यापि सामर्थ्येन लक्षणात् तस्य प्रत्यक्षविसदृशत्वात् । प्रत्यक्षे च ' स्पष्टम्' इति लक्षिते तद्विसदृशत्वाद् 'अस्पष्टम् परोक्षम्' इति भवत्यर्थात्प्रतिपत्तिः । तस्य तद्विसदृशत्वमेव कुत इति चेत् ? परोक्षत्वादेव, अन्यथा तदपि प्रत्यक्षमेव स्यात् । न हि प्रत्यक्षसजातीयमप्रत्यक्षमुपपन्नम् । न च प्रत्यक्षमेव प्रमाणम्; परोक्षस्याप्युपपत्तिबलेन व्यवस्थापनात् । उपसंहारे च परि
२५
,
१ - वादितिरू - आ०, ब०, प०, स० । २ स्य तत्प्र-आ०, ब०, प०, स० । ३ आत्मवेदनाभाव । सद्विपक्षवेदना - सा० । साकल्यतः प्रामाण्यप्रतिक्षेपे । ५ प्रामाण्यप्रतिक्षेपविचारस्यापि । ६ प्रामाण्याभावे । • विचारतः । ८ प्रामाण्यप्रतिक्षेप । ९ प्रामाण्यस्य । ९० प्रामाण्यप्रतिक्षेपविचारप्रामाण्यस्य । ११ प्रामाण्यनिश्चय। १२ परतश्च तन्नि-आ०, ब०, प० । १३ प्रत्यक्ष भिन्नः परोक्षः परः । १४-क्षलक्ष-आ०, ब०, प०, स० । १५ प्रत्यक्षस्य । १६ प्रमाणसामान्यविभागः । १७ लघीयस्त्रयादौ । १८ प्रत्यक्षस्य । १९ - तदशक्यपआ०, ब०, प०, स० । २० लक्ष्यते त ० । लक्षते आ०, ब० ।